| YouTube Channel

शक्तिः (zaktiH)

 
Apte
English
शक्तिः [śaktiḥ],
f.
[शक्-क्तिन्]
(a) Power, ability, capacity, strength, energy, prowess
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
Pt.*
1.361
ज्ञाने मौनं क्षमा शक्तौ
R.*
1.22
so यथाशक्ति, स्वशक्ति
&c.
(b) Faculty, capacity
स्मरण- शक्ति 'retentive faculty or memory'.
Regal power
(it has three parts or elements
1 प्रभुशक्ति or प्रभावशक्ति' the majesty or pre-eminent position of the king himself'
2 मंत्रशक्ति 'the power of good counsel'
and 3 उत्साहशक्ति 'the power of energy')
राज्यं नाम शक्तित्रयायत्तम् Dk.
त्रिसाधना शक्तिरिवार्थसंचयम्
R.*
3.13
6.33
17.63
Śi.*
2.26.
The power of composition, poetic power or genius
शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् K.P.* 1
see explanation ad
loc.
The active power of a deity, regarded as his wife, female divinity
(these are variously enumerated, 8, 9 or even 5 being mentioned)
जयति परिणद्धः शक्तिभिः शक्तिनाथः
Māl.
5.1
Ś.*
7.35.
A kind of missile
शक्तिखण्डामर्षतेन गाण्डीविनोक्तम्
Ve.*
3
ततो विभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम्
R.*
12.77.
A spear, dart, pike, lance.
(In
phil.
) The relation of a term to the thing designated.
The power inherent in cause to produce its necessary effect.
(In
Rhet.
) The power or signification of a word
(these are three अभिधा, लक्षणा and व्यञ्जना)
तिस्रः शब्दस्य शक्तयः S. D.* 11.
The expressive power or denotation of a word (opp. लक्षणा and व्यञ्जना)
it is thus defined: अस्माच्छब्दादयमर्थो बोद्धव्य इत्याकारको$नादिसंकेतः शक्तिः Tarka. K.
The female organ, the counterpart of the Phallus of &Saucte
iva worshipped by a sect of people called Śāktas.
A sword.
An implement in gambling.Comp. -अर्धः perspiring and panting through fatigue or exertion. -अपेक्ष, -अपेक्षिन्
a.
having regard to strength
षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षो रसायनम्
Śi.*
2.93.-कुण्ठनम् the deadening of a power. -ग्रह
a.
apprehending the force or meaning.
armed with a spear.
(हः) apprehension of the force, meaning, or acceptation of a word.
a spearman, lancer.
an epithet of Śiva.
of Kārtikeya. -ग्राहक
a.
determining or establishing the meaning of a word. (-कः) epithet of Kārtikeya. -त्रयम् the three constituent elements of regal power
see शक्ति (2) above. -धर
a.
strong, powerful.
(रः) a spearman.
an epithet of Kārtikeya
ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः
Rām.*
7.8.11. -ध्वजः
N.
of Kārtikeya
शक्तिध्वजशिखरशूलोत्सेधं सौधमागतम्
Dk.*
2.5. -नाथः
N.
of Śiva
जयति परिणद्धः शक्तिभिः शक्तिनाथः
Māl.
5.1. -पर्णः Alstonia Scholaris. (Mar. सातवीण). -पाणिः, -भृत्
m.
a spearman.
an epithet of Kārtikeya.
पातः prostration of strength.
In Yoga philosophy, a spiritual procedure, by which the preceptor puts his strength (spiritual power) in his pupil. -पूजकः a Śākta q. v. -पूजा the worship of Śakti. -पूर्वः an epithet of Parāśara. -वैकल्यम् loss of strength, debility, incapacity. -हीनa. powerless, weak, impotent. -हेतिकः a lancer, spearman.
Apte 1890
English
शक्तिः f. [शक्-क्तिन्] 1 (a) Power, ability, capacity, strength, energy, prowess
दैवं निहत्य कुरु पौरुषमात्मशक्त्या Pt. 1. 361
ज्ञानि मौनं क्षमा शक्तौ R. 1. 22
so यथाशक्ति, स्वशक्ति &c. (b) Faculty, capacity
स्मरणशक्ति ‘retentive faculty or memory’.
