| YouTube Channel

व्रतं (vrataM)

 
शब्दकल्पद्रुमः
Sanskrit
व्रतं, क्ली
पुं,
भक्षणम् इत्युणादिकोषः
(व्रियतेइति वृञ् वरणे + बाहुलकात् अतच् सचकित् ।) पुण्यजनकोपवासादि तत्पर्य्यायः ।नियमः पुण्यकम् इत्यमरः
नियामः ४संयमः इति शब्दरत्नावली
अथ व्रत-विधिः तदारम्भप्रतिष्ठयोर्व्वर्ज्यकालमाहज्योतिषे गुरोर्भृगोरस्तबाल्ये वार्द्धके सिंहगेगुरौ इति वृद्धो बालो दिनत्रयमित्यन्तम् ।मठप्रतिष्ठातत्त्वादावनुसन्धेयम्
*
बुधाष्टमी-व्रते विशेषो राजमार्त्तण्डोक्तो यथा, --“द्विजेन्द्रसुतसंयुक्ता पूर्णा या सिताष्टमी ।तस्यां नियमकर्त्तारो स्युः खण्डितसम्पदः
पतङ्गे मकरे याते देवे जाग्रति माधवे ।बुधाष्टमीं प्रकुर्वीत वर्जयित्वा तु चैत्रकीम्
प्रसुप्ते जगन्नाथे सन्ध्याकाले मधौ तथा ।बुधाष्टमीं कुर्वीत कृता हन्ति पुराकृतम्
”अथ व्रतानुष्ठानम् तत्र देवलः ।“अभुक्त्वा प्रातराहारं स्नात्वा चैव समाहितः ।सूर्य्यादिदेवताभ्यश्च निवेद्य व्रतमाचरेत्
ब्रह्मचर्य्यं तथा शौचं सत्यमामिषवर्ज्जनम् ।व्रतेष्वेतानि चत्वारि वरिष्ठानीति निश्चयः
”अत्र प्रातरित्यस्याभुक्त्वेत्यत्र नान्वयः किन्तुव्रतमित्यनेनान्वयोऽभ्यर्हितत्वात् ।“प्रातः सङ्कल्पयेद्बिद्बानुपवासव्रतादिकम् ।नापराह्णे मध्याह्रे पित्रकालौ हि तौ स्मृतौ
”इति वराहपुराणैकवाक्यत्वाच्च वतश्चाभुक्त्वाप्रातराहारमिति ।“मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनांनित्यम् ।अहनि तथा तमस्विन्यां सार्द्धप्रहरया-मान्तः
”इति छन्दोगपरिशिष्टादेकाहार पूर्व्वदिने कृतापरदिने स्नात्वाचम्य सूर्य्यादिदेवेभ्यो निवेद्य ।ओँ सूर्य्यः सोमो यम इत्यादिमन्त्रेण सान्निध्यंप्रार्थ्य व्रतमाचरेत् ततः सङ्कल्पयेत् यद्वासूर्य्यादिदेवेभ्यो निवेद्य पूजनीयद्रव्यादि दत्त्वाव्रतमाचरेत् व्रतं कुर्य्यात् तद्विधानञ्च शान्ति-पर्व्वणि ।“गृहीत्वौडम्बरं पात्रं वारिपूर्णमुदङ्मुखः ।उपवासन्तु गृह्णीयात् यद्वा वार्य्येव धारयेत्
*
कर्म्मादौ सूर्य्यपूजामाह ब्रह्मपुराणम् ।“यावन्न दीयते चार्घ्यं भास्कराय महात्मने ।तावन्न पूजयेद्विष्णुं शङ्करं वा महेश्वरीम्
”नवग्रहपूजामाह मत्स्यपुराणम् ।“नवग्रहमखं कृत्वा ततः कर्म्म समारभेत् ।अन्यथा फलदं पुंसां काम्यं जायते क्वचित्
”आदित्यादिपूजामाह पद्मपुराणम् ।“आदित्यं गणनाथञ्च देवीं रुद्रं यथाक्रमम् ।नारायणं विशुद्धाख्यं अन्ते कुलदेवताम्
