शंसु (zaMsu)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit शंस्
शंसु
स्तुतौ
भ्वादिः
सकर्मकः
सेट्
परस्मैपदी
शंसति
कृदन्तरूपमाला
Sanskrit1 {@“शंसु स्तुतौ”@} 2 ‘आशंसे स्यादिच्छायां शंसतीति स्तुतौ भवेत्।
हिंसायां शसति--’ 3 इति देवः।
‘अयं हिंसायामपि’ इति दुर्गः।
4 शस्यम्-शंस्यम्, 5 शंसित्वा, शस्त्वा, 6 शस्तम्, 7 नृशंसः, 8 नराशंसः, 9 ब्राह्मणाच्छंसी, 10 प्रशस्तिं विन्दन्ति, 11 प्रशंसा, आशंसा, 12 आशंसुः, 13 14 अभिमतफलशंसी 15, इति विशेषरूपाणि।
सामान्यरूपाणि तु ण्यन्तप्रकृतिकसन्नन्तं विना चौरादिककुंशयतिवत् 16 बोध्यानि।
01 (१६९९)
02 (१-भ्वादिः-७२८। सक। अनि। पर।)
03 (श्लो। १८३, ४)
04 [[२। ‘शसिदुहिगुहिभ्यो वा’ (काशिका ३-१-१०९) इति वचनात् क्यब्विकल्पः। क्यप्पक्षे प्रत्ययस्य कित्त्वेनोपधानकारलोपः। अनुस्वारोपधत्वेऽपि, उपदेशे ‘नकारजा- वनुस्वारपञ्चमौ झलि धातुषु’ इत्यभियुक्तवचनात् नोपधः। क्यबभावपक्षे ण्यति शंस्यम् इति भवति। ‘प्रशस्यस्य श्रः’ (५-३-६०) इति निर्देशबलात् क्यब्वि- कल्पपक्षः सिद्ध इति बोध्यम्।]]
05 [[३। उदित्त्वेन क्त्वायामिड्विकल्पः। इडभावपक्षे उपधानकारलोपः। इट्पक्षे ‘न क्त्वा सेट्’ (१-२-१८) इति नियमात् न कित्त्वम्
\n\n तेन नोपधानकारलोपः।]]
06 [[४। ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामिण्निषेधः।]]
07 [[५। नॄन् शंसतीति नृशंसः = क्रूरः। ‘कर्मण्यण्’ (३-२-१) इत्यण्। अत्र दुर्गोक्तरीत्या हिंसैव धात्वर्थः।]]
08 [[६। नरा एनं शंसन्ति इति, नराः अस्मिन् आसीनाः शंसन्ति इति वा नराशंसः = अग्निः, देशविशेषो वा। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। अत्र पूर्वपदस्य वनस्पत्यादिषु (६-२-१४०) पाठाद् दीर्घ इति माधवः। काशिकायां तु (६-२-१४०) ‘अन्येषामपि--’ (६-३-१३७) इति दीर्घ उक्तः।]]
09 [[७। अत्र ब्राह्मणादादाय शंसति इति वृत्तिपक्षे ‘साधुकारिण्युपसंख्यानम्’ (वा। ३-२-७८) इति णिनिः। माधवस्तु ‘सुप्यजातौ--’ (३-२-७८)इति णिनिमाह। तत्तु रूढिशब्देष्वसङ्गतमिति बोध्यम्। ‘ब्राह्मणाच्छंसिन उपसंख्यानम्’ (वा। ६-३-२) इति पञ्चम्या अलुक्। यदा तु ब्राह्मणानि शंसति इति वृत्तिः, तदा ‘बहुलमाभीक्ष्ण्ये’ (३-२-८१) इति णिनिः। द्वितीयायाः पञ्चमी निपातनादेव। पञ्चम्या अलुक् तु ‘तत्पुरुषे कृति--’ (६-३-१४) इति। उभयथाऽपि ब्राह्मणाच्छंसी कश्चन ऋत्विग्विशेषः।]]
10 [[८। स्त्रियां क्तिनि नलोपे रूपमेवम्।]]
11 [[९। ‘प्रशंसावचनैश्च’ (२-१-६६) इति निर्देशात् क्तिनं पक्षे बाधित्वा अकारप्रत्ययोऽपि भवतीति बोध्यम्। तेन प्रशस्तिः, प्रशंसा इत्युभयमपि साधु।]]
12 [[१०। ‘सनाशंसभिक्ष उः’ (३-२-१६८) इति तच्छीलतद्धर्मतत्साधुकारिष्वर्थेषु उप्रत्ययः।]]
13 [पृष्ठम्१२९३+ २८]
14 [[१। अत्र ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः।]]
15 [[आ। ‘अभिमतफलशंसी चारु पुस्फोर बाहुः…।।’ भ। का। १-२७।]]
16 (२३२)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
