| YouTube Channel

व्रह्मीघृत (vrahmIghRta)

 
वाचस्पत्यम्
Sanskrit
ब्र(व्र)ह्मीघृत
न०
खारस्वतघृतमिति स्वाते औषधविशेषे यथा“समूलपत्रामुत्पाध्य ब्रह्मीं प्रक्षाल्य वारिणा ।उदूखले खोदयित्वा रसं वस्त्रेण गालयेत् रसेचतुर्गुणे तस्मिन् घृतप्रस्थं विपाचयेत् हरिद्रामालतीकुष्ठं वृहती हरीतकी एतेषां पालिकै-र्भागैः शेषास्तु कार्षिकाः स्मृताः पिप्पल्योऽथ विड-ङ्गानि सैन्धवं शर्करा वचा सर्वमेतत् समालोड्य शनै-र्मृद्वग्निना पचेत् एतत् प्राशितमात्रेण वाग्विशुद्धिःप्रजायते सप्तरात्रप्रयोगेण किन्नरैः सह गीयते ।अर्द्धरात्रप्रयोगेण स्वरो भवति कोकिलः मासमेकंप्रयोगेण भवेत् श्रुतिधरो नरः पञ्च गुल्मान् प्रमेहाश्चकासं पञ्चबिधं जयेत् सन्ध्यानाञ्चैव नारीणां नरा-णामल्परेतसाम् घृतं स्वारस्वतं नाम बलवर्णवपुःप्रदम्”चिकित्सारत्नसंग्रहः