| YouTube Channel

व्रह्मपुत्र (vrahmaputra)

 
वाचस्पत्यम्
Sanskrit
ब्र(व्र)ह्मपुत्र
पु०
ब्र(व्र)ह्मणः पुत्र इव कपिलवर्णत्वात् ।१ विषभेदे अमरः तद्विषस्य लक्षणं भावप्र० उक्तंयथा “वर्णतः कपिलो यः स्यात्तथा भवति सारकः ।ब्रह्मपुत्रः विज्ञेयो जायते मलयाचले” उत्तर-देशप्रसिद्धे नदभेदे क्षेत्रभेदे सरस्वत्यां नद्यांस्त्री तस्याः पितामहजातत्वं ब्रह्माणीशब्दे दृश्यम् ।तस्य नदस्योत्पत्तिकथा “हरिवर्षे महावर्षे शान्तनु-र्नाम नामतः मुनिरासीनमहाभागो ज्ञानवान् सु-तपोधनः तस्य भार्य्या भहाभागा अमोघाख्या महा-सती हिरण्यगर्भस्य मुनेस्तृणवृन्दाश्रमोद्भवा ।तया सार्द्धं कैलासमर्य्यादापर्वतेऽवसत् लौहिता-ख्यस्य सरसस्तीरे वै गन्धमादने एकदा तपोनिष्ठोनिजपुष्पादिगोचरे जगाभ वनमध्यन्तु चिन्वन् बहु-फलानि तस्मिन्नवसरे ब्रह्मा सर्वलोकपितामहः ।तत्राजगाम यत्रास्ति अमोघा शान्तनोः प्रिया तां दृष्ट्वादेवगर्भाभां युवत्रीमतिसुन्दरीम् मोहितो मदनेनाशु तथाऽभूत् तृधितेन्द्रियः उदीरितेन्द्रियो भुत्वा जिघृक्षुस्तां म-हासतीम् अथाधावत्तदा ब्रह्मा सम्मुणो मदनार्दितः ।धावमानं विधातारं दृष्ट्वाऽमोघा महासती मैवंमैवमिति प्रोच्य पर्णशालां व्यलीयत इदञ्चोवाचधातारममोघा कुपिता तदा पर्णशालान्तरगता द्वार-मावृत्य तत्क्षणात् अकार्य्यं मया कार्य्यं मुनि-पत्न्त्या विगर्हितम् बलात् प्रमथ्या चाहं चेत्त्वया त्वाञ्चशपाम्यहम् अमोघया चैवमुक्ते विधातुश्च तदानृप! रेतश्चक्रन्द तदैवाश्रमे शान्तनोर्मुनेः च्युतेरेतसि धातापि हंसयानं समास्थितः लज्जयाति-परीतात्मा द्रुतं वै स्वाश्रमं ययौ गते वेधसि शान्तनु-र्निजमात्रममागतः आगत्य दृष्ट्वा हंसानां पदक्षोभंतथा भुवि तेजश्च पतितं भूमौ विधातुर्ज्वलनोप-मम् अमोघां परिपप्रच्छ पर्णशालान्तरस्थिताम् ।किमेतदत्र शुभगे! प्रवृत्तं दृश्यते तु यत् पक्षिणाञ्चपदक्षोभस्तेजश्चेदम् कीदृशम् सा तस्य वचनं श्रुत्वाशान्तनुं मुनिसत्तमम् अमर्षितेव न्यगददाकुला विक-लानना हंसयुक्तस्यन्दनेन कोऽम्भ्यागत्य चतुर्मुख।कमण्डलुकरो भीरू रतिं मां समयाचत ततो मयाभर्त्सितः कुटजान्तरलीनया प्रच्याव्य तेजः गतोमम शापभयार्दितः कुरु तत्र प्रतीकारं यदि शक्नोषिशान्न्तनो! हि तां धर्षणां सोढुं कश्चित् श-क्नोति जीवभृत् तस्या वचनं श्रुत्वा स्वयं ब्रह्मासमागतः इति निश्चित्य मनसा तत्र ध्याबपरोऽभवत् ।दिव्यज्ञानेन ज्ञात्वा देवकार्य्यमुपस्थितम् तीर्था-वतारणञ्चापि हितायं जगतां मुनिः ज्ञात्वोदर्कंचिन्तयित्वा स्वभार्य्यामिदमब्रवीत् इदं तेजो ब्रह्मणस्त्वंपिबामोथे! ममाज्ञया हिताय सर्वजगतां देवकार्य्यार्थ-सिद्धये भवत्या निकटे ब्रह्मा स्वयमेव समागतः ।