2 Regal power
(it has three parts or elements
प्रभुशक्ति or प्रभावशक्ति ‘the majesty or pre-eminent position of the king himself’
{2} मंत्रशक्ति ‘the power of good counsel’, and {3} उत्साहशक्ति ‘the power of energy’)
राज्यं नाम शक्तित्रयायत्तं Dk.
त्रिसाधना शक्तिरिवार्थसंचयं R. 3. 13, 6. 33, 17. 63
Śi. 2. 26.
3 The power of composition, poetic power or genius
शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् K. P. 1
see explanation ad loc.
4 The active power of a deity, regarded as his wife, female divinity
(these are variously enumerated, 8, 9 or even 50 being mentioned)
जयति परिणद्धः शक्तिभिः शक्तिनाथः Māl. 5. 1
Ś. 7. 35.
5 A kind of missile
शक्तिखंडामर्षितेन गांडीविनोक्तं Ve. 3
ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणं R. 12. 77.
6 A spear, dart, pike, lance.
7 (In phil.) The relation of a term to the thing designated.
8 The power inherent in cause to produce its necessary effect.
9 (In Rhet.) The power or signification of a word
(these are three अभिधा, लक्षणा and व्यंजना)
तिस्रः शब्दस्य शक्तयः S. D. 11.
10 The expressive power or denotation of a word (opp. लक्षणा and व्यंजना)
it is thus defined:
अस्माच्छब्दादयमर्थो बोद्धव्य इत्याकारकोऽनादिसंकेतः शक्तिः Tarka K.
11 The female organ, the counterpart of the Phallus of Śiva worshipped by a sect of people called Śāktas.
12 A sword.
13 An implement in gambling.
Comp.
अर्धः perspiring and panting through fatigue or exertion.
अपेक्ष,
अपेक्षिन् a. having regard to strength
Śi. 2. 93.
कुंठनं the deadening of a power.
ग्रह a. {1} apprehending the force or meaning. {2} armed with a spear. (
हः) {1} apprehension of the force, meaning, or acceptation of a word. {2} a spearman, lancer. {3} an epithet of Śiva. {4} of Kārtikeya.
ग्राहक a. determining or establishing the meaning of a word. (
कः) an epithet of Kārtikeya.
त्रयं the three constituent elements of regal power
see शक्ति (2) above.
धर a. strong, powerful. (
रः) {1} a spearman. {2} an epithet of Kārtikeya.
पाणिः,
भृत् m. {1} a spearman. {2} an epithet of Kārtikeya.
पातः prostration of strength.
पूजकः a Śākta q. v.
पूजा the worship of Śakti.
पूर्वः an epithet of Parāśara.
कल्यं loss of strength, debility, incapacity.
हनि a. powerless, weak, impotent.
हेतिकः a lancer, spearman.
