| YouTube Channel

व्रह्महत्या (vrahmahatyA)

 
वाचस्पत्यम्
Sanskrit
ब्र(व्र)ह्महत्या स्त्री० हन--क्यप् त० विप्रहनने तस्य म-हापातकत्वमुक्तं मनुना “ब्रह्महत्या सुरापानं स्तेयं गुर्व-ङ्गनागमः महान्ति पातकान्येव संसर्गश्चापि तैः सह”तदधिष्ठातृस्वरूपमुक्तं ब्रह्मवै०
पु०
जन्म० ४७ अ० यथा“रक्तवस्त्रपरीधाना वृद्धा स्त्रीवेशधारिणी सप्तताल-प्रमाणा सा शुष्ककण्ठौष्ठतालुका ईशाप्रमाणदशनामहाभीतञ्च कातरम् धावन्तं परिधावन्ती बलिष्ठाहत-चेतनम् खङ्गहस्ता हतास्त्रं तं दयाहीना मूर्च्छि-तम् इन्द्रो दृष्ट्वा तां घोरां स्मारं स्मारं गुरोःपदम् विवेश मानससरो मृणालसूक्ष्मसूत्रतः तत्रगन्तुं शक्ता सा ब्रह्मणः शापकारणात्” वृत्रासुरवधनिमित्तकब्रह्महत्यापनोदनार्थं शक्रेणाश्वमेधे-कृते तस्या विभज्य स्थानविशेषे संक्रामणकथा भा० उ०उ० १२ अ० यथा “तत्राश्वमेधः सुमहान् महेन्द्रस्यमहात्मनः ववृते पावनार्थं वै ब्रह्महत्यापहो नृप! ।विभज्य ब्रह्महत्यां तु वृक्षेषु नदीषु पर्वतेषुपृथिव्याञ्च स्त्रीषु चैव युधिष्ठिरः!” आतिदेशिकब्रह्महत्याःकतिचित् ब्रह्मवै० प्रकृ० २७ अ० उक्ता यथा“श्रीकृष्णे तदर्च्चायां तन्मय्यां प्रकृतौ तथा शिवेच शिवलिङ्गे वा सूर्य्ये सूर्य्यतनौ तथा गणेशे वातदर्च्चायामेवं सर्वत्र सुन्दरि! यः करोति भेदबुद्धिंब्रह्महत्यां लभेत् तु सः स्वगुरौ स्वेष्टदेवेषु जन्मदा-तरि मातरि करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत् तुसः वैष्णवेष्वन्यभक्तेषु, ब्राह्मणेष्वितरेषु करोति स-मतां यो हि ब्रह्महत्यां लभेत् तु सः हरेः पादो-देकेष्वन्यदेवपादोदके तथा करोति समतां यो हिब्रह्महत्यां लभेत् तु सः विमूढो विष्णुनैवेद्ये चान्य-नैवेद्यके तथा करोति समतां यो हि ब्रह्महत्यांलभेत् तु सः सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे ।सर्वाद्ये सर्वदेवानां सेव्ये सर्वात्मनात्मनि माययामेकरूपे वाप्येकत्रैव हि निर्गुणे करोत्यनेन समतांब्रह्महत्यां लभेत् तु सः पितृदेवार्च्चनं पौर्वापरंवेदविनिर्मितम् यः करोति तन्निषेधं ब्रह्महत्यां सविन्दति ये निन्दन्ति हृषीकेशं तन्मन्त्रोपासकं तथा ।पवित्राणां पवित्रञ्च ब्रह्महत्यां लभन्ति ते ये निन्दन्तिविष्णुमायां विष्णुभक्तिप्रदां सतीम् सर्वशक्तिस्वरूपाञ्चप्रकृतिं सर्वमातरम् सर्वदेवस्वरूपाञ्च सर्वाद्यां सर्व-वन्दिताम् सर्वकारणरूपाञ्च ब्रह्महत्यां लभन्ति ते ।कृष्णजन्माष्टमीं रामनवमीं पुण्यदां पराम् शिव-रात्रिं तथा चैकादशीं वारं रवेस्तथा पञ्च पर्वाणिपुण्यानि ये कुर्वन्ति मानवाः लभन्ते ब्रह्महत्यांते चाण्डालाधिकपापिनः अम्बुवाच्यां भूखननंजले शौचादिकञ्च ये कुर्वन्ति भारते वर्षे ब्रह्महत्यांलभन्ति ते गुरुञ्च मातरं तातं साध्वीं भार्य्यां सुतंसुताम् अनाथां यो पुष्णाति ब्रह्महत्यां लभेत् तुसः विवाहो यस्य भवेत् पश्यति सुतन्तु यः ।हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत् तु सः हरेर-नैवेद्यभोजी नित्यं विष्णुं पूजयेत् पुण्यं पार्थिव-लिङ्गं वा ब्रह्महत्यां लभेत् तु सः” आतिदेशिक्या-स्तस्या विनाशनं हरिस्मरणगङ्गास्नानादि