| YouTube Channel

व्रह्मशासन (vrahmazAsana)

 
वाचस्पत्यम्
Sanskrit
ब्र(व्र)ह्मशासन
न०
त० तत्तत्कार्य्येषु ब्रह्मकर्त्तृके नियो-जने तेन यथा यस्य शासनं कृतं यथा पृथिव्या धार-णाय वायोर्वहनाय सूर्य्यादीनां प्रकाशनाय इत्यादि तत्तथैवतैः शासनमनुपाल्यते एवं वर्णाश्रमादिकर्मानुशासनमपि तेनैवअनुशिष्टम् “श्रुतिस्मृती ममैवाज्ञे यस्ते उल्लङ्घ्य बर्त्तते ।णाज्ञाच्येदी मम द्वेषी नरकं प्रतिपद्यते” भगवदुक्तेः ।ब्रह्मणो वेदस्यानुशासने कर्त्तव्यतोपदेशे अधि-करणे ल्युट् ब्रह्मविचारगृहे शब्दरत्ना०