| YouTube Channel

व्रह्ममीमांसा (vrahmamImAMsA)

 
वाचस्पत्यम्
Sanskrit
ब्र(व्र)ह्ममीमांसा स्त्री त० ब्रह्मज्ञानार्थं वेदान्तवाक्य-विचारात्मके व्यासप्रणीते ग्रन्धभेदे तत्प्रतिपाद्यविषयादिवैयासिकन्थायमालायामुक्तं यथा “शास्त्रं ब्रह्मविचा-राख्यमध्यायाः स्युश्चतुर्विधाः समनयाविरोधौ द्वौसाधन ञ्च फलं तथा समन्वये स्पष्टलिङ्ग मस्पष्टत्वे २ऽ-प्युपास्यगम् ज्ञेयगं पदमात्रञ्च चिन्त्यं पादेष्वनुक्र-मात् द्वितीये स्मृतितर्काभ्यामविरोधो न्यष्टता भूत-भोक्तृश्रुते र्लिङ्गश्रुते रप्यविरुद्धता तृतीये विरति स्तत्त्व-म्पदार्थपरिशोधनम् गुणोपसंहृति र्ज्ञाने वहिरङ्गादि-साधनम् चतुर्थे जीवतोमुक्ति रुत्क्रान्ति र्गतिरुत्तरा ।ब्रह्मप्राम्प्तिब्रह्मलोकाविति पादार्थसंग्रहः तेन तत्रप्रत्येकं चतुष्टयपादयुताः चत्वारोऽध्यायाः तच्च शास्त्रंबहुभिः स्वस्वमतानुसारेण व्याख्यातम् तत्र गौडपादा-चार्य्यशङ्कराचार्य्यादिभिर्द्वैतपरतया व्याख्यातं रामा-नुजादिभिश्च विशिष्टाद्वैतपरतया, वल्लबाचार्य्यादिभिश्चविशुद्वाद्वैतपरतया माध्वाचार्य्यादिश्च द्वैतपरतया व्या-ख्यातं तत्तन्मतञ्च प्रायेण तत्तच्छन्दे दृश्यम्