व्रह्माण्ड (vrahmANDa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritब्र(व्र)ह्माण्ड ६ त० । “तदण्डमभवद्धैमं सहस्रांशुसम-प्रमम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः”इति मनूक्ते ब्रह्मण उत्पादके अण्डाकारे १ भुवनकोषे“ब्रह्माण्डभाण्डीदरभ्राम्यत्पिण्डितचण्डिमेति” वीरचरि-तम् ।ब्रह्माण्डसंस्था सू० सि० दर्शिता यथा“वासुदेवः परं ब्रह्म तन्मूर्त्तिः पुरुषः परः । अव्यक्तोनिर्गुणः शान्तः पञ्चविंशात् परोऽव्ययः । प्रकृत्यन्तर्गतोदेवो बहिरन्तश्च सर्वगः । सङ्कर्षणोऽपः सृष्ट्वादौ तासवीजमवासृजत् । तदण्डमभवद्धैमं सर्वत्र तमसा-वृतम् । तत्रानिरुद्धः प्रथमं व्यक्तीभूतः सनातनः ।हिरण्यगर्भो भगवानेष छन्दसि पठ्यते । आदित्योह्यादिभूतत्वात् प्रसूत्या सूर्य उच्यते । परं ज्योतिस्तमः-पारे सूर्योऽयं सवितेति च । पर्येति भुवनान्येष भाव-यन् भूतभावनः” इत्युपक्रमे “गुणकर्मविभागेन सृष्ट्वाप्राग्वदनुक्रमात् । विभागं कल्पयामास यथास्वं वेददर्श-नात् । ग्रहनक्षत्रताराणां भूमेर्विश्वस्य वा विभुः । देवा-सुरमनुष्याणां सिद्धानां च यथाक्रमम् । ब्रह्माण्डमेतत् सु-षिरं तत्रेदं भूर्भुवादिकम् । कटाहद्वितयस्यैव सम्पुटंगोलकाकृति (१) । ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाऽभिधी-यते । तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तपा ।मन्दामरेज्यभ्रपुत्रसूर्यशुक्रेन्दुजेन्दवः । परिभ्रमन्त्यधो-ऽधस्था । सिद्धविद्याधरा घनाः । उपरिष्टात् स्थितास्तस्यसेन्द्रा देवा महर्षयः । अधस्तादसुरास्तद्वत्द्विषन्तोऽन्यो-न्यमाश्रिताः । ततः समन्तात् परिधिः क्रमेणायं महा-णवः । मेखलेव स्थितो धात्र्या देवासुरविभागकृत् ।समन्तान्मेरुमध्यात् तु तुल्यभागेषु तोयधेः । द्वीपेषुदिक्षु पूर्वादिनगर्य्यो देवनिर्मिताः । भूवृत्तपादे पूर्वस्यांयमकोटीति विश्रुता । भद्राश्ववर्षे नगरी स्वर्णप्राकार-तोरणा । याम्यायां भारते वर्षे लङ्का तद्वतन्महापुरी ।पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्त्तिता । उदक्सिद्धपुरी नाम कुरुवर्षे प्रकीर्त्तिता । तस्यां सिद्धा म-हात्मानो निवसन्ति गतव्यथाः” सू० सि० ।(१) “एतत् प्रागुक्तं ब्रह्मणाघिष्ठितं सुवर्णाण्डं सुषिरमवका-शात्मकं तत्रावकाशे इदं जगत् भूर्भुवादिकं भूर्भुवःस्व-र्गात्मकमवस्थितं न बहिः । नन्वण्डस्य गोलाकारत्वेना-न्तरवकाशात्मकत्वमसम्भवर्तात्यत आह कटाहद्वितय-स्येति । कटाहोऽर्द्धगोलाकारं सावकाशं पात्रं तस्यद्वितयं द्वयं समं तस्य । एवकारो न्यूनाधिकव्यवच्छेद-कार्थः । सम्पुटमाभिमुख्येन मिलितं गोलकाकृतिर्मोला-कारः स्यात् । तथाच न क्षतिः” रङ्गना० ।