| YouTube Channel

व्राह्मण (vrAhmaNa)

 
वाचस्पत्यम्
Sanskrit
ब्रा(व्रा)ह्मण पुंस्त्री० ब्रह्म वेदं शुद्धं चैतन्यं वा वेत्त्यधीते वाअण् “ब्रह्मणो जाताविति” पा० टिलोपः ब्रह्मणोमुखजातत्वात् ब्रह्मणोऽपत्यम् वा अण् विप्रे जाति-भेदे स्त्रियां जातित्वात् ङीष् पुक्कायां स्त्री ङीप् ।“ब्रह्म जानाति ब्राह्मणः” इत्युक्ते परब्रह्मज्ञे
त्रि०
।ब्राह्मणक्षेत्रे ब्राह्मणाज्जातदेहे तत्सङ्कल्पजातदेहे चबाह्मणत्वजातिः स्वीक्रियते यथा गोमयवृश्चिकोभयजातदेहस्य वृश्चिकत्वं तद्वत् तत्र सङ्कल्पजाते देहेब्राह्मणत्वं यथा नारदद्रोणादौ इदानीञ्च ब्राह्मणस्यसत्यसकल्पत्वाभावान्न तथात्वम् किञ्च कलौ असवर्णाविवाहनिषेधादपि तथात्वम् ।“ब्राह्मण्यां ब्राह्मणाज्जाती ब्राह्मणः स्यान्न संशयः ।क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि” भा० दानधर्म-वाक्यस्यापि संकल्पभेदादेव तथात्वेन युगान्तरविषयत्वम् ।तस्य लक्षणं यथा “क्षात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेनच एभिर्युक्तो हि यस्तिष्ठेन्नित्यं द्विज उच्यर्ते”वह्निपु० “न क्रुध्येन्न प्रह्रष्टेच्च मानितोऽमानितश्च यः ।सर्वभूतेष्वभयदस्तं--देवा ब्राह्मणं विदुः अहेरिव गणा-द्भीतः सौहित्यान्नरकादिव कुणपादिव स्त्रीभ्यस्तंदेवा ब्राह्मणं विदुः येन केनचिदाच्छन्नो येन केनचि-दाशितः यत्र क्व चन शायी तं देवा ब्राह्मणं विदुः ।विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत् स्थितम् अस्वमेक-चरं शान्तं तं देवा ब्राह्मणं विदुः जीवितं यस्य ध-र्मार्थं धर्मो रत्यर्थमेव अहोरात्रश्च पुण्यार्थस्तंदेवा ब्राह्मणं विदुः निराशिषमनारम्भं निर्नमस्कर-मस्ततिम् अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणंविदुः” भा० मोक्षध० “विशाखयूप उवाच विप्रस्यलक्षणं ब्रूहि त्वद्भक्तिः का तत्कृता यतस्तवानु-ग्रहेण वाग्बाणाः ब्राह्मणाः कृताः” कल्किरुवाच“वेदास्तमोश्वरं प्राहुरष्यक्तं व्यक्तिमत् परम् ते वेदा ब्रा-ह्मणमुखे नानाधर्माः प्रकाशिताः यो धर्मो ब्राह्मणानांहि सा भक्तिर्मम पुष्कला तयाहं तोषितः श्रीशःसंभवामि युगे युगे ऊर्द्ध्वन्तु त्रिवृतं सूत्रं सधवानि-र्मितं शमैः तन्तुत्रयमधोवृत्तं यज्ञसूत्रं विदुर्बुधाः ।