व्रह्मन् (vrahman)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishव्रह्मन् [vrahman], See ब्रह्मन्.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiव्रह्मन्
-
व्रह्मन्
- -
परमात्मा जो निराकार और निर्गुण समझा जाता है
व्रह्मन्
- -
स्तुतिपरक सूक्त
व्रह्मन्
- -
पुनीत पाठ
व्रह्मन्
- -
वेद
व्रह्मन्
- -
"ईश्वरपरक पावन अक्षर, "
व्रह्मन्
- -
पुरोहितवर्ग या ब्रह्मण समुदाय
व्रह्मन्
- -
ब्राह्मण की शक्ति या ऊर्जा
व्रह्मन्
- -
धार्मिक साधना या तपस्या
व्रह्मन्
- -
"ब्रह्मचर्य, सतीत्व"
व्रह्मन्
- -
मोक्ष या निर्वाण
व्रह्मन्
- -
"ब्रह्मज्ञान, अध्यात्मविद्या"
व्रह्मन्
- -
बेदों का ब्राह्मणभाग
व्रह्मन्
- -
"धनदौलत, संपत्ति"
व्रह्मन्
- -
"परमात्मा, ब्रह्मा, पावन त्रिदेवों (ब्रह्मा, विष्णु, महेश) में प्रथम जिनको संसार की रचना का कार्य सौंपा गया है"
व्रह्मन्
- -
ब्राह्मण
व्रह्मन्
- -
भक्त
व्रह्मन्
- -
सोमयाग में नियुक्त चार ऋत्विजों (पुरोहितों) में से एक
व्रह्मन्
- -
धर्मज्ञान का ज्ञाता
व्रह्मन्
- -
सूर्य
व्रह्मन्
- -
प्रतिभा
व्रह्मन्
- -
"सता प्रजापतियों (मरीचि, अत्रि, अंगिरस्, पुलस्त्य, पुलह, ऋतु और और वसिष्ठ ) का विशेषण"
व्रह्मन्
- -
बृहस्पति का विशेषण
व्रह्मन्
- -
शिव का विशेषण
वाचस्पत्यम्
Sanskritब्र(व्र)ह्मन् वृं ह--मनिन् “वृंहेर्नोऽच्चेति” उणा० नकारस्या-कारे ऋतो रत्वम् । १ देवे “तस्मादेत्दु ब्रह्म नाम रूपमन्नञ्चजायते श्रुतिः” । “तेन ब्रह्म हृदा” भाग० १ । १ । १ ।२ तषसि, ३ सत्ये ४ तत्त्वे यथार्थे अमरः । सर्वगुणा-तीते विशुद्धे तुरीये ५ चित्स्वरूपे च । ६ हिर-ण्यगर्भे ७ विप्रे ८ ऋत्विग्विशेषे च अमरः । विष्कम्भा-दिषु पञ्चविंशे ९ योगे मेदि० । लज्जवलदत्तेन दन्तोष्ठ्यादित्वेन साधितम् मेदिनीकरेण ओष्ठ्यादित्वेन कीर्त्तनात्तथा-मपि । ब्रह्म च सच्चिदानन्दात्मकम् । तच्च तस्य स्वरू-पलक्षणम् । विवरणानुसारिणस्तु “आनन्दो विषयानु-भवो नित्यत्वञ्चेति सन्ति धर्मा अपृथक्त्वेऽपि पृथगिवाव-भासन्ते” इति तत्रोक्तौ मिथ्याभावः सत्यत्वम् अज्ञानभाव-श्चित्त्वम् । दुःखाभाव आनन्द इत्याहुः । तेषामभावानाञ्चब्रह्मरूपाधिकरणे स्थितत्वात् अभावस्याधिकरणस्वरूपतयाब्रह्मरूपत्वमिति । तस्य तटस्थलक्षणञ्च जगज्जन्मस्थितिप्रलयानां प्रत्येकमुपादानप्रत्यक्षचिकीर्षाकृतिमत्त्वं