”यत्तु ।“देवतादौ यदा मोहात् गणेशञ्च पूजयेत् ।तदा पूजाफलं हन्ति विघ्नराजो गणाधिपः
”इत्यनेन गणेशपूजनस्यादित्वमुक्तं तत् सूर्य्यपूजे-तरपरम् कुलदेवतेत्यत्र कुलाद्युपलक्षणम् ।“व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे ।आरब्धे सूतकं स्यादनारब्धे तु सूतकम्
”तत्र विशेषयति मत्स्यपुराणम् ।“गर्भिणी सूतिका नक्तं कुमारी रजस्वलायदाशुद्धा तदान्येन कारयेत् क्रियते सदा
उपवासाशक्तौ तु नक्तं भोजनं कुर्वीत ।“उपवासेष्वशक्तानां नक्तं भोजनमिष्यते ।”इति वचनान्तरात् अशुद्धा चेत् पूजां कारयेत्कायिकञ्चोपवासादिकं सदा शुद्धया अशुद्धयावा स्वयं क्रियते अत्यन्तासामर्थ्ये पुत्त्रादिप्रति-निधिद्बारा उपवासः कार्य्यः तदभावेऽनु-कल्पः गरुडपुराणम् ।“भार्य्या भर्त्तृव्रतं कुर्य्यात् जायायास्तु पति-स्तथा ।असामर्थ्यात् द्बयोस्ताभ्यां व्रतभङ्गो जायते
पुत्त्रं वा विनयोपेतं भगिनीं भ्रातरं तथा ।एषामभाव एवान्यं ब्राह्मणं विनियोजयेत्
”आरब्धव्रतस्यासमाप्तौ मरणेऽपि तत्फलप्राप्ति-माहाङ्गिराः ।“यो यदर्थं चरेद्धर्म्मं समाप्य मृतो भवेत् ।स तत्पुण्यफलं प्रेत्य प्राप्नुयान्मनुरब्रवीत्
”प्रेत्य परलोके शाम्बपुराणम् ।“लोभान्मोहात् प्रमादाद्बा व्रतभङ्गो यदाभवेत् ।उपवासत्रयं कुर्य्यात् कुर्य्याद्बा केशमुण्डनम्
”मोहो भ्रमः प्रमादोऽनवधानता वाशब्दःसमुच्चये तेन मुण्डनञ्च कार्य्यं मुण्डनाकरणेद्विगुणं प्रायश्चित्तम् उपवासत्रयाशक्तौ चतु-र्विंशतिपणा देयाः पद्मपुराणम् ।“वपनं नैव नारीणां नानुव्रज्याजपादिकम् ।न गोष्ठे शयनं तासां दध्याद्गवाजिनम्
सर्व्वान् केशान् समुद्धृत्य छेदयेदङ्गुलिद्वयम् ।एवमेव तु नारीणां मुण्डमुण्डनमादिशेत्
”इति गोवधप्रकरणे विवेचितम् ।“प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत् ।पूर्व्वं गृहीत्वा सङ्कल्पं प्रमादान्नाचरेद्यदि ।जीवन् भवति चण्डालो मृतः श्वा चाभि-जायते
”इति प्रायश्चित्तविवेकधृतवचनम्
देवलः ।“सर्व्वभूतभयं व्याधिः प्रमादो गुरुशासनम् ।अव्रतघ्नानि कथ्यन्ते सकृदेतानि शास्त्रतः
”भर्त्तुरनुज्ञया स्त्रीणां व्रतकरणे दोषः कामंभर्त्तुरनुज्ञया व्रतोपवासनियमेज्यादीनामभ्यासःस्त्रीधर्म्म इति संवत्सरप्रदीपधृतशङ्खवचनात्
अत्र कथाश्रवणमाह देवीपुराणम् ।“तद्ध्यानं तज्जपः स्नानं तत्कथाश्रवणादिकम् ।उपवासकृतो ह्येते गुणाः प्रोक्ता मनीषिभिः
”अथ व्रतप्रतिष्ठाविधिः ।श्रीभगवानुवाच ।“गोपथारामसेतूनां मठसंक्रमवेश्मनाम् ।नियमव्रतकृच्छ्राणां प्रतिष्ठां शृणु सत्तम