त्रिगुणं तद्ग्रन्थियुक्तं वेदप्रवरसम्मितम् शिरोधरा-न्नाभिमध्यात् पृष्ठार्द्धपरिमाणकम् यजुर्विदां नाभि-मितं सामगानामयं विधिः वामस्कन्धेन विधृतं यज्ञ-सूत्रं बलप्रदम् मृद्भस्मचन्दनाद्यैस्तु धारवेत्तिलकंद्विजः भाले त्रिपुण्ड्रं कर्माङ्गं केशपर्य्यन्तमुज्ज्वलम् ।पुण्ड्रमङ्गुलिमानन्तु त्रिपुण्ड्रं तत्त्रिधा कृतम् ब्रह्म-विष्णुशिवावासं दर्शनात् पापनाशनम् ब्राह्मणानांमुखे स्वर्गा वाचि वेदाः करे हरिः गात्रे तीर्थानियागाश्च नाडीषु प्रकृतिस्त्रिवृत् सावित्री कण्ठकुहराहृदयं ब्रह्मसङ्गतम् तेषां स्तनान्तरे धर्मः पृष्ठेऽधर्मःप्रकीर्त्तितः भूदेवा ब्राह्मणा राजन्! पूज्या वन्द्याःसदुक्तिभिः चातुराश्रम्यकुशला मम धर्मप्रवर्त्तकाः ।व लाश्चापि ज्ञानवृद्धास्तपोवृद्धा मम प्रियाः तेषांवचः पालयितुमवताराः कृता मया माहाभाग्यं ब्रा-ह्मणानां सर्वपापप्रणाशनम् कलिदोषहरं श्रुत्वामुच्यते सर्वतोभयात्” कल्किपु० अ० “कर्मणा ब्रह्मणोजातः करोति ब्रह्मभावनाम् स्वधर्मनिरतः शुद्वस्तस्माद्-ब्राह्मण उच्यते” ब्रह्मवे० गणेशख० ३५ अ० ।“जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शचिः ।वेदाध्ययनसम्पन्नः षट्सु कर्मस्ववस्थितः शौचाचार-परो नित्यं विघसाशी गुरुप्रियः नित्यव्रती सत्यरतःस वै ब्राह्मण उच्यते सत्यं दानमथाऽद्रोह आनृशंस्यकृपा घृणा तपश्च दृश्यते यत्र ब्रह्मण इतिस्मृतः” तस्य धर्मो यथा “ब्राह्मस्य तु यो धर्मस्तं तेवक्ष्यामि केवलम् दममेव महाराज धर्ममाहुः पुरा-तनम् स्वाध्यायाभ्यसनञ्चैव तत्र कर्म समाप्यते ।तञ्चेद्वित्तमुपागच्छेद्वर्त्तमानं स्वकर्मणि अकर्वाणंविकर्माणि श्रान्तं प्रज्ञानतर्पितम् कुर्वीतोपेत्य सन्तान-मथ दद्याद्यजेत संविभज्यापि भोक्तव्यं धनं सद्भि-रितीष्यते परिनिष्ठितकार्य्यस्तु स्वाध्यायेनैव ब्राह्मणः ।कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते” पाद्मेस्वर्गख० २६ अ० तस्य माहात्म्यादि यथा “सर्वेषा-मेव वर्णानां ब्राह्मणः परमो गुरुः तस्मै दानानिदेयानि भक्तिश्रद्धासमन्वितैः सर्वदेवाग्रजो विप्रःप्रत्यक्षत्रिदशो भुवि तारयति दातारं द्स्तरेविश्वसागरे हरिशर्मोवाच सर्ववर्णगुरुर्विप्रस्त्वयाप्रोक्तः सुरोत्तम! तेषां मध्ये कः श्रेष्ठः कस्मै दानंप्रदीयते ब्रह्मोवाच सर्वेऽपि ब्राह्मणाः श्रेष्ठाःपूजनीयाः सदैव हि अविद्या वा सविद्या वा नात्रकार्य्या विचारणा स्तेयादिदोषलिप्ता ये ब्राह्मणाब्राह्मणोत्तम! आत्मभ्यो द्वेषिणस्तेऽपि परेम्यो नकदाचन अनाचारा द्विजाः पूज्या शूद्रा जिते-न्द्रियाः अभ्यक्ष्यमक्षंका गावः कोलाः सुमतयो ।