| YouTube Channel

व्राजयन्-न्ती (vrAjayan-ntI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“व्रज मार्गसंस्कारगत्योः”@} 2 “वजि 3 मार्गसंस्कारयोर्गतौ चेति मैत्रेयादयः।
स्वामी तु व्रजस्थाने वजिं पठित्वा मार्गेति द्वितीयं धातुमाह” इति धातुवृत्तावुक्तम्।
‘-- मार्गणे’ इति धनपालः।
‘द्वौ धातू इत्यन्ये’ इति क्षीरस्वामी।
‘व्रज--’ इति चन्द्रः।
‘व्रज मार्गसंस्कारे’ इति दुर्गः।
उभयोरप्यनयोर्वज- व्रजपक्षयोर्मार्गणं संस्कार इत्येवार्थस्तन्त्रान्तरे पठ्यते” इति पुरुषकारे प्रोक्तम् 4।
व्राजकः-जिका, विव्राजयिषकः-षिका
व्राजयिता-त्री, विव्राजयिषिता-त्री
व्राजयन्-न्ती, विव्राजयिषन्-न्ती
इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिक- क्लपयतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१६६१)
02
=>
(१०-चुरादिः। सक। सेट्। उभ।)
03
=>
(व्रजि?)
04
=>
(दैवश्लो। ५७)
05
=>
(२८२)