“भूभूधरत्रिदशदानवमानवाद्या येऽयाश्च धिष्ण्यगगने-चरचक्रकक्षाः । लोकव्यवस्थितिरुपर्युपरि प्रदिष्टा ब्र-ह्माण्डभाण्डजठरे तदिदं समस्तम्” सि० शि० । इदानी-मन्योदितं ब्रह्माण्डमानं पूर्वं कथितमपि प्रसङ्गादनुव-दति स्म” प्रमिता० । “कोटिघ्नैर्नखनन्दषट्कनखभूभूमृद्भु-जङ्गेन्दुभि १८७१२०६९२०००००००० र्ज्योतिः शास्त्रविदोवदन्ति नभसः कक्षामिमां योजनैः । तद्ब्रह्माण्डकटाहसंपु-टतटे केचिज्जगुर्वेष्ठनं केचित् प्रोचुरदृश्यदृश्यकगिरिं पौरा-णिकाः सूरयः । करतलकलितामलकवदमलं सकलंविदन्ति ये गोलम् दिनकरकरनिकरनिहततमसो नभसः सपरिधिरुदितस्तैः । ब्रह्माण्डमेतन्मितमस्तु नो वा कल्पेग्रहः क्रामति योजनानि । यावन्ति पूर्वैरिह तत्प्रमाणंप्रोक्तं खकक्षाख्यमिदम् मतं नः” । प्रमाणशून्यत्वात् प्रयो-जनाभावाच्चास्माभिर्ब्रह्माण्डमानं न कथितमित्यर्थः” प्रमि० ।दानार्थकल्पिते महादानान्तर्गते ब्रह्माण्डात्मकस्वर्णादि-घटिते २ पदार्थे तत्स्वरूपादि हेमा० दा० ख० मत्स्यपु० उक्तंयथा “अथातः संप्रबक्ष्यामि ब्रह्माण्डं विधिपूर्वकम् ।यच्छ्रेष्टं सर्वभूतानां महापातकनाशनम् । पुण्यंदिनमथासाद्य तुलापुरुषदानवत् । ऋत्विग्मण्ड-पसम्भारभूषणाच्छादनादिकम् । लोकेशावाहनं तद्वदधि-वासनकं तथा” तुलापुरुदानवदिति, कालदेशवृद्धि-श्राद्धशिवादिपूजाब्राह्मणवाचनगुरुऋत्विग्वरणमधुपर्कदा-नकुण्डमण्डपवेदिकासम्भारलोकेशावहनाधिवासनादि सर्वमत्स्यपुराणोक्ततुलापुरुषदानविहितं वेदितव्यमित्यर्थः ।“कुर्य्याद्विंशत्पलादूर्द्ध्वनासहस्राच्च शक्तितः । शकल-द्वयसंयुक्तं ब्रह्माण्डं काञ्चनं बुधः” । शकलद्वयं, खण्डद्व-यम् । तल्लक्षणन्तु ब्रह्माण्डपुराणे “कुम्भच्छाया भवेद्-यादृक् प्रतीच्यां दिशि चन्द्रमाः । उदितः शुक्लपक्षादौवपुरण्डस्य तादृशमिति” कुम्भच्छाया इति, कुम्भच्छायाग्रीवाहीनकुम्भादिजेत्यवधेयम् । “दिग्गजाष्टकसंयुक्तं ष-ड्वेदाङ्गसमन्वितम् । लोकपालाष्टकोपेतं मध्यस्थितचतु-र्मुखम् । शिवाच्युतार्कशिखरमुमालक्ष्मीसमन्वितम् ।वस्वादित्यमरुद्गर्भं महारत्नसमन्यितम्” । अथैतेषां दिग्-गजप्रभृतीनां क्रमेण लक्षणाण्युच्यन्ते आदित्यपुराणे“शुभ्राभश्च चतुर्दंष्ट्रः श्रीमानैरावती गजः । पुष्पदन्तोवृहत्सास्नः षड्दन्तः पुष्पदन्तवान् । सामान्यपजरूपेणशेषा दिक्वरिणः स्मृताः” । तन्नामानि शास्त्रान्तरे“ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तःसार्वभौमः सुप्रतीकश्च दिग्गजाः” । वेदाङ्गानि स्कन्द-पुराणे “शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषा-ञ्चिति । छन्दश्चेति षडेतानि वेदाङ्गानि प्रचक्षते ।मूर्त्तानि ब्रह्मणो लोके साक्षसूत्राणि तानि तु ।द्विजालिभिः शुभास्यानि वामे दधति कुण्डिकाम्” ।तानि च पश्चिमदिशि वेदसन्निधौ निवेशनीयानि दिग्वि-शेषानाम्नानात् प्रधानं नीयमानं हि तत्राङ्गान्यपकर्ष-तीतिन्यायात्, वक्ष्यते च, “पश्चिमे चतुरोवेदानिति” ।लोकपालरूपाण्याह विश्वकर्मा “चतुर्दन्तो गजारूढोवज्रपाणिः पुरन्द्ररुः । प्राचीपतिः प्रकर्त्तव्यो नाना-भरणभूषितः । पिङ्गभ्रूश्मश्रुकेशाक्षः पीनाङ्गजठरो-ऽरुणः । छागस्थः साक्षसूत्रश्च सप्तार्चिः शक्तिधारकः ।