Apte Hindi
Hindi
शक्तिः
स्त्री*
- शुच् + क्तिन्
"सीप का खोल, मोती की सीप"
शक्तिः
स्त्री*
- शुच् + क्तिन्
शंख
शक्तिः
स्त्री*
- शुच् + क्तिन्
"छोटी सीप, पुट्ठा"
शक्तिः
स्त्री*
- शुच् + क्तिन्
खोंपड़ी का एक भाग
शक्तिः
स्त्री*
- शुच् + क्तिन्
घोड़े की छाती (या गर्दंन पर) पर बालों का घूंघर
शक्तिः
स्त्री*
- शुच् + क्तिन्
एक प्रकार का गंधद्रव्य
शक्तिः
स्त्री*
- शुच् + क्तिन्
दो कर्ष के समान विशेष तोल
Wordnet
Sanskrit
Synonyms:
शक्तिः
noun
कस्याः अपि देवतायाः पराक्रमः सामर्थ्यं बलं वा यत् तस्याः पत्न्याः रूपेण वर्तते।
"गौरी शिवस्य तथैव लक्ष्मी विष्णोः शक्तिः मता।"
Synonyms:
सामर्थ्यम्, शक्तिः, बलम्, प्रभावः, वीर्यम्, ऊर्जः, सहः, ओजः, विभवः, तेजः, विक्रमः, पराक्रमः, शौर्यम्, द्रविणम्, तरः, सहः, स्थामः, शुष्मम्, प्राणः, शक्तिता, वया, ईशा, आयत्तिः, आस्पदम्, उत्साहः, ऐधम्, ऐश्यम्, तवः, प्रतापः, प्रबलता, प्रबलता, सबलता, प्रबलत्वम्, प्रासहः, धिष्ण्यम्, वैभवम्, शम्बरः
noun
शारिरिकी क्षमता यया मनुष्यः कार्यं कर्तुं शक्यते।
"भरतस्य सामर्थ्यं केन अपि ज्ञायते।"
Synonyms:
शक्तिः
noun
शूलप्रकारः।
"व्याधेन शक्त्या शूकरः हतः।"
Synonyms:
शक्तिः, कुण्डली, कुला
noun
तन्त्रे वर्णिता एका अधिष्छात्री देवता।
"प्राचीनकालात् आरभ्य जनाः शक्तेः उपासनां कुर्वन्ति।"
Synonyms:
क्षमता, शक्तिः, शक्तता, सामर्थ्यम्
noun
धारणस्य शक्तिः।
"अस्य चलतचित्रगृहस्य धारणस्य क्षमता पञ्चशतम्।"
Synonyms:
शक्तिः, सत्त्वम्, सामर्थ्यम्, बलम्, क्षमता, ऊर्जः, वीर्यम्, विक्रमः
noun
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
"अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।"
Synonyms:
अनुज्ञा, अनुज्ञानम्, समुज्ञानम्, अभ्यनुज्ञा, अभ्यनुज्ञानम्, अनुमतिः, अनुमतम्, अनुमोदनम्, आज्ञा, क्षमता, शक्तिः, सामर्थ्यम्
noun
यत् चिकीर्षितं तत् कर्तुं वृद्धानाम् अनुमोदनम् स्वीकृतिः वा यद् बहुधा आज्ञारूपेण वर्तते।
"वृद्धानाम् अनुज्ञां विना किमपि कार्यं कुर्यात्। / पितुः अनुज्ञया एव कृष्णा हिमालयपर्वतस्य अत्युच्चतमं शिखरम् आरोहितुं प्रारभत।"
Tamil
Tamil
ச’க்தி: : வலிமை, பராக்கிரமம், தகுதி, திறமை, திறன்.ஈட்டி, வேலாயுதம்.
अमरकोशः
Sanskrit
Word: शक्तिः
Root: शक्तिः
Gender: undefined
Number: undefined
Meaning(s):
power
energy
valour
attack
courage
prowess
heroism
exertion
strength
good deed
enterprise
bold advance
going out or away
Shloka(s):
3|3|138|2 इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ॥ (नानार्थवर्गः)
3|3|253|1 अलं भूषणपर्याप्तिशक्तिवारणवाचकम्। (नानार्थवर्गः)
Synonym(s):