माहात्म्यं भूमिदेवानां विशेषादुच्यते मया तव स्ने-हाद्द्विजश्रेष्ठ! निशामय समाहितः क्षत्रियाणाञ्चवैश्यानां शूद्राणां गुरवो द्विजाः अन्योऽन्यं गुरवोज्ञेयाः पूजनीयाश्च भूसुर! ब्रह्मणं प्रणमेदयस्तु विष्णु-बुद्ध्या नरोत्तमः आयुः पुत्राश्च कीर्त्तिश्च सम्पत्ति-स्तस्य वर्द्धते नौति द्विजं यस्तु मूढधीर्मानवीभुवि सुदर्शनेन तच्छीर्षं हन्तुसिच्छति केशवः” ।पुष्पादिहस्तस्य विप्रस्य प्रणामनिषेधो यथा “पुष्प-हस्तं पयोहस्तं देवहस्तञ्च भूसुर! नमेद ब्राह्मणप्रातस्तैलाभ्यङ्गितविग्रहम् जलस्थं देववेश्म स्थं ध्यान-माज्जतचेतसम् देवपूजाञ्च कुर्वन्तं नमेद् ब्राह्मणंबुधः बहिष्क्रिया प्रकुर्वन्तं भुञ्जानञ्च द्विजोत्तम! ।तथा सामानि गायन्तं नमेद् ब्राह्मणं बुधः ब्राह्मणायत्र तिष्ठन्ति बहवीं द्विजसत्तम प्रत्येकन्तु वमस्कार-स्तत्र कार्य्यो धीमता कृताभिवादनं विप्रं भक्त्या योनाभिवादयेत् चाण्डालसमो ज्ञेयो नाभिवाद्यःकदापि कृतप्रणामं तनयं नमेतां पितरौ ।कृनप्रणामाः सर्वेऽपि नमस्कार्य्या द्विजैर्द्विजाः कृत-दोषान् द्विजान् गाश्च द्विषन्ति विचक्षणाः द्विषन्तिघापि मोहेन तेषां रुष्टः सदा हरिः याचकान् ब्राह्म-णान् यस्तु कोपदृष्ट्या प्रपश्यति सूचीप्रक्षेपणं तस्यनेत्रयोः कुरुते यमः विपनिर्भर्त्सनं मूढा येन वक्त्रेणकुर्वते तस्मिन् वर्क्त्र यमस्तप्तं लौहपिण्डं ददाति वै ।ब्राह्मणो यद्गृहे भुङक्त तद्गृहे केशवः स्वयम् ।देवताः सकला एव पितरश्च सुरर्षयः तस्य पादोदकादिमाहात्म्य यथा “विप्रपादोदकं यस्तु कणमात्रंबहेद्बुधः देहस्थ पातकं तस्य सर्वमेवाशु नश्यति ।कीटिब्रह्माण्डमध्येषु सन्ति तीर्थानि यानि तानि स-र्वाणि तीर्थानि वसन्ति द्विजपादयोः विप्रपादोदकैर्नित्यंसिक्तं स्याद् यस्य मस्तकम् स्नातः सर्वतीर्थेषु सर्वय-ज्ञेषु दीक्षितः सर्वपापानि घोराणि विप्रहत्यादिकानिच सद्य एव विनश्यन्ति विप्रपादाम्बुधारणात् क्षयाद्याव्याधयः सर्वे परमक्लेशदायकाः गच्छन्ति विलय सद्योविप्रपादाम्ब भक्षणात् पित्रर्थं यानि तोयानि दीयन्तेविप्रपादयोः तस्तृप्ताः पितरः स्वर्गे तिष्ठन्त्याचन्द्र-तारकम् प्रक्षाल्य विप्रचरणौ दूर्वाभिर्योऽर्चयेद्बुधः ।तेनाचितो जगत्स्वामी विष्णुः सर्वसुरोत्तमः विप्राणांपादनिर्माल्यं यो मर्त्यः शिरसा वहेत् सत्यंसत्यमहं वच्मि तस्य मुक्तिर्हि शाश्वती” तस्य प्रद-क्षिणफलम् “विप्रं प्रदक्षिणीकृत्य वन्दते यो नरोत्तमः ।