| YouTube Channel

व्राह्मणशस्त्र (vrAhmaNazastra)

 
वाचस्पत्यम्
Sanskrit
ब्रा(व्रा)ह्मणशस्त्र
न०
व्राह्मणस्य शस्त्रमिव तत्कार्य्यकारि-त्वात् अभिचारादिमन्त्रोच्चारणात्मके विप्रवाक्ये “वाक्शस्त्रं वै व्राह्मणस्य तेन हन्यादरीन् द्विजः” मनुः ।“यस्मादभिचारमन्त्रोच्चारणात्मिका ब्राह्मणस्य वागेव शस्त्रंशस्त्रसाध्यकार्यकारि” कुल्लू०