3|3|138|2 पराक्रमः (पराक्रम) (पुं) power, energy, valour, attack, courage, prowess, heroism, exertion, strength, good deed, enterprise, bold advance, going out or away
3|3|253|1 अलन् (अलम्) (अव्य)
Related word(s):
उपाधि शक्तिः
शब्दकल्पद्रुमः
Sanskrit
शक्तिः,
स्त्री,
(शक + क्तिन् ।) कायजनन-सामर्थ्यम् यथा, --“या देवी सर्व्वभूतेषु शक्तिरूपेण संस्थिता ।”इति देवीमाहात्म्यस्य टीकायां नागोजीभट्टः
शक्यते जेतुमनया सा प्रभावोत्साहमन्त्रज-भेदात्त्रिविधा तत्र प्रभुत्वे साधकत्वात् कोष-दण्डौ प्रभुशक्तिः विक्रमेण स्वशक्त्या विस्फु-रणमुत्साहशक्तिः सन्ध्यादीनां सामादी-नाञ्च यथावस्थानं मन्त्रशक्तिः
सामर्थ्य-मात्रम् तत्पर्य्यायः द्रविणम् तरः सहः४ बलम् शौर्य्यम् स्थाम शुष्मम् परा-क्रमः प्राणः १० इत्यमरः
शुष्म ११ सहम्१२ इति शब्दरत्नावली
ऊर्ज्जः १३ इतिजटाधरः
कासूः सा तु शर्व्वलानामास्त्रम् ।इति नानार्थे अमरभरतौ
गौरी इतिमेदिनी
लक्ष्मीः इति शब्दमाला
*
त्रिशक्तयो यथा, --“एषा त्रिशक्तिरुद्दिष्टा नयसिद्धान्तगामिनी ।एषा श्वेता परा सृष्टिः सात्त्विकी ब्रह्मसंस्थिता
एषैव रक्ता रजसि वैष्णवी परिकीर्त्तिता ।एषैव कृष्णा तमसी रौद्री देवी प्रकीर्त्तिता
परमात्मा यथा देवो एक एव त्रिधा स्थितः ।प्रयोजनवशाच्छक्तिरेकैव त्रिविधाभवत्
”इति वाराहे त्रिशक्तिमाहात्म्यनामाध्यायः
*
अपि ।“बिन्दुः शिवात्मकस्तत्र बीजं शक्त्यात्मकंस्मृतम् ।तयोर्योगे भवेन्नादस्तेभ्यो जातास्त्रिशक्तयः
”इति क्रियासारः
अन्यच्च ।“इच्छा क्रिया तथा ज्ञानं गौरी ब्राह्मी तु वैष्णवी ।त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरो-मिति
”इति गोरक्षसंहिता
*
अष्ट शक्तयो यथा, --“इन्द्राणी वैष्णवी शान्ता ब्रह्माणी ब्रह्मवादिनी ।कौमारी नारसिंही वाराही विकटाकृतिः
माहेश्वरी महामाया भैरवी भीरुरूपिणी ।अष्टौ शक्तयः सर्व्वा रथस्थाः प्रययुर्मुदा
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे बाणयुद्धं नाम११९ अध्यायः
*
नव शक्तयो यथा, --“तत्र पद्मे चाष्टदले मध्ये भक्तिपूर्व्वकम् ।वैष्णवीञ्चैव ब्रह्माणीं रौद्रीं माहेश्वरीं तथा
नारसिंहीञ्च वाराहीमिन्द्राणीं कार्त्तिकीं तथा ।सर्व्वशक्तिस्वरूपाञ्च प्रधानां सर्व्वमङ्गलाम्
नवशक्तीश्च संपूज्य घटे देवांश्च पूजयेत्
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ६१ अध्यायः
*
पञ्चाशद्विष्णुशक्तयो यथा, --“कीर्त्तिः कान्तिस्तष्टिपष्टी धृतिः शान्तिः क्रियादया ।मेधा सहर्षा श्रद्धा स्याल्लज्जा लक्ष्मीः सरस्वती
प्रीती रती रमा प्रोक्ताः क्रमेण स्वरशक्तयः ।जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी
विरजा विजया विश्वा विनदा सुनदा स्मृतिः ।ऋद्धिः समृद्धिः शुद्धिश्च भक्तिर्मुक्तिर्मतिः क्षमा
रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा ।परा परायणा सूक्ष्मा सन्ध्या प्रज्ञा प्रभा निशा
