| YouTube Channel

व्राह्म (vrAhma)

 
वाचस्पत्यम्
Sanskrit
ब्रा(व्रा)ह्म
न०
ब्रह्मण इदम्, तेन प्रोक्तम् वा अण् दिलोपः ।१ अङ्गुष्ठमूले तीर्थे, तेन हि तीर्थेन द्विजाचमनं विहित-मिति तस्य तत्सम्बन्धित्वम् “प्राग्वा ब्रा(व्रा)ह्मेनतीर्थेन द्विजा नित्यमुपस्पृशेत्” इति मनुम् “अङ्गुष्ठोत्तरस्ततोरेखा या पाणेर्दक्षिणस्य एतद्ब्राह्ममिति ख्यातंतीर्थमाचमनाय वै” स्मृतिः नारदे
पु०
जटा० ब्र(व्र)ह्म-णोक्ते अष्टादशपुराणान्तर्गते महापुराणभेदे
न०
।४ विवाहभेदे पारदे
पु०
सरस्वत्यां तदधिष्ठातृकायां७ वाचि सोमलतायां ब्रह्मोशाके (वामनहाटि) शाक-भेदे स्त्री “आवृत्तानां गुरुकुलात् विप्राणां पूजकोभवेत् नृपाणामक्षयो ह्येष ब्राह्मो धर्मो विधीयतेइति मनूक्ते राज्ञां १० धर्मभेदे
पु०
११ मातृभेदे स्त्रीङीप् “ब्राह्मी नारायणी तथेति” कालकवचम् ।“वृहदस्याः शरीरं यदप्रमेयं प्रमाणतः वृहद्वि-स्तीर्णमित्युक्तं ब्राह्मी देवी ततः स्मृता देवीपु० उक्त-निर्वचनायां १२ देव्याञ्च स्त्री १३ ब्रह्मसम्बन्धिनिमात्रे
त्रि०
स्त्रियां ङीप् “एषा ब्राह्मी स्थितिः पार्थ!” गीता ।सरस्वत्या ब्रह्मजातत्वं ब्रह्माणीशब्दे दर्शितं तत्रदृश्यम् “ब्राह्मी हिमा सरा तिक्ता लघुर्मेध्या चशीतला कषाया मधुरा स्वादुपाकायुष्या रसायनी ।स्वर्य्या स्मृतिप्रदा कुष्ठपाण्डुमेहाश्रकासजित् विष-शोथज्वरहरी तद्वन्मण्डूकपण्यंपि” भावप्र० ब्राह्मी-शाकस्य गुणा उक्ताः १४ वाराहीकन्दे १५ हिलमोचि-कायां स्त्री राजनि० १६ रोहिण्यां स्त्री १७ नक्षत्रे
न०
तयोर्ब्रह्माधिष्ठातृदेवताकत्वात् तथात्वं “रात्रेश्च पश्चिमेभागे मुहूर्त्तो ब्राह्म उच्यते” पितामहोक्ते रात्रिशेषयामा-र्द्धस्थिते अरुणोदयकालात् प्राग्दण्डद्वयात्मके १८ कालेपु० १९ ब्रह्मसम्बन्धिदिने २० तन्माने अहन्शब्दे दृश्यम्