| YouTube Channel

व्रह्मात्मभू (vrahmAtmabhU)

 
वाचस्पत्यम्
Sanskrit
ब्र(व्र)ह्मात्मभू
पु०
ब्रह्मण आत्मनः देहात् भवति भू--क्विप् ।अश्वे शब्दमाला तस्य ब्रह्मदेहजातत्वं वृ० उ० उक्तं यथा“प्राणा वै यशोवीर्य्यं तत् प्राणेषूक्तान्तेषु शरीरंश्वयितुमध्रियत तस्य शरीर एव मन आसीत् सोऽ-कामयत मेध्यं इदं स्यादात्मन्व्यनेन स्यामिति ।ततोऽश्वः समभवद्यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्या-श्वमेधत्वम्” मू० “तदेवं यशोवीर्य्यभूतेषु प्राणेषूत्-क्रान्तेषु शरीरान्निष्क्रान्तेषु तच्छरीरम्प्रजाषतेः श्वयि-तुमुच्छूनभावङ्गन्तुमध्रियतामेध्यञ्चाभवत् तस्य प्रजा-पतेः शरीरान्निर्गतस्यापि तस्मिन्नेव शरीरे मन आ-सीत् यथा कस्यचित् प्रिये विषये दूरङ्गतस्यापिमनो भवति तद्वत् तस्मिन्नेव शरीरे गतमनाः सन्किमकरोदिति उच्यते सोऽकामयत कथं मेध्यं भेधार्हंयज्ञियं मे ममेदं शरीरं स्यात् किञ्चात्मन्वी आ-त्मवांश्चानेन शरीरेण शरीरवान् स्यामिति प्रविवेश ।यस्मात्तच्छरीरं मद्वियोगात् गतयशोवीर्य्यमश्व-दश्वयत् ततस्मस्मादश्वः समभवत् ततोऽश्वनामा प्रजा-पतिरेव साक्षादत्र स्तूयते यस्माच्च पुनस्तत् प्रवेशाद्गत-यशोवीर्य्यत्वादमेध्यं सन्मेध्यमभूत्तदेव तस्मादेवाश्वमेध-स्याश्वमेधनाम्नः क्रतोरश्वमेधत्वमश्वमेधनामलाभः” शा० भा०