ईषत्पीनो यमः कार्य्यो दण्डहस्तो विजानता । रक्त-दृक् पाशधृक् क्रुद्धो निरृतिर्विकृताननः । पुंस्थिताघड्गहस्तश्च भूतवान् राक्षसावृतः । वरुणः पाशभृत्सौम्यः प्रतीच्यां मकराश्रयः । धावद्धरिणपृष्टस्थोध्वजधारी समीरणः । दशाश्वरथगः सोमो गदापा-णिर्वरप्रदः” । “शशकवाहनः” इत्यागमान्तरम् । “पूर्वोत्तरेत्रिनेत्रश्च वृषभस्थस्त्रिशूलभृत् । कपालपाणिश्चन्द्रार्द्ध-भूषणः परमेश्वरः” । चतुर्मुखरूपन्तु विष्णुधर्मोत्तरात्“पद्मपत्रासनस्थश्च ब्रह्मा कार्य्यश्चतुर्मुखः । अक्षमाला-स्रजं बिभ्रत् पुस्तकञ्च कमण्डलुम् । वासः कृष्णाजिनंतस्य पार्श्वे हंसस्तथैव च” । शिवलक्षणमुक्तं वायुपुराणे“पञ्चवक्त्रो वृषारूढः प्रतिवक्त्रं त्रिलोचनः । कपाल-शूलखट्वाङ्गी चन्द्रमौलिः सदाशिवः” । विष्णुलक्षण-मुक्तं तुलापुरुषदाने । सूर्य्यलक्षणमुक्तं विष्णुधर्मोत्तरे“रविः कार्य्यः शुभश्मश्रुः सिन्दूरारुणसुप्रभः । पद्मा-सनः पद्मकरो भूषितो रशनाधरः” । उमालक्ष्मीसमन्वित-मित्यत्र, शिवाच्युतयोः सन्निहिते उमालक्ष्म्यौ विधेयौ ।उमालक्षणमुक्तं देवीपुराणे “गौरीं शङ्खेन्दुवर्णाभां सर्व-रीशनिषेविताम् । वृत्तपद्मासनासीनां साक्षमूत्रकमण्ड-लुम् । वरदोद्यतरूपाद्यां सर्वमाल्यफलप्रियाम्” । वर-दोद्यतरूपाद्यां, वरदाभयपाणिकामित्यर्थः । लक्ष्मी-लक्षणमुक्तं पञ्चरात्रे “पद्मासनस्थां कुर्वीत श्रियं त्रै-लोक्यमातरम् । गौरवर्णां सुरूपाञ्च सर्वालङ्कारभूषि-ताम् । रौक्मपद्मकरव्यग्रां वरदां दक्षिणेन तु” । वस्वा-दित्यरूपाणि, नारदीये, “प्रसन्नवदनाः सौम्या वरदाःशक्तिपाणयः । पद्मासनस्था द्विभुजाः कर्त्तव्या वसवःसदा । पद्मासनस्था द्विभुजाः पद्मगर्भान्तकान्तयः ।करादिस्कन्धपर्य्यन्तनालपङ्कजधारिणः । अधःसंस्थित-मेषादिराशयः प्रावृताङ्घ्रिकाः । इन्द्राद्या द्वादशादि-त्यास्तेजोमण्डलमध्यगाः” तथा । वायुतुल्येन रूपेणमरुतो नाम देवताः” । कर्त्तव्या इति शेषः, वस्वादि-नामानि, तुलापुरुषोक्तानि वेदितव्यानि । महारत्न-समन्वितमिति, महारत्नानि परिभाषायामुक्तानि, अ-नन्तमिथुनान्वितमिति क्वचित्पाठः । “फणासप्तान्वितो-ऽनन्तः पृथ्वी स्त्रीरूपधारिणीत्यनन्तमिथुनम् । अथप्रकृतमुच्यते” वितस्तेरङ्गुलशतं यावदायामविस्तरम् । कौशे-यवस्त्रसंवीतं तिलद्रीणोपरि न्यसेत् । तथाष्टादश धा-न्यानि समन्तात्परिकल्पयेत्” । वितस्तेरङ्गुलशतमिति, द्वादशाङ्गुलमारभ्याङ्गुलशतंयावच्छक्त्यनुसारेण कार्य्य-मित्यर्थः । द्रोणमानमष्टादश धान्यानि च परिभाषायांद्रष्टव्यानि । स च तिलद्रोणो वेदिकायां लिखितचक्र-स्योषरि स्थापनीयः । “पूर्वेणानन्तशयनं प्रद्युम्नं पूर्व-दक्षिणे । प्रकृतिर्दक्षिणे देशे संकर्षणमतः परम् । पश्चिमेचतुरोवेदाननिरुद्धमतः परम् । अग्निमुत्तरतो हैमंवासुदेवमतः परम् । समन्ताद्गुणपीठस्थानर्चगेत् काञ्च-नान् बुधः । स्थापयेद्वस्त्रसंवीतान् पूर्णकुम्भान् दशैवतु” । पूर्वेणेत्यादि, ब्रह्माण्डात् पूर्वदेशे अनन्तशयनंशेषशायिनं गुण (सत्त्वादि) पीठे स्थापयेत्, तन्मूर्त्तिलक्षणंविष्णुधर्मोत्तरात् “देवदेवश्च कर्त्तव्यः शेषसुप्तश्चतुर्भुजः ।