| YouTube Channel

व्रह्मयोनि (vrahmayoni)

 
वाचस्पत्यम्
Sanskrit
ब्र(व्र)ह्मयोनि
पु०
ब्रह्मणो योनिरुतपत्तिरत्र ब्रह्मगिरौशब्दर० ब्रह्मप्राप्त्युपायज्ञाननिष्ठायाञ्च “ब्राह्मणा ब्रह्मयोनिस्थाः” मनुः ब्रह्मोत्पन्ने
त्रि०
सरस्वत्यांस्त्री ङिप् “सरस्वत्यास्तु तीरे यः संत्यजेदात्मनस्तनुम् ।पृथूदकं जप्यपरो नैनं श्रोमरणं लभेत् तत्रैव ब्रह्मयोन्यस्ति ब्रह्मणा यत्र निर्मिता पृथूदकं समाश्रित्य सरस्यत्यास्तटे स्थितः चतुर्वणस्य सृष्ट्यर्थमात्मज्ञानपरो-ऽभवत् तस्याभिधा यतः स्तुष्ठिर्ब्रह्मणोऽव्यक्र्तजन्मनः ।सुखतो ब्राह्मणा जाता बाहुभ्यां क्षत्रियास्तथा ऊरु-भ्यां वैश्यजातीयाः पद्भ्यां शूद्रास्ततोऽभवन् चातु-र्वर्ण्यं ततो दृष्ट्वा आश्रमस्थान् सुतांस्ततः एवं प्रति-ष्ठितं तीर्थं ब्रह्मवोनीति संज्ञितम् तत्र स्नात्वा मुक्ति-कामः पुनर्योनिं पश्यति” वामनपु० ३८ अ० उक्तेतीर्थभेदे स्त्री वा ङीप्