प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा” तस्य पादसेवनफलम् “यो दद्यात् फलताम्बूलं विप्राणां पाद-सेवने इह लोके सुखं तस्य परलोके ततोऽधिकम् ।पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् मोक्षार्थीलभते मोक्षं विप्रपादस्व सेवनात् रोगी रोगात् प्रमु-च्येत पापी मुच्येत पातकात् मुच्येत बन्धनाद्बद्धोविप्राणां पादसेवनात अनपत्याश्च या नार्य्यो मृताऽ-पत्याश्च या स्त्रियः बह्वपत्या जीववतसाः स्वुर्विप्रपाद-सेवनात्” पाद्मे क्रियायोगसारे अ० तस्य सन्ध्या-वन्दनाकरणे दोषो यथा “नोपतिष्ठति यः पूर्वां नो-पास्ते यस्तु पश्चिमाम् शूद्रवद्वहिः कार्य्यः सर्व-स्माद् द्विजकर्मणः” मनुः अन्यत्र “न गृह्णन्ति सुरा-स्तेषां पितरः पिण्डतर्पणम् स्वेच्छया द्विजातेश्चात्रिसन्ध्यरहितस्य तस्य सन्ध्याबन्दनफलं यथा“याजज्जीवनपर्य्यन्तं यस्त्रिसन्ध्यं करोति हि चसूर्य्यसमो बिप्रस्तेजसा तपसा सदा तत्पादपद्मरजसासद्यः पूता वसुन्धरा जीवन्मुक्तः तेजस्वी सन्ध्यापूतो हि यो द्विजः तीर्थानि पवित्राणि तस्य सं-स्पर्शमात्रतः ततः पापानि यान्त्येव वैनतेयादिवो-रगाः तस्य निन्द्यकर्माणि यथा “विष्णुमन्त्रविहीनश्च त्रिसन्ध्यरहितो द्विजः एकादशीविहीनश्चविषहीनो यथोरगः हरेर्नैवद्यभोगी धारको वृष-वाहकः शुद्रान्नभोजी विप्रश्च विषहीनो यथोरगा ।शवदाही शूद्राणां यो विप्रा वृषलीपतिः शूद्राणांसूपकारी शूद्रयाजी यो द्विजः असिजीवी-मसीजीवी विषहीनो यथोरगः यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः भगजीवी बार्द्धुषिकोविषहीनो यथोरगः यः कन्याविक्रयी विप्रो योहरेर्नामविक्रयी यो विद्याविक्रयी विप्रो विषहीनोयथोरगः सूर्य्योदये द्विर्भोजी मत्स्यभोजी योद्विजः शिवपूजादिरहितो विषहीनो यथोरगः” ।ब्रह्मवै० प्र० २१ अ० अन्यत्र “यदि शूद्रां व्रजेद्विप्रोवृषलीपतिरेव सः भ्रष्टो विप्रजातेश्च चाण्डालात्सोऽधमः स्मृतः विष्ठासमश्च तत्पिण्डो मूत्रं तस्य चतर्पणम् तत्पितृणां सुराणाञ्च पूजने तत् समं सति! ।