अमोघा विद्युता चेति शक्तयः सर्व्वकामदाः ।एताः प्रियतमाङ्केषु निषण्णाः सस्मिताननाः
विद्युद्दामसमानाङ्ग्यः पङ्कजाभयबाहवः
*
पञ्चाशद्रुद्रशक्तयो यथा, --“गुणोदरी स्याद्बिरजा शाल्मली तदनन्तरम् ।लोलाक्षी वर्त्तुलाक्षी दीर्घघोणा समीरिता
सदीर्घमुखीगोमुख्यौ दीर्घजिह्वा तथैव ।कुण्डोदर्य्यर्द्धकेश्यौ तथा विकृतमुख्यपि
ज्वालामुखी ततो ज्ञेया पश्चादुल्कामुखी ततः ।सुश्रीमुखी चैव विद्यामुख्येताः स्वरशक्तयः
महाकालीसरस्वत्यौ सर्व्वसिद्धिसमन्विते ।गौरी त्रैलोक्यविद्या स्यान्मन्त्रसिद्धिस्ततः परम्
आत्मशक्तिर्भूतमाता तथा लम्बोदरी स्मृता ।द्रावणी नागरी भूयः खेचरी चापि मञ्जरी
रूपिणी चित्रिणी पश्चात् काकोदर्य्यपि पूतना ।स्याद्भद्रकाली योगिन्यौ शङ्खिनी गर्ज्जिनी तथा
कालरात्रिश्च कुब्जिन्या कपर्दिन्यपि वज्रया ।जया सुमुखेश्वर्य्या रेवती माधवी ततः
वारुणी वार्षवी प्रोक्ता पश्चाद्रक्षोविदारिणी ।ततश्च सहजा लक्ष्मीर्व्यापिनी माययान्विता
एता रुद्राङ्कपीठस्थाः सिन्दूरारुणविग्रहाः
रक्तोत्पलकपालाभ्यामलङ्कृतकराम्बुजाः
”इति प्रपञ्चसारः
*
कुलशक्तयो यथा, --“शक्तयः परमेशानि ! विदग्धाः सर्व्वयोषितः ।नटी कापालिकी वेश्या मालिनी कुङ्कुमालिनी
चाण्डाली कुलाली रजकी नापिताङ्गना ।गोपिनी योगिनी शुद्धा ब्राह्मणी राजकन्यका
कोचाङ्गना देवेशि ! तथैव शङ्खकारिणी ।एता षड्विंशतिः कन्या देवानामपि दुर्लभा
दैवज्ञा व्याधवामा तथा मांसापहारिणी ।बौद्धा जवनी देवि तथा रसपसारिणी
वेश्या चतुर्व्विधा प्रोक्ता द्विविधा कुङ्कुमालिनी ।धीवरी द्विविधा प्रोक्ता तथैव गणिकाङ्गना
कुम्भकारी द्विधा प्रोक्ता तथैव गोपिनी स्मृता ।वातवैद्याङ्गना देवि जवनी द्बिविधा स्मृता
बौद्धकन्या त्रिधा देवि तथा कोचाङ्गना प्रिया ।पूर्व्वोक्ताभिः सहैकत्र चतुःषष्टिश्च शक्तयः
”इति रेवतीतन्त्रे पटलः
*
अपि ।“पञ्चाचारेण देवेशि ! कुलशक्तिं प्रपूजयेत् ।नटी कापालिकी वेश्या रजकी नापिताङ्गना
ब्राह्मणी शूद्रकन्या तथा गोपालकन्यका ।मालाकारस्य कन्या नव कन्या प्रकीर्त्तिताः ।विशेषवैदग्ध्ययुताः सर्व्वा एव कुलाङ्गनाः ।रूपयौवनंसम्पन्ना शीलसौभाग्यशालिनी ।पूजनीया प्रयत्नेन ततः सिद्धिर्भवेद् ध्रुवम्
”इति गुप्तसाधनतन्त्रे पटलः
*
तस्याः प्रशंसा यथा ।“शक्तिं विना महेशानि ! सदाहं शवरूपकः ।शक्तियुक्तो यदा देवि ! शिवोऽहं सर्व्वकामदः
शक्तियुक्तं जपेन्मन्त्रं मन्त्रं केवलं जपेत् ।सावित्रीसहितो ब्रह्मा सिद्धोऽभून्नगनन्दिनि
द्वारवत्यां कृष्णदेवः सिद्धोऽभूत् सत्यया सह ।तथा कोचबधूसङ्गान्मम सिद्धिर्व्वरानने
ईश्वरोऽहं महादेवि ! केवलं शक्तियोगतः ।शक्तियोगेन देवेशि यदि सिद्धिर्न जायते
तदैव परमेशानि मम वाक्यं वृथा भवेत् ।यद्दत्तं जलगण्डूषं शक्तिवक्त्रे सुरेश्वरि !