ब्राह्म्येण विधिना वह्निं समाधाय विचक्षणः ।शिलां पूर्णघटं कांस्यं सम्भवे स्थापयेद्बुधः
ब्रह्मन् सर्व्वं समासाद्य श्रपयेद्यवमयं चरुम् ।क्षीरेण कपिलायास्तु तद्बिष्णोरिति साधकः
प्रणवेनाभिघार्य्याथ दर्व्व्या संघट्टयेत् ततः ।साधयित्वावतार्य्याथ तद्विष्णोरिति होमयेत्
व्याहृत्या चैव गायत्त्र्या तद्विप्रासेति होमयेत् ।विश्वतश्चक्षुरित्युक्त्वा वेदाद्यैर्होमयेत्तथा
ओँ भूरग्नये स्वाहा ओँ सूर्य्याय स्वाहा ओँप्रजापतये स्वाहा ओँ अन्तरीक्षाय स्वाहा ।ओँ द्यौः स्वाहा ओँ ब्रह्मणे स्वाहा ओँपृथिव्यै स्वाहा ओँ महाराजाय स्वाहा ।ओँ सोमं राजानमिति जुहुयात् ओँ लोक-पालेभ्यः स्वाहा स्वस्वमन्त्रैर्जुहुयाद्ग्रहेभ्यश्च ।एवं हुत्वा चरोर्भागं दद्यात् दशदिशां बलिम् ।ततः पलाशसमिधा हुनेदष्टोत्तरं शतम्
आज्यन्तु जुहुयात् पश्चादेभिर्मन्त्रैद्विजोत्तमः ।ततः पुरुषसूक्तैश्च मन्त्रैराज्यन्तु होमयेत्
इरावतीति जुहुयात् तिलान् घृतपरिप्लुतान् ।हुत्वा ब्रह्मविष्णीशदेवानामनुयायिनम्
ग्रहाणामाहुतीर्हुत्वा लोकेशानामथो पुनः ।पर्व्वतानां नदीनाञ्च समुद्राणां तथैव
हुत्वा व्याहृतिभिर्दद्यात् श्रुचा पूर्णाहुतित्रयम् ।वौषडन्तेन मन्त्रेण वैष्णवेन सुरोत्तम
पञ्चगव्यञ्च संप्राश्य दद्यादाचार्य्यदक्षिणाम् ।तिलपात्रं हेमयुक्तं सवस्त्रं गामलङ्कृताम् ।प्रीयतां भगवान् विष्णुरित्युत्सृजेद्व्रतं नरः
*
आरामं कारयेद्यस्तु नन्दने चिरं वसेत् ।मठप्रदानात् स्वर्लोकं प्राप्नोति पुरुषः सदा
सेतुप्रदानादिन्द्रस्य लोकमाप्नोति मानवः ।प्रपादानाद्वारुणञ्च लोकमाप्नोत्यसंशयम्
संक्रमाणान्तु यः कर्त्ता दुर्गतिं तरते नरः ।स्वर्गलोके निवसेत् इष्टकासेतुकृत्तथा
गोमार्गस्य तथा कर्त्ता गोलोके क्रीडते चिरम् ।नियमव्रतकृद्याति विष्णुलोकं नरोत्तमः
कृच्छ्रकृत् स्वर्गमाप्नोति सर्व्वपापविवर्ज्जितः ।अनेन विधिना मर्त्त्यः संपूर्णं फलमाप्नुयात्
*
इयं प्रतिष्ठा सामान्या सर्व्वसाधारणानघ ।कर्त्तव्या देशिकेन्द्रैस्तु प्रतिष्ठा यत्र विद्यते
इति संक्षेपतः प्रोक्तः समुदायविधिस्तव ।सर्व्वेषामेव वर्णानां सर्व्वकामफलप्रदः
सर्व्वेषूक्तेषु कर्त्तव्या प्रतिष्ठा विधिना बुधैः ।फलार्थिभिस्त्वप्रतिष्ठं यस्मान्निष्फलमुच्यते
”इति हयशीर्षे समुदायप्रतिष्ठापटलः
*
ब्राह्म्येण वैदिकेन स्वगृह्योक्तविधिनेति यावत् ।शिलेति उदूखलोपलक्षणम् कांस्यं अग्निप्रण-यनार्थम् कांस्येन अग्निप्रणयनमाह गृह्या-संग्रहे ।“शुभं पात्रन्तु कांस्यं स्यात्तेनाग्निं प्रणयेद्-बुधः
