| YouTube Channel

व्रह्माणी (vrahmANI)

 
वाचस्पत्यम्
Sanskrit
ब्र(व्र)ह्माणी
पु०
ब्र(व्र)ह्माणम् आनयति जीवयति अन-णिच्--अण् पूर्व० णत्वम् ब्रह्मशक्तौ “हंसयुक्ते विमा-नस्था साक्षसूत्रकमण्डलुः आयाता ब्रह्मणः शक्तिःब्रह्माणी साऽभिधीयते” इति देवीमा० “ब्रह्माणी ब्रह्म-जननाद्” देवीपु० ब्रह्मशब्दात् ङीष् आनङ्चेति त्वपाणिनीयम् रेणुकानामगन्धद्रव्ये रत्नमा० ।२ राजरीतौ राजनि० ब्रह्मणोऽर्द्धशरीरादुत्पन्नायांशतरूपायाम् “ततः संजपतस्तस्य भित्त्वा देहमकल्म-षम् स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरूपवत् शतरूपा चसा ख्याता सावित्री निगद्यते सरस्वत्यथ गायत्रीब्रह्माणीत्युच्यते सा” मत्स्यपु० अ०