| YouTube Channel

व्राह्मणजीविका (vrAhmaNajIvikA)

 
वाचस्पत्यम्
Sanskrit
ब्रा(व्रा)ह्मणजीविका स्त्री त० याजनाध्यापनप्रति-ग्रहरूपायां ब्राह्मणवृत्तौ “ब्राह्मणा ब्रह्मयोनिस्था ये स्व-कर्मण्यवस्थिताः ते सम्यगुपजीवेयुः षट् कर्माणि यथा-क्रमम् अध्यापनमध्ययनं यजनं याजनन्तथा दानंप्रतिग्रहश्चैव षटकर्माण्यग्रजन्मनः षण्णान्तु कर्मण मस्य-त्रीणि कर्माणि जीविका याजनाध्यापने चैव विशु-द्धाच्च प्रतिग्रह” मनुः ब्राह्मणवृत्तिरप्यत्र स्त्री