तस्याभावे सरावेण नवेनाभिमुखञ्च तम् ।सर्व्वतः पाणिपादान्तः सर्व्वतोऽक्षिशिरोमुखः ।विश्वरूपो महानग्निः प्रणीतः सर्व्वकर्म्मसु
”एवञ्चाग्निप्रणयनानन्तरं सर्व्वत इत्यस्य पाठोयुक्तः प्रणीत इति मन्त्रलिङ्गात् अन्यथास्थापनानन्तरं एतद्विधानं व्यर्थं स्यात्
*
अत्र पाकाङ्गत्वात् साहसनामानमग्निमाहगृह्यासंग्रहः ।“प्रायश्चित्ते विधुश्चैव पाकयज्ञे तु साहसः ।पूर्णाहुत्यां मृडो नाम शान्तिके वरदस्तथा ।आहूय चैव होतव्यं यत्र यो विहितोऽनलः
”प्रायश्चित्ते होमकर्म्मवैगुण्यसमाधानार्थं प्राय-श्चित्तात्मकमहाव्याहृतिहोमादौ तथा चछन्दोगपरिशिष्टम् ।“यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत् ।चतस्रस्तत्र विज्ञेयाः स्त्रीपाणिग्रहणे यथा
अपि वाज्ञातमित्येषा प्राजापत्यापि वाहुतिः ।होतव्या त्रिर्विकल्पोऽयं प्रायश्चित्तविधिःस्मृतः
”अत्र त्रिर्विकल्प इत्यभिधानात् सामगानां भव-देवभट्टोक्तशाठ्यायनहोमो निष्प्रामाणिकः ।अत्रामुकाग्ने इहागच्छागच्छ इत्युच्चार्य्य यवा-भावे व्रीह्यादिभिरपि होमः ।“हविष्येषु यवा मुख्यास्तदनु व्रीहयः स्मृताः ।माषकोद्रवगौरादीन् सर्व्वाभावे विवर्ज्जयेत्
यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत् ।यवानामिव गोधूमा व्रीहीणामिव शालयः
”इति छन्दोगपरिशिष्टात्
तत्र गोभिलेन अथ हविर्निर्व्वपति व्रीहीन्यवान् वा कांस्ये चरुस्थाल्यां वा अमुष्मै त्वाजुष्टं निर्व्वपामीति देवतानामोद्देशः सकृद्-यजुषा द्विस्तूष्णीमित्यनेन निर्व्वापक्रमाभिधानात्सामगेन तन्मात्रं कर्त्तव्यम् अत्र विष्णवेत्वा जुष्टं निर्व्वपामीत्यनेन यजुषा चरु इत्यभि-धानात् हवनीयनिर्व्वापणादिचरुनिष्पत्तिःकर्त्तव्या तत्र छन्दोगपरिशिष्टम् ।“देवतासंख्यया गृह्य निर्व्वापांश्च पृथक् पृथक् ।तूष्णीं द्विरेव गृह्णीयाद्धोमश्चापि पृथक् पृथक्
”अत्र देवतासंख्यया पृथक् पृथक् निर्व्वापः ।अनुनिर्व्वापस्तन्त्रेणैव होमोऽपि पृथक् पृथ-गेवेति आलस्यादिपुरुषदोषेण गृहीततण्डु-लेनापि मन्त्रेण निर्व्वापादिकं समाचरन्तियाज्ञिकाः ।“घाते न्यूने तथा च्छिन्ने सान्नाज्ये मान्त्रेकेतथा ।यज्ञे मन्त्राः प्रयोक्तव्या मन्त्रा यज्ञार्थसाधकाः