सिन्धुरूपं महेशानि ! तज्जलं नात्र संशयः ।स्वीयेष्टदेवीभावेन भोजयेत्ताञ्च यत्नतः
शक्तिश्च कथ्यते देवि शृणुष्व सुरसुन्दरि ।त्रयो दशाब्दादूर्द्ध्वं या पञ्चविंशतिवार्षिकी
अप्रसूता विशेषेण पञ्चमेऽपि भवेत् प्रिये ।सुन्दरी तु विशेषेण प्रसूता वाप्रसूतिका
अवश्यं पञ्चमं कुर्य्यात् शक्तिमात्रे महेश्वरि
”इति शक्तिकागमसर्व्वस्वम्
*
तस्या उत्पत्तिमाहात्म्यादिर्यथा, --नारायण उवाच ।“सह बुद्ध्या बुद्धिमन्तो वक्तुमुचितं सुराः ।सर्व्वे शक्त्यालया विश्वे शक्तिमन्तो हि जीविनः
ब्रह्मादितृणपर्य्यन्तं सर्व्वं प्राकृतिकं जगत् ।सत्यं नित्यं विना माञ्च मया शक्तिः प्रकाशिता
अविर्भूता सा मत्तः सृष्टौ देवी मदीच्छया ।तिरोहिता सा शेषे सृष्टिसंहरणे मयि
सृष्टिकर्त्री प्रकृतिः सर्व्वेषां जननी परा ।मम तुल्या मन्माया तेन नारायणी स्मृता
सुचिरञ्च तपस्तप्तं शम्भुना ध्यायता माम् ।तेन तस्मै मया दत्ता तपसां फलरूपिणी
व्रतञ्च लोकशिक्षार्थमस्या स्वार्थमेव ।स्वयं व्रतानां तपसां फलदात्री जगत्त्रये
मायया मोहिताः सर्व्वे किमस्या वास्तवं व्रतम् ।साध्यमस्या व्रतफलं कल्पे कल्पे पुनः पुनः
सुरेश्वरा यदंशाश्च ब्रह्मविष्णुमहेश्वराः ।कलाः कलांशरूपास्ते जीविनश्च सुरादयः
मृदा विना कुलालश्च घटं कर्त्तुं यथाक्षमः ।विना स्वर्णं स्वर्णकारः कुण्डलं कर्त्तमक्षमः
विना शक्त्या तथाहञ्च स्वसृष्ठिं कर्त्तुमक्षमः ।शक्तिप्रधाना सृष्टिश्च सर्व्वदर्शनसम्मता
अहमात्मा निर्लिप्तोऽदृश्यः साक्षी देहि-नाम् ।देहाः प्राकृतिकाः सर्व्वे नश्वराः पाञ्चभौतिकाः
अहं नित्यशरीरी भानुविग्रहविग्रहः ।सर्व्वाधारा प्रकृतिः सर्व्वात्माहं जगत्सु
अहमात्मा मनो ब्रह्मा ज्ञानरूपो महेश्वरः ।पञ्च प्राणाः स्वयं विष्णुर्ब्बुद्धिः प्रकृतिरीश्वरी
शक्त्यो निद्रादयश्चैताः सर्व्वाश्च प्रकृतेः कलाः ।सा शैलेन्द्रकन्येयं इति वेदनिरूपितम्
”इति ब्रह्मवैवर्त्ते गणेशखण्डे अध्यायः
*
अपि ।“सा शक्तिः सृष्टिकाले पञ्चधा चेश्वरेच्छया
राधा पद्मा सावित्री दुर्गा देवी सरस्वती
प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः ।प्राणाधिकप्रियतमा सा राधा परिकीर्त्तिता
ऐश्वर्य्याधिष्ठातृदेवी सर्व्वमङ्गलकारिणी ।परमानन्दरूपा सा लक्ष्मीः परिकीर्त्तिता
विद्याधिष्ठातृदेवी या परमेशस्य दुर्लभा ।वेदशास्त्रयोगमाता सा सावित्री प्रकीर्त्तिता
