| YouTube Channel

व्राह्मण्य (vrAhmaNya)

 
वाचस्पत्यम्
Sanskrit
ब्रा(व्रा)ह्मण्य
न०
ब्राह्मणानां समूहः भावो वा ष्यञ् ।१ विप्रसमूहे ब्राह्मणधर्मे विप्रत्वे ।जात्यन्तरगतस्य कारणविशेषाभावे ब्राह्मण्यप्राप्तिर्नास्तीतिब्राह्मण्यस्य दुष्प्रापत्वम् भा० २८ अ० मतङ्गोपाख्यानेविस्तरेण उक्तं यथा “तिर्य्यग्योनिगतः सर्वो मानुष्यंयदि गच्छति जायते पुक्कशो वा चाण्डालो वाऽप्यसंशयम् पुक्कशः पापयोनिर्वा यः कश्चिदिह लक्ष्यते ।स तस्यामेव सुचिरं सतङ्ग परिवर्त्तते ततो दशशतेकाले लभते शूद्रतामिति शूद्रयोनावपि ततो बहुशःपरिवर्त्तते ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि ।वैश्यतायां चिरं कालं तत्रैव परिवर्त्तते ततः षष्टि-गुणे काले राजन्यो नाम जायते ततः षष्टिगुणे कालेलभते ब्रह्मबन्धुताम् ब्रह्मबन्धुश्चिरं कालं तत्रैव परि-वर्त्तते ततस्तु द्विशते काले लभते काण्डपृष्ठताम् ।काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्त्तते ततस्तु त्रिशतेकाले लभते विप्रतामपि ताञ्च प्राप्य चिरं कालं तत्रैवपरिवर्त्तते ततश्चतुःशते काले श्रोत्रियो नाम जायतेएतच्च जात्यभिप्रायं संस्कारादिना तु विशिष्टब्राह्मण्य-लाभः यथोक्तमङ्गिरसा “चित्रं कर्म यथाऽनेकैरङ्गै-रुन्मील्यते शनैः ब्राह्मण्यमपि तद्वत् स्यात् संस्कारै-र्विधिपर्वकैः” शनिग्रहे
पु०
शब्दमाला तादृशब्राह्मण्यहानिस्तु कर्मभेदात् यथा “शूद्रां शयनमारोप्य ब्राह्म-ण्यादेव हीयते” इत्यादि