”इत्युक्तेः मान्त्रिके मन्त्रमाध्ये अवघातादौ न्यूनेतत्काले मन्त्रपाठाभावे मन्त्राः प्रयोक्तव्याः ।कपिलाया अभावे अन्यधेनोरपि घृतेन सप्रणव-तद्बिष्णोरित्यनेनाभिधार्य्य दर्व्या दक्षिणावर्त्तेनसंमिश्रयेत् दर्व्वी प्रादेशप्रमाणा द्व्यङ्गुल-विस्तारा ग्राह्या ।“इध्मजातीयमिध्मार्द्धप्रमाणं मेक्षणं भवेत् ।वृत्तं वार्क्षञ्च पृथ्वग्रमवदानक्रियाक्षमम्
एषैव दर्व्वी यस्तत्र विशेषस्तमहं ब्रुवे ।दर्व्वी द्व्यङ्गुलपृथ्वग्रा तुरीयोनञ्च मेक्षणम्
”इति छन्दोगपरिशिष्टात् ।इध्मार्द्धप्रमाणं प्रादेशमात्रम् प्रादेशद्वयमिध्मस्यप्रमाणं परिकीर्त्तितम् इति छन्दोगपरि-शिष्टोक्तेः अथेत्यनेन स्वगृह्योक्तशेषकर्म्मसमा-पनानन्तरं प्रकृतहोमः अत्र बहुदेवताक-चरुहोमादुपघातहोमः ।“चरौ तु बहुदैवत्ये होमः स्यादुपघातवत् ।”इति छन्दोगपरिशिष्टधृतवचनात्
उपघातलक्षणमाह गृह्यासंग्रहः ।“पाणिना मेक्षणेनाथ स्रुवेणैव तु यद्धविः ।हूयते चानुपस्त्रीर्य्य उपघातः उच्यते
यद्युपघातं जुहुयाच्चरावाज्यं समापयेत् ।मेक्षणेन तु होतव्यं नाज्यभागो स्विष्टिकृत्
”अनुपस्तीर्य्य इत्यनेन स्रुचि यच्चतुरावर्त्तं पञ्चा-वर्त्तं वा घृतोपस्तरणादिकं तदत्र नास्ति तेनमेक्षणादिना सकृत् गृहीत्वा होतव्यम्
*
प्रकृतहोमात् प्राक् वह्निपूजनमाह मार्कण्डेय-पुराणम् ।“पूजयेच्च ततो वह्रिं दद्याच्चाप्याहुतीः क्रमात् ।”तत इति वह्नेर्नामकरणध्यानानन्तरम् ।होमानुष्ठाने स्मृतिः ।“मन्त्रेणोङ्कारपूर्व्वेण स्वाहान्तेन विचक्षणः ।स्वाहावसाने जुहुयाद्ध्यायन् वै मन्त्रदेवताम्
”ततस्तद्बिष्णोरितिमन्त्रेण चरुणा होमयेत् एवंव्याहृत्या प्रत्येकं भूरित्यादिना गायत्त्र्यासावित्र्या तद्बिप्रासेति तद्विप्रासो विपण्यवोजागृवांस इत्यादिना विश्वत इति विश्वत-श्चक्षुरुत विश्वतोमुख इत्यादिना वेदाद्यैःअग्निमीले इत्यादिना इषेत्वोर्ज्येत्वा इत्यादिना ।अग्न आयाहि इत्यादिना शन्नो देवीरित्यादिनाचतुर्भिः भूरग्नये इत्याद्यष्टभिः ततः सोमंराजानमित्यादिना ततो लोकपालेभ्य इत्या-दिना स्वस्वमन्त्रैस्तत्तद्वेदोक्तदशदिक्पालमन्त्रैः ।तत्र सामगानां इन्द्रस्य त्रातारमित्यादिना ।अग्नेश्च अग्निं दूतं वृणीमहे इत्यादिना यमस्यनाके सुपर्णमित्यादिना निरृतेर्वेत्थाहि निरृ-तीनां इत्यादिना वरुणस्य घृतवती भुवनाना-मित्यादिना वायोः वात आवातु भेषजं इत्या-दिना सोमस्य सोमं राजानमित्यादिना ।ईशानस्य अभित्ता शूरणो नुम इत्यादिना ।ब्रह्मणो ब्रह्मयज्ज्ञानं प्रथममित्यादिना अन-न्तस्य चर्षणीधृतमित्यादिता तथा गोभि-लीयकर्म्मप्रदीपे ।“त्रातारमिन्द्रमवितारमिन्द्रस्य परिकीर्त्तितः ।अग्निं दूतं वृणीमहे वह्रेर्मन्त्रो यमस्य वै