त्वामप्राप्य महात्मा आवयोः समर्प्य गतोनिजास्पदं तत्त्वं कर्त्तुमर्हसि मद्वचः तत् श्रुत्वा शा-न्तनोर्वाक्यममोघातीव लज्जिता सान्त्वयन्तीव तं प्राहपतिं नत्वा महासती नान्यस्य तेजो धास्यामि नचेत्ते विमनस्कता अवश्यं यदि कर्त्तव्यं पीत्वा त्वंमयि चोत्सृज ततस्तस्या वश्यः श्रुत्वा युक्तं तथ्यञ्चशान्तनुः स्वयं पीत्वा तत्तेजस्तस्या गर्भऽभ्यषेचयत् ।संक्रामितैः शान्तनुना तेजोभिर्ब्रह्मणः सती गर्भं दधा-रामोघाख्या हिताय जगतां ततः तस्यां काले तु संप्राप्तेसंजातोजलसञ्चयः तन्मध्ये तनयश्चापि नीलवासाः कि-रीटधृक् रत्नमालासमायुक्तो रक्तगौरश्च ब्रह्मवत् चतु-र्भुजः पद्मविद्यावरशक्तिधरस्तथा शिशुमारशिरस्थश्चतुल्यकायो जलोत्करैः तं जातञ्च तथाभूतं शान्तनु-र्लोकशान्तनुः चतुर्णां पर्वतानाञ्च मध्यदेशे न्यवेशयत् ।कैलासश्चोत्तरे पार्श्वे दक्षिणे गन्धमादनः जारुधिःपश्चिमे शैलः पूर्वे संवर्त्तकाह्वयः तेषां मध्ये स्वयंकुण्डं पर्वतानां विधेः सुतः कृत्वाऽतिववृधे नित्यंशरदीव निशाकरः तं तोयमध्यगं पुत्रमासाद्यद्रुहिणः स्वयम् क्रमतस्तस्य संस्कारानकरोद्देह-शुद्धये अथ काले बहुतिथे व्यतीते ब्रह्मणः सुतः ।तोयराशिस्यरूपेण ववृधे पञ्च योजनान् तस्मिन्देवाः पपुः सस्नुर्द्वितीय इव सागरे शीतामलजलेहृद्ये देव्यश्चाप्सरसां गणैः तस्मिन्नवसरे रामो जाम-दग्न्यः प्रतापवान् चक्रे मातृबधं घोरमत्युग्रंपितुराज्ञया तस्य पापस्य मोक्षाय स्वपितुश्चोपदेशतः ।स जगाम महाकुण्डं ब्राह्माख्यं स्नातुमिच्छया तत्रस्नात्वा प्रीत्वा मातृहत्यां व्यप्रानयत् वीथिंपरशुना कृत्वा तञ्च क्ष्मामवातारयत्” तदुत्तरत्र “ब्रह्मकु-ण्डात् सृतः सोऽथ कासारे लोहिताह्वये कैलासो-पत्यकायान्तु न्यपतद् ब्रह्मणः सुतः तस्यापि सरसन्तीरंसमुत्पाट्य महाबलः कुठारेण दिशं पूर्वामनयद्-ब्रह्मणः सुतम् ततोऽपरत्रापि गिरिं हेमशृङ्गंविभिद्य कामरूपान्तरं पीठमवाहयदसुं हरिः ।तस्य नाम विधिश्चक्रे स्वयंलोहितगङ्गकम् लौहि-त्यात् सरसो जातो लौहित्याख्यस्ततोऽभवत् काम-रूपमखिलं पीठमाप्लाव्य वारिणा गोपयन् सर्वतीर्थानिदक्षिणं याति सागरम् प्रागेव दिव्ययमुनां संत्यज्यब्रह्मणः सुतः पुनः पतति लौहित्ये गत्वा द्वादश-योजनम् चैत्रे मासि सिताष्टम्यां यो नरो नियते-न्द्रियः स्लाति लौहित्यतोयेषु याति ब्रह्मणः पदम् ।चैत्रन्तु सकलं मासं शुचिः प्रयतमानसः लौहित्यतोयेयः स्लाति कैवल्यमवाप्तुयात्” कालिकापु० ८४, ८५अ० “मीने मधौ शुक्लपक्षे अशोकाख्यां तथाष्टमीम् ।पिवेदशोककलिकाः स्नायाल्लौहित्यवारिणि पुनर्वसौवृषे लग्ने चैत्रे मासि सिताष्टमीम् लौहित्ये विरजेस्नायात् सर्वपापैः प्रसुच्यते” ति० त०