एकपादोऽस्य कर्त्तव्यो लक्ष्म्युत्सङ्गगतः प्रभोः । तथाऽपरश्चकर्त्तव्यः शेषभोगाङ्कसंस्थितः । एकोभुजोऽस्य कर्त्त-व्यस्तत्र जानौ प्रसारितः । कर्त्तव्यो नाभिदेशस्थ-स्तथा तस्यापरः करः । तथैवान्यः करः कार्य्यो देवस्यतु शिरोधरः । सन्तानमञ्जरीधारो तथाचास्य करः परः ।नाभिसम्भूतकमले सुखासीनः पितामहः । नाललग्नौतु कर्त्तव्यौ पद्मस्थौ मधुकैटभौ । शङ्खचक्रगदादीनिमूर्त्तानि परितो न्यमेदिति” । प्रद्युम्नलक्षणं पञ्चरात्रा-दिषु “दक्षिणोर्द्धकरे पद्मं दद्याच्छङ्खमधः करे । च-क्रमूर्द्धे ततो वामे गदां दद्यात् तथा द्विज! । चापेषु-धृम्वा प्रद्युम्नो रूपवान् विश्वमीहनः” इति । अत्रयद्यपि प्रकृतेरव्यक्तरूपतया विधानमशक्यं तथापि ल-क्ष्म्यादिशब्दव्यपदेश्यं सुकरमस्ति तद्रूपमित्यतस्तदन्यतम-रूपनिर्माणमेव न्याय्यम् । तदुक्तं मार्कण्डेयपुराणे“सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी । मातु-लङ्गं गदां खेटं पानपात्रञ्च बिभ्रती । नागं योनिञ्चलिङ्गञ्च विभ्रती नृप! मूर्द्धनीति” । संकर्षणरूपम्विष्णुधर्मोत्तरे “वासुदेवस्य रूपेण कार्य्यः संकर्षणः प्रभुः ।स तु शुक्लवपुः कार्य्यो नीलवासा यदूत्तम! । गदास्थानेच सुसलञ्चक्रस्थाने च लाङ्गलमिति” । वेदमूर्त्तयो भूत-घटे वक्ष्यन्ते । अनिरुद्धरूपं नारदीये । “कृष्णं चतु-र्भुजं दक्षे शरं खड्गं तदुत्तरे । धनुःखेटधरं वीर-मनिरुद्धं प्रचक्षते” । अग्निलक्षणमुक्तम् । वासुदेवरूपमपिनारदीये “वासुदेवः शिवः शान्तः सिताभश्च चतुर्भुजः ।योगमूर्द्धोर्द्धशङ्खश्च हृद्देशार्पितहस्तकः । धारयेदुत्तरेचक्रं करे वै दक्षिणे गदामिति” । एते च देवताविशेषा, ब्रह्माण्डनिर्माणकॢप्तसुवर्णात् पृथक् सुवर्णेणैव घट-नीयाः ब्रह्माण्डस्य किल विंशतिपलात्पभृति पलमह-स्राववधिरिह नियमः, पुराणेषु दृश्यते ततोऽवकृष्य-माणकाञ्चने तस्मिन् न्यूनसंख्यत्वादयथावद्विहितत्वमा-पद्यते । न च दिग्गजाष्टकसंयुक्तं लोकपालोपेतमित्या-दिना एक एव तावद्भिरङ्गैरङ्गी निष्पाद्यत इति ब्र-ब्राण्डवत्कॢप्तसुवर्णेनैव दिग्गजादिप्रतिमानिर्मितौन कश्चिद्बाध इति वाच्यं, “कृञ्चिनान् कारयेदिति” पुनःकाञ्चनोपदेशानार्थक्यापत्तेः । अश्रूयमाणपरिमाणानां प्र-तिमानामङ्गुष्ठपर्वप्रभृतिवितस्तिपर्य्यन्तं यथाशक्ति परिमाणंकल्पनीयम् । “पूर्णकुम्भान् स्थापयेदित्यत्र समन्तादितियोज्यम् । “दर्शव घेनवो देया सहेमाम्बरदोहनाः । पा-दुकीपानहच्छत्रचामरासनदर्पणैः । भक्ष्यभोज्यान्नदीपेक्षु-फलमाल्यानुलेपनैः । होमाधिवासनान्ते च स्थावितीवेदपुङ्गवैः । इत्थमुच्चारयेन्मन्त्रं त्रिःकृत्वाथ प्रदक्षिणम्” ।