नाके सुपर्णसुपयत् वेत्थाहिर्णिरृतेस्तथा ।घृतवतीति वरुणस्य वात आवातु भेषजम्
वायोर्मन्त्रः समुद्दिष्टः सोमं राजानमित्यृचा ।सोमस्य मन्त्रः कथितस्त्वभित्वेऽतीश उच्यते
”ईशे ईशानस्य ।“ब्रह्मयज्ज्ञानं प्रथमं ब्रह्मणः परिकीर्त्तितः ।चर्षणीधृतमिति सर्पस्य समुदाहृतः
”ग्रहेभ्यः नवग्रहेभ्यः स्वस्वमन्त्रैः सर्व्ववेदसाधा-रणैः सूर्य्यस्याकृष्णेनेत्यादिना सोमस्याप्याये-त्यादिना मङ्गलस्याग्निर्मूद्धा इत्यादिना बुध-स्याग्ने विवस्वदित्यादिना बृहस्पतेर्बृहस्पतेपरिदीयेत्यादिना शुक्रस्य शुक्रन्तेऽन्यद्यजतन्तइत्यादिना शनैश्चरस्य शन्नो देवीरित्यादिना ।राहोः कयानश्चित्रेत्यादिना केतोः केतुं कृण्व-न्नित्यादिना तथा मत्स्यपुराणम् ।“आकृष्णेनेति सूर्य्याय होमः कार्य्यो विजानता ।आप्यायस्वेति सोमाय मन्त्रेण जुहुयात् पुनः
अग्निर्मूर्द्धा दिवो मन्त्रमिति भौमाय कीर्त्तयेत् ।अग्ने विवस्वदुषस इति सोमसुताय ।बृहस्पते परिदीया रथेनेति गुरोर्मतः ।शुक्रन्तेऽन्यदिति शुक्रस्यापि निगद्यते
शनैश्चरायेति पुनः शन्नो देवीति होमयेत् ।कयानश्चित्र आभुव दूती राहोरुदाहृतः ।केतुं कृण्वन्निति कुर्य्यात् केतूनामुपशान्तये
”एवं चरुहोमं समाप्य चरुशेषेण प्राच्यादि-दिग्भ्यः पायसवलिं दद्यात् तद्यथा एषपायसवलिः ओँ प्राच्यै दिशे नमः इत्यादिना ।दक्षिणायै दिशे स्वाहा इति श्रुतिदर्शनात् हरि-हरपद्धतिकृत्यप्रदीपाभ्यां स्वाहान्तेन बलिदान-मुक्तम् वस्तुतस्तु वलिप्रकरण एव प्राच्यूर्द्धा-वाचीभ्योऽहरहर्तित्यं प्रयोग इति गोभिलसूत्रेस्त्रीलिङ्गनिर्द्देशात् दिशां देवतात्वं वलौ प्रती-यते अत्र त्ववाचीतिपाठात् श्रुत्युक्तहोमीयेदक्षिणायै इत्यनादृत्य ओँ अवाच्यै दिशे नमइति वलौ प्रयुज्यते एभिर्मन्त्रैस्तद्विष्णोः परमंपदं इत्यादियावन्मन्त्रैः आज्यन्त्विति तुशब्देनसमिद्धोमे तेषां व्यावर्त्तनात् मन्त्राकाङ्क्षायां प्राथ-मिकत्वेन तद्बिष्णोरित्यस्य परिग्रहः ततस्त-द्बिष्णोरिति मन्त्रेण स्वाहान्तेन घृताक्तपलाश-समिद्भिरष्टोत्तरशतं जुहुयात् पूर्व्वोक्तमन्त्रैःपूर्व्वोक्तदेवताभ्यः स्रुवेणाज्याहुतीर्जुहुयात् ।