| YouTube Channel

व्रीडकः-डिका (vrIDakaH-DikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“व्रीड चोदने लज्जायां च”@} 2 धातुवृत्तौ तु ‘-- चोदने’ इत्येव।
तरङ्गिण्याम् ‘-- चोदने’ इति पठित्वा 3 ‘चोदनं = लज्जा’ इति दृश्यते।
‘लज्जायामप्यधीयते’ इति मैत्रेयः।
भट्टो- जिदीक्षित-काशकृत्स्न-आत्रेयादयस्तु ‘-- चोदने लज्जायां च’ इत्येव पठन्ति।
‘-- प्रेरणे द्रुमे’ इति धा।
का।
व्याख्यायाम् 4।
व्रीडकः-डिका, व्रीडकः-डिका, विव्रीडिषकः-षिका, वेव्रीडकः-डिका
व्रीडिता-त्री, व्रीडयिता-त्री, विव्रीडिषिता-त्री, वेव्रीडिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकक्रीडतिवत् 5 बोध्यानि।
व्रीडः- 6 आव्रीडः, 7 व्रीडा।
प्रासङ्गिक्यः
01
=>
(१६६७)
02
=>
(४-दिवादिः-११२६। अक। सेट्। पर।)
03
=>
[पृष्ठम्१२७८+ २६]
04
=>
(१-५७)
05
=>
(२७५)
06
=>
[[१। घञ्प्रत्यये रूपमेवम्। लघूपधत्वाभावात् गुणः।]]
07
=>
[[२। ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारः स्त्रियां भवति।]]