तेन नव-लक्षणवत्त्वम्” वेदान्तप० । अतएवोक्तं श्रीधरेण “विश्वसर्ग-विसर्गादिनवलक्षणलक्षितमिति” । तच्च ब्रह्म द्विविधंनिर्गुणं सगुणञ्च । सच्चिदानन्दात्मकस्यै व निर्गुणत्वं जग-ज्जन्मादिकर्तुश्च सगुणत्वम् । जाग्रदाद्यवस्थात्रयसाक्षिणश्चसगुणत्वं अवस्थात्रयातीतस्य चतुरीयसंज्ञा “शिवमद्वैतंचतुर्थं मन्यन्ते” इति श्रुतेस्तथात्वम् । तत्र तस्य तटस्थलक्ष-णाभिप्रायेण “जन्माद्यस्य यतः” शा० स० “यतो वा इमानिभूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्ति तज्जिज्ञासस्व ब्रह्मेति” श्रुतिश्च प्रववृते तस्य स्व-रूपलक्षणाभिप्रायेण “निर्गुणं निष्कलं शान्तं निरवद्यंनिरञ्जनम्” इत्याद्याः श्रुतयः प्रवृत्ताः । आत्मबोधे तु तस्यब्रह्मणोऽखिलवस्त्वपेक्षया श्रेष्ठत्वाद्ब्रह्मत्वमुक्तं यथा“यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् ।यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत् । यद्दृष्ट्वा नापरं दृश्यं यद्भुत्वा न पुनर्भवः । यज्ज्ञात्वानापरं ज्ञेयं तद्ब्रह्मेत्यबधारयेत् । तिर्य्यगूर्द्धमधःपूर्णं सचिदानन्दमद्वयम् । अनन्तं नित्यमेकं यत्तदिब्रह्मे-त्यबधारयेत् । अतद्व्यावृत्तिरूपेण वैदान्तैर्लक्ष्यतेऽद्वयम् ।अखण्डानन्दमेकं यत् तद्ब्रह्मेन्यवधारयेत् । दृश्यते श्रूयतेयद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् । तत्त्वज्ञानाच्च तद्ब्रह्म सच्चि-दानन्दमद्वयम् । सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्षते ।अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत्” । तच्च निर्गुण-मपि गुणभेदेन नानारूपं यथोक्तम् “ब्रह्मैकं मूर्त्तिभेदस्तुगुणभेदेन सन्ततम् । तद्ब्रह्म द्विविधं बस्तु सगुणंनिर्गुणं शिव! । मायाश्रितो यः सगुणो माया-तीतञ्च निर्गुणः । स्वेच्छामयश्च भगवानिच्छयाविकरोति च । इच्छाशक्तिश्च प्रकृतिः सर्वशक्ति-प्रसूः सदा । केचिदेकं वदन्त्येवं ब्रह्म ज्योतिःसनातनम् । केचिद्वदन्ति द्विविधं ब्रह्मप्रकृतिपू-र्वकम् । शृणु ये च वदन्त्येकं प्रकृतिपुरुषयोः परम् ।तस्माद्भवति तौ द्वौ च तद्ब्रह्म सर्वकारणम्” । अथवैकंपरं ब्रह्म द्विविधं भवतीच्छया । इच्छाशक्तिश्च प्रकृतिःसर्वशक्तिप्रसूः सदा” ब्रह्मवैवर्त्ते जन्मख० ४३ अ० ।