पुरुषसूक्तस्तत्तद्वेदोक्तः तत्र सामगानाम् ओँइदं विष्णुरिति प्रेक्षकस्य विष्णोरिति प्राकाव्य-मुषलेव ब्रुवाण इति सहस्रशीर्षेति त्रिपा-दूर्द्ध्व इति पुरुष एवेदमिति एतावानस्यइति ततो विराडिति कयान इत्यादि पुरुष-सूक्तम् तथा सामिधेनी श्रुतिः इदंविष्णुः प्रेक्षकस्य विष्णोः प्राकाव्यमुषलेवब्रुवाणः इति वाराहमन्त्यं पुरुषव्रते चैषावैष्णर्वानामसहितेनां प्रयुञ्जन् विष्णुः प्रीणातिइति प्राकाव्यमुषलेव ब्रुवाण इति वाराहमन्त्य-मित्यनेन एको मन्त्रः प्रकाशितः पुरुष इत्य-नेन पुरुषपदयुक्तपञ्चमन्त्राः व्रते इत्यनेन कयान-श्चित्र इत्येको मन्त्रः सामगो जुहुयात् ।यजुर्व्वेदी तु तत्र प्रसिद्धाभिः सहस्रशीर्षेत्यादिऋग्भिः षोडशाहुतीर्जुहुयात् इरावतीतितिलान् धृताक्तान् सकृज्जुहुयात् एवंब्रह्मानु-यायिभ्यः म्वाहा विष्ण्वनुयायिभ्यः स्वाहाईशानानुयायिभ्यः स्वाहा एवं पूर्व्वोक्तनव-ग्रहमन्त्रैः पूर्व्वोक्तैर्दिक्पालमन्त्रैश्च जुहुयात् ।एवं पर्व्वतेभ्यः स्वाहा नदीभ्यः स्वाहा नदेभ्यःस्वाहा समुद्रेभ्यः स्वाहा भूः स्वाहा भुवःस्वाहा इति जुहुयात् ततः परिभाषासिद्धंस्वशाखोक्तमहाव्याहृतिहोमं प्रायश्चित्तहोमञ्चकृत्वा स्रुचा तद्बिष्णोरिति मन्त्रेण वौषडन्तेनपूर्णाहुतित्रयमुत्थाय जुहुयादिति विशेषोपा-दानात् नात्र स्वशाखोक्तपूर्णहोमः ततःपञ्चगव्यं चरुशेषं प्राश्य घ्रात्वा वा हेमयुक्तंसवस्त्रं तिलपात्रं अलङ्कृतां गाञ्च दक्षिणा-माचार्य्याय दद्यात् आचार्य्यपदञ्च ।“उदाहरति वेदार्थान् यज्ञविद्याः स्मृतीरपि ।श्रुतिस्मृतिसमापन्नमाचार्य्यं तं विदुर्बुधाः
”इति छन्दोगपरिशिष्टात्
कर्म्मोपदेष्टुराचार्य्यत्वेन आचार्य्यपदं स्वयं होतृ-पक्षे ब्रह्मपरं अन्यहोतृपक्षे ब्रह्महोतृद्वयपरम् ।स्वयं ब्रह्महोतृकर्म्मकरणपक्षे पुस्तकधारक-परम् ।“ब्रह्मणे दक्षिणा देया यत्र या परिकीर्त्तिता ।कर्म्मान्तेऽनुच्यमानायां पूर्णपात्रादिका भवेत्
विदध्याद्धौत्रमन्यश्चेद्दक्षिणार्द्धहरो भवेत् ।स्वयञ्चेदुभयं कुर्य्यादन्यस्मै प्रतिपादयेत्
”इति छन्दोगपरिशिष्टैकवाक्यत्वात्
एवं ब्रह्मविधिना अग्निस्थापनादि प्रीयतां भग-वान् विष्णुरित्यन्तकर्म्मसंस्कृतगोपथादिदान-नियमव्रतकृच्छ्रादिकरणान्यतररूपा समुदाय-प्रतिष्ठा कर्त्तव्या समुदायस्य प्रकृतगोपथादेःप्रतिष्ठा समुदायप्रतिष्ठा तथा कपिलपञ्च-रात्रम् ।“प्रतिष्ठाशब्दसंसिद्धिः प्रतिपूर्व्वाच्च तिष्ठतेः ।बह्वर्थत्वान्निपातानां संस्कारादौ प्रतेःस्थितिः
”तथा गोपथादेरुक्तकर्म्मसंस्कृतस्य फलजन-कत्वम् अप्रतिष्ठन्तु निष्फलमित्युक्तेः एतद्-व्रतकर्म्मणा प्रीयतां भगवान् विष्णुरिति समा-प्नुयात्
*
