| YouTube Channel

व्रह्मार्पण (vrahmArpaNa)

 
वाचस्पत्यम्
Sanskrit
ब्र(व्र)ह्मार्पण
न०
सर्वकर्मकर्त्त्राद्यात्मकतया ब्रह्मचिन्तनेब्रह्मणि परमात्मनि ईश्वरे सर्वकर्मफलानां सन्यासे तत्-प्रकारः कूर्मपु० अ० उक्तो यथा “ब्रह्मणा दीयते देयं ब्रह्मणेसंप्रदीयते ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ।नाहं कर्त्तासर्वमेतद्ब्रह्मैव कुरुते तथा एतत् ब्रह्मार्पणंप्रोक्तं ऋषिभिस्तत्त्वदर्शिभिः प्रीणातु भगवानीशः कर्मणा-ऽनेन शाश्वतः करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् ।यद्वा फलानां सन्न्यासं प्रकुर्य्यात् परमेश्वरे कर्मणामेत-दप्याहुर्व्रह्मार्पणमनुत्तमम्”