| YouTube Channel

व्रह्मज्ञान (vrahmajJAna)

 
वाचस्पत्यम्
Sanskrit
ब्र(व्र)ह्मज्ञान
न०
ब्रह्मणो ज्ञानं तेन सह आत्माभेदज्ञानम् ।ब्रह्मविद्यायां तच्च अहं ब्रह्मास्मीत्येवंरूपम् “आत्मानंचेत् विजानीयादयमस्मीति पुरुषः किमिच्छन् कस्यकामाय किमर्थमनुसंज्वरेत्” श्रुत्या तदभेदज्ञानस्यैव मोक्ष-हेतुत्वमुकं “वेदान्तसाङ्ख्यसिद्धाब्रह्मज्ञानं वदाम्यहम् ।अहंब्रह्म परं ज्योतिः विष्णुरित्येव चिन्तयेत् सूर्य्येहृद्व्योम्नि वह्नौ ज्योतिरेकं त्रिधा स्थितम् यथासर्पिः शरीरस्थं गवां कुरुतेबलम् निर्गतं कर्मसंयुक्तंदत्ते तासां महाबलम् तथा विष्णुः शररीरस्थो नकरोति हितं नृणाम् विनाऽऽराधनया देवः सर्वपःपरमेश्वरः आरुरुक्षुयतीनाञ्च कर्मज्ञानमुदाहृतम् ।आरूडयोगवृक्षाणां ज्ञानं योगः परं मतम्” गरुड्पु० २४० अ० न्यायादिमते तच्चारोपज्ञानं वेदान्तिमतेप्रमारूपम् तत्त्वमसि अहंब्रह्मास्मीत्यादोवाक्यजन्यमपितज्ज्ञानं मनननिदिध्यासनादिना पश्चात् प्रत्यक्षसुत्पद्यते ।तज्ज्ञानाभिलापादिकं विवेकचू० दर्शितं यथा“अव्यक्तादिस्थूलपर्य्यन्तमेतदुमेतदुविश्वं यत्राभाममात्रं प्रती-तम् व्योमप्रख्यं सूक्षममाद्यन्तहीनं ब्रहावैतं यत्तदेवाह-मस्नि सर्वाधारं सर्ववस्तुप्रकाशं सर्वाकारं सर्वगंसर्वम्शून्यम् नित्यं शुद्धं निश्चलं निर्विकल्पं ब्रह्माद्वैतंयत् तदेवाहसस्मि यस्मिन्नस्ताशेषमायाविशेषं प्रत्यग्-रूपं प्रत्ययागम्यमानम् सत्यज्ञानानन्दमानन्दरूपंब्रह्माद्वैतं यत् तदेवाहमस्मि निष्क्रियोऽस्म्यविकारो-ऽस्मि निष्कलोऽस्मि निराकृतिः निर्विकल्पोऽस्मिनित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः सर्वात्मकोऽहंसर्वोऽह सर्यातीतोऽहमद्वयः केवलाखण्डवोधोऽहमा-नन्दोऽहं निरन्तरम्”