काटिजन्मार्जितं पुण्यं सन्ध्यार्चातपसाऽर्जितम् द्विजस्यवृषलीभोगान्नश्यत्येव संशयः ब्राह्मणश्च सुरापीतःविड्भोजी वृषलीपतिः हरिवासरभोजी कुम्भी-पाकं व्रजेद्ध्रुवम्” “करोत्यशुद्धां सन्ध्याञ्च सन्ध्यांवा करोति यः त्रिसन्ध्यं वर्जयेद् यो वा सन्ध्या-हीनश्च द्विजः” नारायणक्षेत्रादितीर्थे तस्य प्रति-ग्रहदोषो यथा “तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेःपदे वाराणस्यां वदर्य्याञ्च गङ्गासागरसङ्गमे पुष्करेभास्करक्षेत्रे प्रभासे रासमण्डले हारिद्वारे केदारेसोमे वदरपाचने सरस्वतीनदीतीरे पुण्ये वृन्दा-वने वने गोटावर्य्याञ्च कौशिक्यां त्रिवेण्याञ्च हिमा-लये एतेष्वन्धेषु यो दानं प्रतिगृह्णाति कामतः ।स तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति च” पारि-भाषिकमहापातकिब्राह्मणा यथा “सप्तोद्रिक्तशूद्रयाजीग्रामयाजीति कीर्त्तितः देवोपजीवजीवी देवलश्चप्रकीर्त्तितः शूद्रपाकोपजीवी यः सूपकारः प्रकीर्त्तितः ।सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः एते महा-पातकिनः कुम्भीपाकं प्रयान्ति ते” ब्रह्मवै० ज० ख० २७ अ० ।“ब्राह्मणस्य स्वधर्मश्च त्रिसन्ध्यमर्चन हरेः तत्पादोदकनैवेद्यभक्षणञ्च सुधाधिकम् अन्नं विष्ठा जलं मूत्रमनिवेद्यहरेर्नृप भवन्ति शूकराः सर्वे ब्राह्मणा यदि भुञ्जते ।आजीवं भुञ्जते विपा एकादश्यां भुञ्जते कृष्णजन्म-दिने चैव शिवरात्रौ सुनिश्चितम् तथा रामनवम्याञ्चयत्रतः पुण्यवासरे ब्राह्मणानां स्वधर्मश्च कथितो वे-धसा नृप ५९ अ० गृहस्थब्राह्मणनियमा यथा"वेदं वेदौ तथा वेदानधीत्य तु समाहितः तदर्थमभि-गम्याथ ततः स्नायाद् द्विजोत्तमः गुरुवे तु धनं दत्त्वास्नायीत तदनुज्ञया चीर्णव्रतोऽथ मुक्तात्मा ह्यशक्तःस्नातुमर्हति वैणवीन्धारयेद्यष्टिमन्तर्वासस्तथोत्तरम् ।यज्ञोपवीतद्वितयं सोदकञ्च कमण्डलुम् छत्रञ्चोष्णीष-ममलं पादुके चाप्युपानहौ रौक्मे कुण्डले धार्य्येकृत्तकेशनखः शुचिः स्वाध्याये नित्ययुक्तः स्याद्बहिर्माल्यं धारयेत् अन्यत्र काञ्चनाद्विप्रो रक्तां बि-भृयात स्रजम् शुक्लाम्बरधरो नित्यं स्रग्गन्धः प्रिय-ष्टर्शनः नजीर्णमलवद्वासा भवेच्च विभवे सति रक्तसुल्वणञ्चान्यधृतं वासो कुण्डिकाम् नोपानहौ स्रजंप्राथ पादुके प्रयोजयेत् उपवीतमलङ्कारं कुम्भान्कृष्णाजिनानि नापसव्यं परीदध्याद्वासा विकृतंवसेत् आहरेद्विधिवद्धीमान् सदृशानात्मनः शुभान् ।रूपलक्षणसंयुक्तां योनिदोषविवर्जिताम् अमातृ-गोत्रप्रभवामसमानार्षगोत्रजाम् आहरेद्ब्राह्मणोभार्य्यां शीलशौचसमन्विताम् ऋतुकालाभिगामीस्याद् यावत् पुत्रोऽभिजायते वर्जयेत् प्रतिषिद्धानि प्रय-त्रेन दिनानि तु षष्ठ्यष्टमी पञ्चदशी द्वादशी चतु-र्दशी ब्रह्मचारी भवेक्षित्यं तद्वज्जन्मक्षयाहनि ।आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् व्रतानिस्नातको नित्यं पावनानि पालयेत् येदोदितं स्वकंकर्म नित्यं कुर्य्यादतन्द्रियः अकुर्वाणः पतत्याशु नर-कानतिभीषणान् अभ्यसेत् प्रयतो नित्यं वेदं यज्ञान्न-हापयेत् कुर्य्यात् गृह्याणि कर्माणि सन्ध्योपासनमेवच सख्यं समाधिकैः कुर्य्यादुपेयादीश्वरं सदा दैवता-न्यपि गच्छेत् तु कुर्य्याद्भार्य्याभिपोषणम् धर्मंख्यापयेद्विद्वान् पापं घयेदर्पि कुर्वीतात्महितंनित्यं सर्वभूतानुकम्पकः वयसा कर्मणाऽर्थस्य श्रुत-स्याभिजनस्य देशवागबद्धिसारूप्यमाचरन् विचरेत्सदा श्रुतिस्मृत्युदितं सम्यक साधुभिर्यश्च सेवितः ।तमात्मवन्निषेवेतं नेहेतान्यत्र कर्हिचित् येनास्य पि-तरो याता येन याताः पितामहाः तेन यायात्सतां मार्गं तेन गच्छन्न रिष्यति नित्यं स्वाध्यायशीलः स्यान्नित्य यज्ञोपवीतवान् सत्यवादी जित-क्रोधो ब्रह्मपूयाय कल्पते सन्ध्यास्नानरतो नित्यं ब्रह्म-यज्ञपरायणः अनुसूयुर्मृदुर्दान्तो गृहस्थः प्रत्य-यान्विता वीतरागभयक्रोधो लोभमोहविवर्जितः ।सावित्रीजापनिरतः श्रद्धावान् मुच्यते गृही माता-पित्रोर्हिते युक्तो गोब्राह्मणहिते रतः दाता यज्वादेवभक्तो ब्रह्मलोके महीयते त्रिवर्गसेवी सततं देव-तानाञ्च पूजनम् कुर्य्यादहरहर्नित्यं नमस्येत प्रयतःसुरान् विभागशीलः सततं क्षमायुक्तो दयात्मकः ।गृहस्थस्तपसा युक्तो गृहेऽपि गृही भवेत् क्षमादया विज्ञानं सत्यञ्चैव दमः शमः अध्यात्मनित्यता ज्ञानमेतद्ब्राह्मणलक्षणम् एतस्मान्न प्रमा-द्येत विशेषेण द्विजोत्तमः यथाशक्ति चरन् कर्मनिन्दितानि विवर्जयेत् विधूय मोहकलिल लब्धायोगमनुत्तमम् गृहस्थो मुच्यते बन्धान्नात्र कार्य्या-विचारणा विगर्हातिक्रमक्षेपहिंसाबन्धबधात्मकान् ।अन्यमन्युसमुत्थानां दोषाणां बर्जनं क्षमा स्वदुः-खेष्विव कारुण्यं परदु खेषु सौहृदात् दया यांमुनयः प्राहुः साक्षाद्धर्मस्य साधनम् चतुर्दशानांविद्यानां धारणं हि यथार्थतः विज्ञानमेतच्च विद्याद्येन धर्मो विवर्द्धते अधीत्य विधिवद्विद्यामर्थञ्चैवोप-लभ्य तु धर्मकार्य्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते ।सत्येन लोकं जयति सत्यन्तत् परमं पदम् यथाभूतप्रसादन्तु सत्यमाहुर्मनीषिणः दमः शरीरावनतिः शमःप्रज्ञाप्रसादजः अध्यात्ममक्षरं विद्याद्यत्र गत्वा नशोचति यथा देवो भगवान् विद्यया शिव! वेद्यते ।