बुद्ध्यधिष्ठातृदेवी या सर्व्वशक्तिस्वरूपिणी ।सर्व्वज्ञानात्मिका सर्व्वा सा दुर्गा दुर्गनाशिनी
रागाधिष्ठातृदेवी या शास्त्रज्ञानप्रदा सदा ।कृष्णकण्ठोद्भवा या सा देवी सरस्वती
पञ्चधादौ स्वयं देवी मूलप्रकृतिरीश्वरी
ततः सृष्टिकमेणैव बहुधा कलया सा ।योषितः प्रकृतेरंशाः पुमांसः पुरुषस्य
”इति ब्रह्मवैवर्त्ते गणेशखण्डे ४० अध्यायः
*
ब्रह्माणीशक्त्युत्पत्तिर्यथा ।“ततो ब्रह्मादयो देवा भयं जग्मुः सवासवाः ।यदि स्यान्निर्ज्जितो देवः क्षयः सर्व्वदिवौकसाम्
एतस्मिन्नन्तरे शक्र ! ब्रह्मा चिन्तयते क्रियाः ।स्त्रीरूपधारिणी भूत्वा सहायत्वं महेश्वरे
क्षिप्रं कुरु स्वकार्य्ये त्वं एवं विश्वेश्वरे रणे ।ततो द्योतितवान् शम्भुः स्वशक्तिं किरणोज्ज्व-लाम्
ब्रह्मरूपधरां किन्तु ललनाकारविग्रहाम् ।हंसस्यन्दनमारूढा स्वकीयायुधधारिणी
तर्ज्जयन्ती महौजेन दानवानां भयङ्करी ।तस्य घोराणि कर्म्माणि दृष्ट्वा विस्मयन् शिवः ।का पुनः स्रष्टुः सुस्नेहा सदातिप्रतिपक्षजित् ।तस्याः शक्तिं द्बितीयाञ्च सृजामि अपराजि-ताम्
”इति देवीपुराणे रुरुवधे ब्रह्माण्युत्पत्तिः
*
नन्दातीर्थे शक्तिमन्त्रविचारनिषेधो यथा ।“योऽसावनादिमध्यान्तशिवशक्तिमयः परः ।तस्यैव परमानन्दा सर्व्वकिल्विषनाशिनी
तत्प्रभावेण प्राप्नोति तपोयज्ञादिकं फलम् ।मन्त्राणां देवशक्तीनां विचारो वरानने
”इति देवीपुराणे नन्दाकुण्डप्रवेशः प्रथमा-ध्यायः
*
प्रकृतिः यथा, --“प्रधानं प्रकृतिः शक्तिर्नित्या चाविकृतिस्तथा ।एतानि तस्या नामानि पुरुषं या समाश्रिता
”तस्या गुणानाह ।“सत्त्वं रजस्तमस्त्रीणि विज्ञेयाः प्रकृतेर्गुणाः ।”इति भावप्रकाशः
*
शक्तिविषयकपुष्पाणि यथा, --“अथ पुष्पं प्रवक्ष्यामि कर्म्मयोगे महेश्वरि ।शृणुष्व परया भक्त्या यथोक्तं ब्रह्मणा पुरा
कमले करवीरे द्वे कुसुम्भे तुलसीद्वयम् ।जात्यशोके केतकी द्वे कुमारीचम्पकोत्पलम्
कुन्दमन्दारपुन्नागपाटलानागचम्पकम् ।आरग्वधं कर्णिकारं पावन्ती नवमल्लिका
सौगन्धिकं सकोरण्डं पलाशाशोकसर्ज्जकाः ।सिन्धुवारो ह्यपामार्गवापुलीकञ्च कामजम्
व्याघ्रचेलं दमनकं मरुवकं ततः परम् ।लवङ्गं जलकर्पूरं तगरञ्च जवा तथा
शिवपुष्पं द्रोणपुष्पं कामराजं सुकेतकम् ।अन्यानि वनपुष्पाणि जलजस्थलजानि ।गिरिजानि देशजानि नानापुष्पाण्यतः परम्
”इति प्रपञ्चसारः