तस्य नवधा रूपं यथा “योगिनो यं वदन्त्येवंज्योतीरूपं सनातनम् १ । जयोतिरभ्यन्तरे नित्यरूपं २ भक्ता वदन्ति यम् । वेदा वदन्ति सत्यं ३ यंनित्यमाद्यं ४ विचक्षणाः । यं वदन्ति सुराः सर्वे परंस्वेच्छामयं प्रभुम् ५ । सिद्धेन्द्रास्य्नयः सर्वे सर्वरूपं ६ वदन्तियम् । यमनिर्वचनीयञ्च योगीन्द्रः शङ्करोवदेत् ७ ।स्वयं धाता च प्रवदेत् कारणानाञ्च कारणम् ८ । शेषोवदेदनन्तं ९ यं नवधारूपमीश्वरम् । तर्काणामेव षण्णांयं षड्विधं रूपमीश्वरम् । वैष्णानामेकरूपं वेदा-नामेकमेव च । पुराणानामेकरूपं तस्मान्नवविधं स्मृ-तम् । न्यायोनिर्वर्णनीयज्ञ यन्मतं शङ्करोऽव्रवीत् । नित्यंवैशेषिकास्त्वन्यं वदन्ति च विचक्षणाः । सांख्यो वदतितं देवं ज्योतोरूपं सनातनम् । मीमांसा सर्वरूपञ्चवेदान्तः सर्वकारणम् । पातञ्चलोऽप्यनन्तञ्च वेदाः सत्य-स्वरूपकम् । स्वेच्छामयं पुराणञ्च भक्ताश्च नित्यविग्रहम्”इति तत्रैव १२८ अ० । अन्यथाऽपि सत्त्वादिगुणभेदेनतस्य चतुर्धारूपं यथा “चतुर्विभागः संसृष्टौ चतुर्धासंस्थितः स्थितौ । प्रलयञ्च करोत्यन्ते चतुर्भेदो जना-र्दनः । एकेनांशेन ब्रह्माऽसौ भवत्यव्यक्तमूर्त्तिमान् ।मरीचिमिश्राः पतयः प्रजानामन्यभागतः । कालस्तृतीय-स्तस्यांश सर्वभूतानि चापरः । इत्यं चतुर्धा संसृष्टौवर्त्ततेऽसौ रजोगुणः । एकांशेन स्थितो विष्णुः करोतिपरिपालनम् । मन्वादिरूपी चान्येन कालरूपी परेण च ।सर्वभूतेषु चान्येन संस्थितिं कुरुते स्थितः । सत्त्वं गुण-मुपाश्रित्य जगतः पुरुषोत्तमः । आश्रित्य तमसो वृत्तिमन्तकाले तथा प्रभुः । रुद्रस्वरूपो भगवानेकांशेनभवत्यजः । अग्न्यन्तकादिरूपेण भागेनान्तेन वर्त्तते ।कालस्वरूपो भागोऽन्यः सर्वभूत्यानि चापरः । विनाशंकुर्वतस्तस्य चतुर्द्धैवं महात्मनः” विणुपु० १ अंशे २१ अ० ।येधाश्च रजोगुणप्रधानोपाधिकः कार्य्य ब्रह्मा । ऋत्विग्-भेदश्च अच्छावाकशब्दे ८५ पृ० दर्शितेषु प्रधानेषुचतुर्षु ऋत्विक्षु मध्ये एकतमः । “त्रयाणामपराधे तु व्रह्मापरिहरेत् सदा” सामा० भाष्यधृतकारिका । “त्रया-णामध्वर्य्यूद्गातृहीतॄणां वेदत्रयविदां मध्ये ऋत्वि-गेको ब्रह्मनामको वेदत्रयन्मन्त्रतद्विहितकर्मविषये अप-राधो न्यूनभावो यदि जायते तस्यापराधस्य प्ररिहारंप्रतीकारं कुर्य्यात्” इति तदर्थः । “यज्ञस्य हैष भिषक्ब्रह्मेति” भाष्यधृतश्रुत्यन्तरम् । अतएवास्य कृताकृता-वेक्षणार्थं वरणमन्यत्रोक्तम् । १० वृहस्पतौ च ब्रह्मपुरो-हितशब्दे दृश्यम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
