| YouTube Channel

शकुनं (zakunaM)

 
शब्दकल्पद्रुमः
Sanskrit
शकुनं,
क्ली,
(शक्नोति शुभाशुभं विज्ञातुमनेनेति ।शक् + “शकेरुनोन्तोन्त्युनयः ।” उणा० ४९ ।इति उनः ।) शुभशंसिनिमित्तम् इतिमेदिनी
सगुन् इतिहिन्दीभाषा फललक्षणम् ।इत्यजयपालः
*
अथ शुभशकुनानि ।“कीर्त्तनात् श्रवणतो विलोकनात्स्पर्शनात् समधिकं समोत्तरम् ।मङ्गलाय दधिचन्दनादिकंस्यात् प्रवासभवनप्रवेशयोः
दध्याज्यदूर्व्वाक्षतपूर्णकुम्भाःमिद्धान्नसिद्धार्थकचन्दनानि ।आदर्शशङ्खामिषमौनमृत्सा-गोरोचनागोमयगोमधूलिः ।गीर्व्वाणवीणाफलभद्रपीठ-पुष्पाञ्जनालङ्करणायुधानि ।ताम्वूलयानासनवर्द्धमान-ध्वजातपत्रव्यजनाम्बराणि
अम्भोजभृङ्गारसमृद्धवह्नि-गजाजवाह्यः कुशचामराणि ।रत्नानि चामीकररूप्यताम्र-बद्धैडकाश्चोषधयः सुराश्च
वनस्पतेर्नूतनशाकमेवंमाङ्गल्यपञ्चाशदिदं प्रदिष्टम् ।शुभेषु कार्य्येष्वशुभेषु चैवकार्य्ये गतानां शुभदाः सदैव
एतानि दृष्ट्वा शुभदर्शनानिकुर्व्वन्ति दृष्टः पथि दक्षिणेन ।सकृद्विलोकादशुभावहानित्यक्तानि वामेन शुभा भवन्ति
गान्धारषड्जावृषभस्तथान्येस्वरेषु गम्भीरमनोरमा ये ।वादित्रवेदध्वनिगीतनृत्य-मित्यादिशस्तं किल यत्र रीद्रम्
आदाय रिक्तं कलसं जलार्थीयदि व्रजेत् कोऽपि सहाध्वगेन ।पूर्णं समादाय निवर्त्ततेऽसौयथा कृतार्थः पथिकस्तथैव
*
अङ्गारभस्मे न्धनरज्जुपङ्क-पिण्याककार्पासतुषास्थिविष्ठाः ।कृष्णायसावस्करकृष्णधान्य-पाषाणकेशा भुजगौषधानि
तैलं गुडं चर्म्म वसा विभिन्नंरिक्तञ्च भाण्डं लवणं तृणञ्च ।तक्रार्गला शृङ्खलवृष्टिवाताःकार्य्ये क्वचित् त्रिंशदिमे शस्ताः
*
स्वपादयानस्खलनं नृपाणांभङ्गः क्वचिद्यानपलायनञ्च ।द्वाराभिघाताध्वगशस्त्रपाताःप्रस्थानविघ्नं कथयन्तु यातुः
मार्ज्जारयुद्धारवदर्शनानिकलिः कुटुम्वस्य परस्परञ्च ।चित्तस्य कालुष्यकरञ्च सर्व्वंगन्तुः प्रयाणप्रतिषेधनाय
दृष्टे शवे रोदनशब्दहीनेमहार्थसिद्धिः कथितोद्यमेषु
गृहप्रवेशेषु शवः शवत्वंरुजं सदीर्घामथवा ददाति
गण्डूषमावर्जयतां नराणा-मन्तर्गलं चेत् प्रविशत्यकस्मात् ।भवेत् तदाभोप्सितसौख्यलाभोयः कौतुकी तेन निरूप्यमेतत्
उञ्झितं झटिति दन्तधावनंसंमुखं पतति यत्र वासरे ।भोजनं भवति तत्र वीक्षितंव्यासभाषितमिदं हि नानृतम्
”इति वसन्तराजशाकुने विचारिताः शुभावहाः
अथ नराङ्कितविचारः ।“अथाभिधास्ये द्बिपदेषु तावत्प्रधानभावात् शकुनं नराणाम् ।नैमित्तिकं यत् प्रतिभाव्य सर्व्वंफलं शुभाशोभनयोर्ब्रवीति