सहेमाम्बरदोहना इति, हेमशृङ्ग्यः ताम्रदोहनाः स-वस्त्राः पार्श्वतो दक्षिणार्थमुपकल्पनीयाः । तत्राचार्य्यायद्वे, ऋत्विग्भ्योऽष्टौ संप्रदेया, जापकादीनां अन्यैवयथाशक्ति दक्षिणेति, । भविष्योत्तरे तु “ज्ञेयं निष्कशतंपार्थेत्यादिना सुवर्णमेव दक्षिणार्थमुपकल्पनीयमित्युक्तं, श्राद्धाधिवासनदिनादन्येद्युरग्निकुण्डेषु ऋत्विगुपवेशना-दिकर्मशेषसमाप्तौ तुलापुरुषदानवद्विहितायां, पूर्ववदेवस्रापितः शुक्लमाल्याम्बरधरो गृहीतकुसुमाञ्जलिर्यजमानोब्रह्माण्डं त्रिःप्रदक्षिणीकृत्य मन्त्रमुच्चारयेत् । मन्त्रः । “नभो-ऽस्तु विश्वेश्वर! विश्वधामन्! जगत्सवित्रे भगवन्नमस्ते ।सप्ताधिलोकामरभूतलेन गर्भेण सार्द्धं वितराभिरक्षाम् ।ये दुःखितास्ते सुखिनो भवन्तु प्रयान्तु पापानि चरा-चराणाम् । त्वद्दानशस्त्राहतपातकानां ब्रह्माण्डदोषाःप्रलय व्रजन्तु । एवं प्रणम्यामरविश्वगर्भं दद्याद् द्विजेभ्योदशधा विभज्य । भागद्वयं तत्र गुरोः प्रकल्प्य समम्भजे-च्छेषमतः क्रमेण” । दानवाक्यं तुलापुरुषवद्बेदितव्यंतच्च दशधा विभज्य गुरोर्भागद्वयं प्रकल्प्य अवशिष्टाष्ट-भागानामेकैकं भागं त्रिधा विभज्य चतुर्विंशतिसंख्येभ्यऋत्विगादिभ्यः समं दद्यात्, तदनुज्ञयान्येभ्योऽपि ब्राह्मणेभ्यो दद्यात् । “स्वल्पं होमं गुरुरेक एव कुर्य्यादथैकाग्नि-विधानयुक्त्या । स एव संपूज्यतमोऽल्पवित्तैर्यथोक्तवस्त्रा-भरणादिकेन” । विंशतिपलादारभ्य पलसहस्रावधिद्रव्येब्रह्माण्डे सहस्रतदर्द्धादित्युत्तममध्यमादित्रैविध्यकल्प-नायां कनीयोभागस्याल्पत्वमवधेयं, विंशतिपलनिर्मित-स्यैवालपत्वमित्येके उक्तविंशतिपलादर्वाक् यथाशक्ति-विधान खल्पत्वमवगन्तव्यमिति केचित् । एकाग्निविधानम्एकस्मिन्नेव कुण्डे होमकरणम् कुण्डमपि वरुणदिग्-भागस्थितं वृत्ताकारञ्च कार्य्यं तदेतत्परिभाषायामुपपा-दितम् । अथ पुण्याहवाचने कृते देवतावेदीसमीपं गत्वापूर्ववद्यजमानेन देवतापूजायां विहितायामाचार्य्यो विस-र्जनं विदध्यात् । “इत्थं य एतदखिलं पुरुषोऽत्र कुर्य्या-दब्रह्माण्डदानमधिगम्य महद्विमानम् । निर्धूतकल्मष-विशुद्धतनुर्मुरारेरानन्दकृत् पदमुपैति सहाप्सरोभिः ।सन्तारयेत् पितृपितामहपुत्रपौत्रबन्धुप्रियातिथिकलत्र-शताष्टकं सः । ब्रह्माण्डदानशकलीकृतपातकौघमानन्द-येच्च जननीकुलमप्यशेषम् । इति पठति शृणोति वा यएतत् सुरभवनेषु गृहेषु धार्मिकाणाम् । मतिमपि चददाति मोदते सोऽमरपतिभवने सहाप्सरोभिः” ।“राजोवाच विधिं ब्रह्माण्डदानस्य कृत्वा यं मोक्ष-भाग्भवेत् । कालं देशं द्विजं तीर्थं सर्वमेत-द्वदस्व मे । कृतेन येन सर्वस्य फलभागी भवा-म्यहम् । कुत्सितस्यास्य भावस्य मोक्षः स्यादचिराच्च मे ।वशिष्ठ उवाच “एवं श्रुत्वा ततो राजन्! पुरोधास्तस्यतं द्विजः । ब्रह्माण्डं कारयामास सौवर्णं सर्वधातुभिः ।पीठं निष्कसहस्रेण पद्मं तत्र प्रकल्पयेत् । तत्र ब्रह्मातस्य मध्ये पद्मरागैरलङ्कृतः । सावित्र्या चैव गायत्र्याऋषिभिर्मुनिभिः सह । नारदाद्यैः सुतैः सर्वैरिन्द्राद्यैश्चसुरैस्तथा । सौवर्णविग्रहाः सर्वे ब्रह्मणस्तु पुरःसराः ।