| YouTube Channel

व्रह्मवर्चस (vrahmavarcasa)

 
वाचस्पत्यम्
Sanskrit
ब्र(व्र)ह्मवर्चस
न०
ब्रह्मणा वेदाध्ययनेन वर्चः अच् समा० ।वेदाध्ययनजनिते तेजसि “तपःस्वाध्यायजं यच्च तेजस्तुब्रह्मचर्वसम्” जटा० “ब्रह्मवर्चसकामः स्तुवीत” ताण्ड्य०व्रा० “ब्रह्मवर्चसकामस्य कुर्य्यात् विप्रस्य पञ्चमे” मनुःतदस्यास्ति इनि ब्रह्मवर्चसिन् तदयुते
त्रि०
“ब्रह्मबर्चस्य-न्नादो भवति” छा० उ० “वृत्तस्वाध्यायजं तेजः ब्रह्म-वर्चसम्” शाङ्गरभाष्यम्