| YouTube Channel

व्रुड (vruDa)

 
Wilson
English
व्रुड r. 6th cl. (व्रुडति)
1 To cover.
2 To heap.
3 To sink.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
व्रुड्
मूलधातुः:
व्रुड
धात्वर्थः:
संवरणे
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
व्रुडति
अनुबन्धादिविशेषः:
कुटादिः
शब्दकल्पद्रुमः
Sanskrit
व्रुड, शि संवृतिसंहत्योः मज्जे इति कविकल्प-द्रुमः
(तुदा०-कुटा०-पर०-सक०-अकञ्च-सेट् ।)रेफयुक्तः शि, व्रुडति अव्रुडीत् वुव्रोड ।मज्जो मज्जनम् इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
व्रुड संवरणे
सक०
संवाते मज्जने अक०
चु०
कुटा० ।पर० सेट् व्रुडति अव्रुडीत्
क्षीरतरङ्गिणी
Sanskrit
व्रुडँ व्रुड
मानकरूपान्तरम् - भ्रुडँ
भ्रुड संवरणे
- व्रुडति, भ्रुडति 109, 110
कृदन्तरूपमाला
Sanskrit
1 {@“व्रुड संवरणे”@} 2 3 ‘व्रुड--’ इति व्रश्चादिषु 4 यः पठितः तस्य पाठभेदोऽयम्।]] कुटादिः।
व्रोडकः-डिका, व्रोडकः-डिका, 5 वुव्रुडिषकः-षिका, वोव्रुडकः-डिका
6 व्रुडिता-त्री, व्रोडयिता-त्री, वुव्रुडिषिता-त्री, वोव्रुडिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककुटतिवत् 7 ज्ञेयानि।
व्रुडन्-न्ती-ती, इति शतरि विशेषः।
प्रासङ्गिक्यः
01
=>
(१६६८)
02
=>
(६-तुदादिः-१३९३। सक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(तुदादौ)
05
=>
[[३। सन्नन्ते नित्यङित्त्वात् गुणनिषेधः। अन्यथा रलन्तत्वात् उकारोपधत्वाच्च वैकल्पिकं कित्त्वं स्यात्।]]
06
=>
[[४। ‘गाङ्कुटादिभ्यः--’ (१-२-१) इति तृचो ङित्त्वात् गुणनिषेधः। एवं तव्यदा- दीनामपि ङित्त्वं ज्ञेयम्।]]
07
=>
(२०४)