साक्षादेव महादेव! तज्ज्ञानमिति कीर्त्तितम् तन्निष्ठ-स्तत्परो विद्धान्नित्यमक्रोधनह् शुचिः महायज्ञपरोविप्रो लभते तदनुत्तमम् धर्मस्यायतनं यत्नाच्छरीरंपरिपालयेत् हि देहं विना रुद्र! पुरुषैर्विद्यते परः ।नित्यं धर्मार्थकामेषु युञ्जीत नियतो द्विजः धर्मवर्जितं काममर्थं वा मनसा स्मरेत् सीदन्नपि स्वधर्मेणन त्वधर्मं समाचरेत् धर्मो हि भगवान् देवो गतिःसर्वेषु जन्तुषु भूतानां प्रियकारी स्यान्न परद्रोहक-र्मधीः वेददेवतानिन्दां कुर्य्यात्तैश्च संवदेत् ।यस्त्विपं नियतो विप्रो धर्माध्यायं पठेत् शुचिः ।अध्यापयेत्च्छ्रावयेद्वा ब्रह्मलोके महीयते” कूर्मपु० १४ अ० "सूत उवाच आनृशंस्यं क्षमा सत्यमहिंसादममार्जवम् ध्यानं प्रसादो माधुर्य्यं मार्दवं शौचमेवच इज्या दानं तपः सत्यं स्वाध्यायीह्यात्मनिग्रहः ।व्रतोपवासौ मौनञ्च स्नानं पैशुन्यवर्जनम् एभिर्युक्तोमुनिश्रेष्ठा! यः सदा वर्त्तते द्विजः हुत्वा तु पावकंपूर्वं परं ब्रह्माधिगच्छति अविद्यो वा सविद्यो वानिरग्निः साग्निकोऽपि वा यो विप्रस्तपसा युक्तः सपरं स्वर्गमाप्नुयात् सर्वेषामुत्तमं श्रेष्ठं विमुक्तिफल-दायकम् ब्राह्मणस्य तपो वक्ष्ये तन्मे निगदतः शृणु ।सायं प्रातश्च यः सन्ध्यामुपास्तेऽखिन्नमानसः जपन्हि पावनीं देवीं गायत्रीं वेदमातरम् तपसा भावितोदेव्या ब्राह्मणः पूतकिल्विषः सीदेत् प्रतिगृह्णन् सत्वपि पृथ्वीं ससागराम् द्वे सन्ध्ये ह्युपतिष्ठेत गायत्रींप्रयतः शुचिः यस्तस्य दुष्कृतं नास्ति पूर्वतः परतोऽपिवा यज्ञदानरतो विद्वान् साङ्गवेदस्य पाठकः गायत्रीध्यानपूतस्य कलां नार्हति षोडशीम् एवं किल्विष-युक्तस्तु विनिर्दहति पातकम् उभे सन्ध्ये ह्युपासीततस्मान्नित्यं द्विजोत्तमः” तस्य देहापवित्रताहेतुः यथा“यथा देहापवित्रत्वं विग्रादीनां यतो भवेत् देवर्षे!शृणु तत् सर्वं नराणामानुपूर्विकम् जातके मृतके-ऽस्नाते जलौकाभिः क्षते तथा अपवित्रो द्विजादीनांदेहः सन्ध्यादिकर्मसु अपूततनूरुत्सर्गे नरो मूत्रपूरीषयोः अस्पृश्यस्पर्शने चैव ब्रह्मयज्ञजपादिषु ।रक्तपाते नखशृङ्गदन्तखड्गादिभिः क्षते विप्रादेरशुचिःकायः शस्त्रास्त्रैः कण्टकादिभिः भुक्तवस्त्राननोच्छि-ष्टेऽपवित्रः कृतषेथुने शयने ब्राह्मणादीनां शरीरंक्षुरकर्मणि ज्वरादिभिश्चतुःषष्टिरोगैर्युक्ते द्विजन्मनाम् ।बपुरप्रयतं पूजादानहोमजपादिषु धूमोद्गारे वमौआद्धपतितान्नादिभोजने तथा रेतस्खलने मत्या, देहापवित्रता अपवित्रं द्विजातीनां वपुः स्याद्राहु-दर्शने गर्हितदानग्रहणे पतिते पातकादिभिः अ-शौचान्तेन शुद्धिः स्याज्जातके मृतके द्विज! सर्व-वर्णाश्रमादोनां तनोः सन्ध्यादिकर्मसु” पाद्मोत्तरञ्चण्डे१०९ अ० मन्त्रेतरवेदभागे
