| YouTube Channel

व्रह्मपुर (vrahmapura)

 
वाचस्पत्यम्
Sanskrit
ब्र(व्र)ह्मपुर
न०
त० ब्रह्मण उपासनार्थे हृदयस्थाने“अथ यदिदं ब्रह्मपुरे दहरं पुण्डरीकम्” छा० उ० ।दहरशब्दे ३५१० पृ० दृश्यम् “यः सर्वज्ञः सर्वविद्-यस्यैष महिमा भुवि दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्माप्रतिष्ठ्तः” मुण्डकोप० “ब्रह्मणोऽत्र चैतन्यस्वरूपेणनित्याभिव्यक्तत्वाद्ब्रह्मणः पुरं हृदयपुण्डरीकं तस्मिन्”भा विधातृनगर्य्यां काश्याञ्च वा स्त्री ङीप् तत्रार्थे ।वृ० स० १४ अ० उक्ते ईशानदिक्स्थे देशभेदे
पु०
(वरमा) देशेस्वार्थे तत्रार्थे मार्कपु० पूर्वोत्तरकूर्मभागस्थदेशोक्तौ