नरोऽभिरूपः सितवस्त्रमाल्योवाचं प्रशस्तां मधुराञ्च जल्पन् ।एवंविधा योषिदपि प्रयाणेप्रवेशकाले करोति सिद्धिम्
*
वमदुविकेशो हतमानगर्व्वःक्षिण्णाङ्गनग्नान्त्यजतैलदिग्धाः ।रजस्वला गर्भवती रुदन्तीमलान्वितोन्मत्तजराधवाश्च
दीनो द्बिषत्कृष्णविमुक्तकेशाःक्रमेलकस्थाः खरसैरिभस्थाः ।सन्न्यासिसांक्रन्दनपुंसकाद्यादुःखावहाः सर्व्वसमीहितेषु
*
पृथ्वीपतिर्ब्राह्मणहर्षयुक्तोवेश्या कुमारी सुहृदः सुकेशाः ।नार्य्यो नराश्चाश्ववृषाधिरूढाःशुभाय दृष्टाः शकुनोद्यमेषु
*
कृष्णाम्बराः कृष्णविलेपनाढ्याःकृष्णां स्रजं भूर्द्ध्नि विधारयन्ती ।दृष्टा सकोपा यदि कृष्णवर्णानारी नरैस्तद्विपदो भवन्ति
*
श्वेताम्बरा श्वेतविलेपनाढ्यामालां सितां मूर्द्ध्नि विधारयन्ती ।दृष्टा प्रकृष्टा यदि गौरवर्णानारी नरैः स्यात्तदभीष्टसिद्धिः
धृतातपत्रः सुविशुक्लवासाःपुष्पान्वितश्चन्दनचित्रिताङ्गः ।निश्रावयुक्तः कृतभोजनो वाविप्रः पठन् यच्छति सर्व्वसिद्धिम्
अभ्युपगच्छति यस्य हि यानेस्त्रीपुरुषोऽप्यथवा फलहस्तः ।सर्व्वसमीहितसिद्धिरवश्यंतस्य नरस्य भवत्यचिरेण
”इति वसन्तराजशाकुने नराङ्कितेक्षित-संज्ञम्
*
“गच्छेति पृष्ठे पुरतस्तथैववागीदृशी केनचिदुच्यमाना ।सर्व्वाशिषश्चातिशयेन ताभ्य-श्चित्तस्य तुष्टिर्विजयाय पुंसाम्
सिद्ध्यै विरावा जहि छिन्दि भिन्दिचेत्यादयः शत्रुवधोद्यतानाम् ।क्व यासि मागच्छत चैवमाद्याःप्रयोजनारम्भनिवारणार्थाः
स्थैर्य्ये स्थिरार्थाद्गमनं तदर्था-द्वाक्यान्निवृत्तिर्विनिवर्चितार्थात् ।लाभं जयं भङ्गममङ्गलं वाबध्येत तत्तत्प्रतिपादनार्थात्
उग्रं भवेद्रोदनमग्रभागेभयं भवेद्बह्निविभागभूतेनैरृत्यकोणे रणमार्गरोधोवायव्यकोणे रुदितं समृद्ध्यै
मृत्युः सुतानां रुदितेन पृष्ठेलाभो भवेत्तत्र निवर्त्तनेन ।मृत्युस्तदाग्रे रुदितेन गन्तुःसिद्धिं विधत्ते रुदितं रिपूणाम्
”इति वसन्तराजशाकुने नराङ्किते उपश्रुति-प्रकरणम्
*
वकचक्रवाकटङ्कटिट्टिभकार-ण्डवभासभारद्वाजमयूरकपिञ्जल-लावकगृध्रो-लूककपोतगोवत्सकुक्कुटकलविङ्कभारतीचास-खञ्जनकाकपिङ्गलारूपाणि शकुनानि घोटक-वृषमहिषखरगोमहिष्यजाजमेषैडकोष्ट्रछुच्छुन्द-रीमूषिकमार्जारवानरमृगवराहकृकलासनकु-लवृश्चिकपिपीलिकापल्ली-कुक्कुरादिरूपशकुना-निच वसन्तराजशाकुने द्रष्टव्यानि हस्ति-शशकशृगालषट्पदशरभसर्परूपाणि शकुनानितत्तच्छब्दे द्रष्टव्यानि