वाराहरूपो भगवान् लक्ष्म्या सह सनातनः । नीला-न्मरकतांश्चैव भूषायान्तस्य कारयेत् । रजतस्य विशुद्धस्यदेहं रुद्रस्य कारयेत् । गोमेदकैस्तस्य शोभाङ्कारयेदत्रबुद्धिमान् । मौक्तिकैश्चापि सोमस्य शोभां वल्कैर्दिवा-करैः” । सावित्रीगायत्र्यौ तु, व्रह्मणः पार्श्वभागे स्थाप-नीयौ । तदाह नारदः “सावित्री दक्षिणे पार्श्वे गायत्रीनाम वामतः । विलोकयन्त्यौ ब्रह्माणं साक्षसूत्रकमण्ड-लुम्” । ऋषयः सप्त गोतमाद्याः तदुक्तमादित्यपुराणे “गो-तमश्च भरद्वाजो विश्वामित्रश्च काश्यपः । जमदग्नि-र्वशिष्ठोऽत्रिः सप्त वैवस्वतेऽन्तरे” । सप्तर्षिलक्षणमाहयमः “पप्तर्षयस्तु जटिलाः कमण्डल्वक्षसूत्रिणः । ध्यान-निष्ठा वशिष्ठस्तु कार्य्यो भार्य्यासमत्वितः” । मुनयोवानप्रस्थाः, नारदाद्यैरिति तेषां विशेषणम्” । तानाहमनुः “अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सदुस्तरम् ।पतीन् प्रजानामसृजं महर्षीनादितो दश । मरीचि-मत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वशिष्ठञ्चभृगुन्नारदमेव च” । तल्लक्षणमाह विश्वकर्मा “जटिलाःश्मश्रुलाः शान्ता दशाऽऽधमनिसन्तताः । कुसुम्भाक्षधराःकार्य्या मुनयो द्विभुजाः सदा । तेषु सव्यभुजामूलश्लिष्ट-चीरस्तु नारदः । कर्पूरगौरदेहश्च साक्षसूत्रकमण्डलुः” ।इत्यादिरूपाण्यपि प्रागभिहितानि । वाराहरूपं विष्णु-धर्मोत्तरे “वाराहरूपः कार्यस्तु शेषोपरिगतः प्रभुः ।शेषश्चतुर्भुजः कार्य्यश्चारुरत्नफणान्वितः । कर्त्तव्यौ सीर-मुसलौ करयोस्तस्य यादव! । सर्परूपश्च कर्त्तय्यस्तथैवरचिताञ्जलिः । आलीटस्थानसंस्थानस्तत्पृष्ठे भगवान्भवेत् । वामारत्निगता तस्य योषिद्रूपा वसुन्धरा ।नमस्कारपरा तस्य कर्त्तव्या द्विभुजा शुभा ।यस्मिन् भुजे धरा देवी तत्र शङ्खः करे भवेत् । अन्येतस्य कराः कार्य्याः पद्मचक्रगदाधराः । पद्मासनस्थांकुर्वीत श्रियं त्रैलोक्यमातरम् । गौरवर्णां सुरूपाञ्चसर्वालङ्कारभूषिताम् । रौक्मपद्मकरव्यग्रां वरदां दक्षिणेनतु” । रुद्ररूपं प्रागभितं ग्रहलक्षणानि तद्वर्णाश्च नवग्रह-दाने वक्ष्यन्ते । सर्ववर्णानि ग्रहसमानवर्णानि, रत्नानिभूषणार्थं दापयेदित्यर्थः । सर्वधातुभिः ब्रह्माण्डं कर्त्त-व्यमित्युक्तं, तत्र सुवर्णस्य पीठनिर्माणादिविनियोगमभि-धायेदानीं धात्वन्तरैः कर्त्तव्यं तदुच्यते “पीठात् सप्तगुणंरौप्यं रौप्यात्ताम्रं तथाविधम् । ताम्रात् सप्तगुणं कार्य्यं कांस्यमत्र नराधिव! । त्रपुणः परतः सीसंतावल्लोहं च कारयेत् । सप्तद्वीपाः समुद्राश्च सप्तैव कुल-पर्वताः । अनया संख्यया ज्ञात्वा निपुणैः शिल्पिभिःकृताः” । तथाविधं सप्तगुणमित्यर्थः सप्तद्वीपा इत्यादिएतेषामेकैकधातुना एकैकं द्वीपं समुद्रं कुलाचलञ्च रचये-दित्यर्थः । “यादसानि च भूतानि राजतान्येव कार-येत् । आरण्यानि च सत्त्वानि सौवर्णानि च कारयेत् ।वृक्षान् वनस्पतींश्चात्र तृणवल्लीः सवीरुधः” । याद-सानि, जलसम्भवानि, पुष्पफलवन्तो वृक्षाः अपुष्पाःफलिनोवनस्पतयः, वीरुधोगुच्छगुल्मादयः । “सर्वं प्र-कल्प्य विधिवत्तीर्थे देयं विचक्षणैः । कुरुक्षेत्रे गयायांच प्रयागेऽमरकण्ठके । द्वारवत्यां प्रभासे च गङ्गाद्वारेच पुष्करे । तीर्थेष्वेतेषु वै देयं ग्रहणे सोमसूर्य्ययोः ।