| YouTube Channel

व्रेता-त्री (vretA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“व्री वरणे”@} 2 प्वादिः।
‘--वरणे-आवरणे’ इति ‘व्रीतः-व्रीतवान् आवारकेऽर्थे’ इति काशकृत्स्नः।
‘--गतौ द्रुमे’ इति धा।
का।
व्या 3।
‘व्रीणाति वरणे तत्र व्रीङो व्रीयेत तु श्यनि।’ 4 इति देवः।
व्रायकः-यिका, व्रायकः-यिका, विव्रीषकः-षिका, वेव्रीयकः-यिका
व्रेता-त्री, व्राययिता-त्री, विव्रीषिता-त्री, वेव्रीयिता-त्री
5 व्रिणन्-न्ती, व्राययन्-न्ती, विव्रीषन्-न्ती
-- व्रेष्यन्-न्ती-ती, व्राययिष्यन्-न्ती-ती, विव्रीषिष्यन्-न्ती-ती
-- इत्यादिकानि रूपाणि सर्वाण्यपि क्रैयादिकप्लिनातिवत् 6 ज्ञेयानि।
7 व्रेपयति।
प्रासङ्गिक्यः
01
=>
(१६६५)
02
=>
(९-क्र्यादिः-१५०४। सक। अनि। पर।)
03
=>
(३। ९।)
04
=>
(श्लो। १९)
05
=>
[[१। शतरि, ‘क्र्यादिभ्यः श्ना’ (३-१-८१) इति श्ना विकरणप्रत्ययः। तस्य ‘श्नाभ्य- स्तयोरातः’ (६-४-११२) इत्याकारलोपे ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति ह्रस्वे रूपमेवम्। ये तु प्वादित्वमस्य नाभ्युपगच्छन्ति, तेषां मते व्रीणन् इति दीर्घघटि- तमेव रूपम्।]]
06
=>
(१०८१)
07
=>
[[२। “स्वामिकाश्यपादयः ‘अर्तिह्रीव्री--’ (७-३-३६) इति पठन्तो व्रेपयतीति पुकं प्रतिपन्नाः” इति धातुवृत्तिः। क्षीरतरङ्गिण्यां तु अत्र नैतादृशः पाठः उपलभ्यते। इतः पूर्वं ‘व्ली वरणे’ इत्यत्र (धातौ) व्लेपयतीति पुग्विशिष्टत्वेन उदाह्रियते।]]
1 {@“व्रीङ् वृणोत्यर्थे”@} 2 ‘-- वरणे-आवरणे सामीप्ये’ इति काशकृत्स्नः।
‘व्रीणाति वरणे तत्र व्रीङो व्रीयेत तु श्यनि।’ 3 इति देवः।
‘-- छादनं परिग्रहो वा तत्’ इति धा।
का।
व्याख्यायाम् 4।
व्रायकः-यिका, व्रायकः-यिका, विव्रीषकः-षिका, वेव्रीयकः-यिका
व्रेता-त्री, व्राययिता-त्री, विव्रीषिता-त्री, वेव्रीयिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि दैवादिकधीङ्धातुवत् 5 ज्ञेयानि।
धातोरस्य आत्मनेपदित्वात् शानचि व्रीयमाणः, व्रेष्यमाणः इति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१६६६)
02
=>
(४-दिवादिः-११४०। सक। अनि। आत्म।)
03
=>
(श्लो। १९)
04
=>
(१-५८)
05
=>
(९०१)