न०
ऋ० भाष्योपोद्घाते आशङ्का-पूर्वकं तल्लक्षणमुक्तं यथा “तत्र ब्राह्मणस्य लक्षणं नास्ति ।कुतः? वेदभागानामियत्तानवधारणेन ब्राह्मणभागेष्वन्य-भागेषु लक्षणस्याव्याप्त्यतिव्याप्त्योः शोधयितुमशक्य-त्वात् पूर्वोक्तमन्त्रभाग एकः भागान्तराणि चकानिचित् पूर्वैरुदाहर्तुं संगृहीतानि “हेतुर्निर्वचनंनिन्दा प्रशंसा संशयो विधिः परक्रिया पुरुकिल्पोव्यवर्धारणकल्पनेति” “तेन ह्यन्नं क्रियत” इति हेतुः ।“तद्दघ्नी दधित्वमिति” निर्वचनम् “अमेध्या वै माषाःइति निन्दा “वायुर्वे क्षेपिष्ठेति” प्रशंसा “तद्व्यचि-कित्सा जुहवानी मा हौषा मिति” संशयः “यज-मानेन सम्मितौदुम्भरी भवतीति” विधिः “माषानेवमह्यं पचन्तीति” परकृतिः “पुरा ब्राह्मणा अभैषुः”इति पुराकल्पः “यावतोऽश्वान् परिगृह्णीयात्ता-वतो वारुणांश्चतुष्कपालान्निर्वपेदिति” विशेषावधारण-कल्पना एवमन्यदप्युदाहार्य्यम् हेत्वादीना-मन्यतमं ब्राह्मणमिति लक्षणम् मन्त्रोष्वपि हेत्वादि-सद्भावात् “इन्दवो वा मुशन्ति हीति” हेतुः “उदा-निषुर्महीरिति तस्मादुदकमुच्यत इति” निर्वचनम् ।“मोघमन्नं विन्दते अप्रचेताः” इति निन्दा “अग्निर्मूर्द्धादिवः ककुदिति” प्रशंसा “अधः स्विदासी दुपरि स्विदासी ३दिति” संशयः “वसन्ताय कपिञ्जलानालभेत” इति विधिः ।“सहस्रमयुतं ददाविति” परकृतिः “यज्ञेन यज्ञमयजन्तदेवाः” इति पुराकल्पः इतिकरणबहुलं ब्राह्मणमितिचेत् “इत्यददा इत्ययजथा इत्यपच इति “ब्राह्मणोगायेत्” इत्यस्मिन् ब्राह्मणेन गातव्ये मन्त्रेऽतिव्याप्तेः ।इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणमिति चेत् न“राजा चिदां भगं भक्षीत्याह यो मायातुं यातुधाने-त्याह यो वा रक्षः “शुचिरस्मीत्याहे श्रनयोर्मन्त्रयो-रतिव्याप्तेः आख्यायिकारूपं ब्राह्मणमिति चेत् नयमयमीसंवादसूक्तादावतिव्याप्तेः तस्मान्नास्ति ब्राह्मण-लक्षणमिति प्राप्ते ब्रूमः मन्त्रब्राह्मणरूपौ द्वावेव वेद-भागावित्यङ्गीकारात् मन्त्रलक्षणस्य पूर्बमभिहितत्वादव-शिष्टो वेदभागो ब्राह्मणमित्येतल्लक्षणं भविष्यति”