दिमच्छेदेषु सर्वेषु अयने दक्षिणोत्तरे । व्यतीपातेबहुगुणं विषुवे च विशेषतः । दातव्यमेतद्राजेन्द्र! वि-चारं नैव कारयेत् । कालाग्निहीत्रिणं विप्रं सुरू-पञ्च गुणान्वितम् । सपत्नीकं च संपूज्य भूषयित्वा वि-भूषणैः । पुरोहितं मुख्यतमं कृत्वान्यांश्च तथर्त्विजः ।चतुर्विंशद् गुणोपेतान् सपत्नीकान्निमन्त्रितान् । अहता-म्बरसुच्छन्नान् स्रग्विणः सुविभूषितान् । अङ्गुलीयकर-त्नानि कर्णवेष्टांश्च दापयेत् । एवंविधांश्च संपूज्य तेषामग्रेस्वयं स्थितः । अष्टाङ्गप्रणिपातेन प्रणन्य च पुनः पुनः ।पुरोहिताय पुरतः कृत्वा वैकरसंपुटम् । यूयं वै ब्रह्मणाधात्रा, मैत्रत्वेनानुगृह्यताम् । सौमुख्येनेह भवताम्भवेत्पूतोनरः स्वयम् । भवतां प्रोतियोगेन स्वयं प्रीतः पिता-महः । ब्रह्माण्डेन तु दत्तेन तेषां प्रीतो जनार्दनः । पिना-कपाणिर्भगवान् शक्रश्च त्रिदशेश्वरः । एते वै तोषमायान्तिअनुध्याता द्विजोत्तमैः । एव स्तुत्वा ततो राजाब्राह्मणान् वेदवारमान् । ब्रह्माण्डं गुरवे प्रादात् स-विधानं पुनः पुनः । सर्वकामैस्ततस्तप्तो ययौ स्वर्गंनराधिपः । तेनापि गुरुणा तच्च विभक्तं ब्राह्मणैःसह । दत्तस्तैरपि चान्येभ्यो ब्रह्माण्डांशो नराधिप! ।ब्रह्माण्डं भूमिदानं च ग्राह्यं नैकेन तद्भवेत् । गृह्ण-न्दीषमवाप्नोति ब्रह्महत्यां न संशयः । सर्वेषाञ्चैवप्रत्यक्षं दातव्यं तन्नराधिप! । दीयमानञ्च पश्यन्तितेऽपि पूता भवन्ति हि । दर्शनादेव ते पूता भवेयुर्नात्रसंशयः” । पद्मपुराणोक्तस्तद्विधिर्यथा“शृणु वत्स! प्रवक्ष्यामि ब्रह्माण्डाख्यं पुरातनम् ।तच्च द्वादशसाहस्रं भाविकल्पकथायुतम् । प्रक्रियाख्यो १ऽनषङ्गाख्य २ उपोद्घात ३ स्तृतीयकः । चतुर्थ उपसंहारः ४पादाश्चत्वार एव हि । पूर्वपादद्वयं पूर्वो भागोऽत्र समु-दाहृतः । तृतीयो मध्यमो भागश्चतुर्थस्तूत्तरो मतः ।तत्र पूर्वभागे प्रक्रियापादे “आदौ कृत्यसमुद्देशो नैमिषा-ख्यानकं ततः । हिरण्यगर्भोत्पत्तिश्च लोककल्पनमेव च ।एष वै प्रथमः पादो द्वितीयं शृणु मानद” । पूर्वभागेअनुषङ्गपादे “कल्पमन्वन्तराख्यानं लोकज्ञानं ततः परम् ।मानससृष्टिकथनं रुद्रप्रसववर्णनम् । महादेवविभूतिश्चऋषिसर्गस्ततःपरम् । अग्नीनां विचयश्चाथ कालस-द्भाववर्णनम् । प्रियव्रताचयोद्देशः पृथिव्यायामवि-स्तरः । वर्णनं भारतस्यास्य ततीऽन्येषां निरूपणम् ।जम्ब्वादिसप्तद्वीपाख्या ततोऽधीलोकवर्णनम् । ऊर्द्ध्वलोका-नुकथनं ग्रहचारस्ततःपरम् । आदित्यव्यूहकथनं देव-ग्रहानुकीर्त्तनम् । नीलकण्ठाह्वयाख्यानं महादेवस्य वैम-वम् । अमावास्यानुकथनं युगतत्त्वनिरूपणम् । यज्ञप्रवर्त्तनंचाथ युगयोरन्त्ययोः कृतिः । यगप्रजालक्षणञ्च ऋषि-प्रवरवर्णनम् । वेदानां व्यसनाख्यानं स्यायम्भुवनिरूपणम् ।