| YouTube Channel

व्राह्मणब्रुव (vrAhmaNabruva)

 
वाचस्पत्यम्
Sanskrit
ब्रा(व्रा)ह्मणब्रुव
पु०
ब्राह्मणं विप्रजातिमात्रतया आत्मानं ब्रवीति ब्रू--क बा० वच्यादेशः वेदतत्कर्महीने जाति-मात्रोजीविनि विप्रे “गर्भाधानादिमन्त्रैर्यो वेदोपनय-नेन नाध्यापयति नाधीते भवेद्ब्राह्मणब्रुवः”व्यासस० “जातिमात्रोपजीवी कामं स्याद् ब्राह्मण-ब्रुवः धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथञ्चन” मनुः“सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे” मनुः