| YouTube Channel

व्रह्मपुराण (vrahmapurANa)

 
वाचस्पत्यम्
Sanskrit
ब्र(व्र)ह्मपुराण
न०
वेदव्यासप्रणीते महापुराणभेदे तत्प्रति-पाद्यविषयाश्च वृहन्नारदीये पा० ९२ अ० उक्ता यथा“ब्राह्मं पुराणं तत्रादौ सर्वलोकहिताय वै व्यासेनवेदविदुषा समाख्यातं महात्मना तद्वै सर्वपुराणाग्र्यंधर्मकामार्थमोक्षदम् नानाख्यानेतिहासाढ्यं दशसाहस्र-मुच्यते” तत्पूर्वभागे “देवानामसुराणाञ्च यत्रोत्पत्तिःप्रकीर्त्तिता प्रजापतीनाञ्च तथा दक्षादीनां सुनीश्वर! ।ततो लोकेश्वरस्यात्र सूर्य्यस्य परमात्मनः वंशानुकी-र्त्तनं पुण्यं महापातकनाशनम् तत्रावतारः कथितःपरमानन्दरूपिणः श्रीमतो रामचन्द्रस्य चतुर्ध्यूहाव-तारिणः ततश्च सोमवंशस्य कीर्त्तनं यत्र वर्णितम् ।कृष्णस्य जगदीशस्य चरितं कल्मषापहम् द्वीपानाञ्चैवसिन्धूनां वर्षाणां चाप्यशेषतः वर्णं यत्र पातालस्वर्गाणाञ्च प्रदृश्यते नरकाणां समाख्यानं सूर्य्यस्तुतिकथानकम् पार्वत्याश्च तथा जन्म विवाहश्च निगद्यते ।दक्षाख्यानं ततः प्रोक्तमेकाम्रक्षेत्रवर्णनम् पूर्वभागो-ऽयसुदितः पुराणस्यास्य मानद!” तदित्त्रभागे “अस्यो-त्तरे विभागे तु पुरुषोत्तमवर्णनम् विस्तरेण समा-ख्यातं तीर्थयात्राविधानतः अत्रैव कृष्णचरितंविस्तरात् समुदीरितम् वर्णनं मम लोकस्य पितृश्राद्ध-विधिस्तथा वर्णाश्रमाणां धर्माश्च कीर्त्तिता यत्र वि-स्तरात् विष्णुधर्मयुगाख्यानं प्रलयस्य वर्णनम् ।योगानाञ्च समाख्यानं साङ्ख्यानां चापि वर्णनम् ब्रह्मवादसमुद्देशः पुराणस्य शंसनम् एतद्ब्रह्मपुरा-णन्तु भागद्वयसमाचितम् वर्णितं सर्वपापन्धं सर्वसौख्य-प्रदायकम्” तत्फलश्रुतिः “सूतसौनकसंवादं भुक्तिमुक्ति-प्रदायकम् लिखित्वैतत् पुराणं यो वैशाख्यां हेमसं-युतम् जलधेनुयुतञ्चापि भक्त्या दद्याद्द्विजातये ।पौराणिकाय सम्पुज्य वस्त्रभोज्यविभूषणैः वसेद्ब्रह्मणो लोके यावच्चन्द्रार्कतारकम् यः पटेच्छृणुया-द्वापि ब्रह्मानुक्रमणीं द्विज! सोऽपि सर्वपुराणस्यश्रोतुर्वक्तुः फल लभेत् शृणोति यः पुराणन्तु ब्राह्मंसर्वं जितेन्द्रियः हविष्याशी नियमात् लभेद्ब्रह्मणः पदम् किमत्र बहुनोक्तेन यद्यदिच्छति-मानवः तत् सर्वं लभते वत्स! पुराणस्यास्य कीर्त्तनात्”