शेषमन्वन्तराख्यानं पृथिवीदोहनन्ततः । चाक्षुषेऽद्यतनेसर्गो द्वितीयोऽङ्घ्रिः पुरोदले” । मध्यभागे उपोद्घातिपादे“अथोपोद्घातपादे तु सप्तर्षिपरिकीर्त्तनम् । प्राजा-पत्यचयस्तस्माद्देवादीनां समुद्भवः । ततो जयाभिव्या-हारौ मरुदुत्पत्तिकीर्त्तनम् । काश्यपेयानुकथनम् ऋषि-वंशनिरूपणम् । पितृकल्पानुकथनं श्राद्धकल्पस्ततः-परम् । वैवस्वतसमुत्पत्तिः सृष्टिस्तस्य ततः परम् । मनु-पुत्राचयश्चातो गान्धर्वस्य निरूपणम् । इक्ष्वाकुवंशकथनंवंशोऽत्रेः सुमहात्मनः । अमावसोराचयश्च रजेश्चरित-मद्भुतम् । ययातिचरितञ्चाथ यदुवंशनिरूपणम् । कार्त्त-वीर्य्यस्य चरितं जामदग्न्यं ततः परम् । कृष्णिवंशानु-कथनं सगरस्याथ सम्भवः । भार्गवस्यानुचरितं तथा-र्य्यकबधाश्रयम् । सगरस्याथ चरितं भार्गवस्य कथापुनः । देवासुराहवकथा कृष्णाविर्भाववर्णनम् । इनस्यच स्तवः पुण्यः शुक्रेण परिकीर्त्तितः । विष्णुमाहात्म्य-कथनं बलिवंशनिरूपणम् । भविष्यराजचरितं संप्राप्तेऽथकलौ युगे । एवमुद्द्वातपादाऽयं तृतोयो मध्यमे दले” ।उत्तरभागे उपसंहारपादे “चतुर्थमुपसंहारं वक्ष्ये खण्डेतथोत्तरे । वैवस्वतान्तराख्यानं विस्तरेण यथातथम् ।पूर्वमेव समुद्दिष्टं संक्षेपादिह कथ्यते । भविष्याणां मनू-नाञ्च चरितं हि ततः परम् । कल्पप्रलयनिर्देशः काल-मानं ततः परम् । लोकाश्चतुर्दश ततः कथिता मान-लक्षणैः । वर्णनं नरकाणाञ्च विकर्माचरणैस्ततः ।मनीमयपुराख्यानं लयः प्राकृतिकस्ततः । शैवस्याथ पुर-स्यापि वर्णनञ्च ततः परम् । त्रिविधाद्गुणसम्बन्धा-ज्जन्तूनां कीर्त्तिता गतिः । अनिर्देश्याप्रतर्कस्य ब्रह्मणःपरमात्मनः । अन्वयव्यतिरेकाभ्यां वर्णनं हि ततः परम् ।इत्येष उपसंहारः पादो वृत्तः स चोत्तरः । चतुष्पादंपुराणं ते ब्रह्माण्डं समुदाहृतम् । अष्टादशमनौपम्यंसारात् सारतरं द्विज! । ब्रह्माण्डञ्च चतुर्लक्षं पुराण-त्वेन पठ्यते । तदेव व्यस्य गदितमत्राष्टादशधा पृथक् ।पाराशर्य्येण मुनिना सर्वेषामपि मानद! । वस्तुद्रष्ट्राथतेनैव मुनीनां भावितात्मनाम् । मत्तः श्रुत्वा पुराणानिलोकेभ्यः प्रचकाशिरे । मुनयो धर्मशीलास्ते दीनानुग्रह-कारिणः । मया चेदं पुराणन्तु वशिष्ठाय पुरोदितम् ।तेन शक्तिसुतायोक्तं जातूकर्णाय तेन च । व्यासो लब्ध्वाततश्चैतत् प्रमञ्चनमुखोद्गतम् । प्रमाणीमत्य लोके-ऽस्मिन् प्रावर्त्तयदनुत्तमम्” । तत्फलश्रुतिः “य इदंकीर्त्तयेद्वत्स! शृणोति च समाहितः । स विधूयेहपापानि याति लोकमनामयम् । लिखित्वैतत्पुराणन्तु स्वर्णसिंहासनस्थितम् । पात्रेणाच्छादितं यस्तुब्रह्मणाय प्रयच्छति । स याति ब्रह्मणा लोकं नात्रकार्य्या विचारणा । मरीचे! ऽष्टादशैतानि मया प्रोक्तानियानि ते । पुराणानि तु सक्षेपाच्छ्रोतव्यानि च विस्त-रात् । अष्टादश पुराणानि यः शृणोति नरोत्तमः ।कथयेद्वा विधानेन नेह भूयः स जायते । सूत्रमेतत्पुराणानां यन्मयोक्तं तवाधुना । तन्नित्यं शीलनीयंहि पुराणफलमिच्छता । न दाम्भिकाय पापाय देव-गुर्वनुसूयवे । देयं कदापि साधूनां द्वेषिणे न शठाय च ।शान्ताय रागिचित्ताय श्रूश्रुषाभिरताय च । निर्सत्सरायशुचये देय सद्वैष्णवाय च” नारदीयपु० ४ पा० १०९ अ० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