अथ व्रतप्रतिष्ठाप्रयोगः तत्रकृतनित्यक्रियः कथान्तं व्रतं समाप्य तत्तद्देवता-प्रीतिकामो यथाशक्ति दानादि दद्यात् ।“व्रते देवगृहोत्सर्गे कूपादीनां प्रतिष्टने ।दद्यात् षोडशदानानि द्विषड्दानानि चैव वा
”इति दानसागरधृतवचनात्
ओँ तत् सदित्युच्चार्य्य ओँ अद्येत्याति अमुक-गोत्रोऽमुकदेवशर्म्मा तत्तद्व्रतफलप्राप्तिकामःकृतैतत् अमुकव्रतप्रतिष्ठामहं करिष्ये स्त्रीचेद्व्रतकारिणी तदा अमुकगोत्रामुकी देवी-त्याद्यूह्यं इति सङ्कल्पं कुर्य्यात् ततो घटं संस्थाप्यपञ्च देवान् संपूज्य गौर्य्यादिषोडशमातृकाःसंपूज्याः पुरुषश्चेत्तदा नान्दीश्राद्धं कुर्य्यात् ।तत उत्तराभिमुखं ब्राह्मणमुपवेश्य तत्समीपेआसनमानीय प्राङ्मुखो यजमानः ओँ साधुभवानास्तां इति कृताञ्जलिर्वदेत् ओँ साध्वह-मासे इति प्रतिवचनम् ओँ अर्च्चयिष्यामोभवन्तं इति पुनरुक्ते ओँ अर्च्चयेति प्रतिवचनम् ।ततो वस्त्रालङ्कारगन्धपुष्पादिभिरभ्यर्च्च्य दक्षिणंजानु धृत्वा ओँ अद्येत्यादि अमुकगोत्रममुक-देवशर्म्माणमर्च्चितं कृतैतदमुकव्रतप्रतिष्ठाकर्म्मणिहोमादिकर्म्मकरणाय भवन्तमहं वृणे ओँवृतोऽस्मीति प्रतिवचनम् ओँ यथाविहितंवृतकर्म्म कुरु ओँ यथाज्ञानं करवाणि इतिप्रतिवचनम् ततो वेदीं पञ्चगव्येनाभ्युक्ष्य पूर्व्वेपञ्च घटान् घटमेकं वा संस्थाप्य प्रथमलिखित-क्रमेण भूतशुद्ध्यादिगणेशादिपूजां विधायतत्तद्-देवतां क्रमेण पूजयेत् ततो होता स्वगृह्योक्त-विधिनाग्निं संस्थाप्य ब्रह्मस्थापनानन्तरं चरु-श्रपणं कुर्य्यात् अन्यत् सर्व्वं प्रतिष्ठापद्धतौज्ञेयम्
*
अथ व्रतप्रयोगः स्वस्तिवाचनं कृत्वासूर्य्यः सोम इति पठित्या सङ्कल्पं कुर्य्यात् अद्ये-त्यादि अमुककामोऽमुकव्रतमहं करिष्ये व्रता-वृत्तौ आवृत्तिसंख्यामुल्लिखेत् अद्यारभ्येति ।उदङ्मुखो भूत्वा एतत् कुर्य्यात् ओँ यसःक्षित्यै नम इति स्थण्डिलं मार्जयेत् ओँ सइत्यभ्युक्षयेत् वामहस्तेन स्थण्डिलं गृहीत्वाकुशेन प्रणवपूर्व्वकं चतुर्थ्यन्तव्रतदेवतानामलिखेत् हस्तप्रमाणं स्थण्डिलं चतुरस्रं सित-तण्डुलेनापूर्य्य मध्ये वितस्त्यूर्द्ध्वकर्णिकं हरिद्रा-चूर्णेन तद्वहिर्वितस्तिप्रमाणान्यन्योन्यसक्तानिअष्टदलानि सिततण्डुलचूर्णेन पत्रमूले केशराणिकुसुम्भचूर्णेन पत्रसन्धीर्विल्वादिपत्रचूर्णेन पीठ-गात्राणि दग्धपुलाकजेन कृत्वा घटं संस्थाप्यसामान्यार्घ्यं कृत्वा तदुदकेनात्मानं पूजोपकरण-ञ्चाभ्युक्ष्य गणेशादीन् नवग्रहांश्चैव पूजयेत् ।ततो व्रतदेवताः पूजयेत् इति व्रततत्त्वम्
*
अथ व्रतलक्षणम् दीर्घकालानुपालनीयसङ्कल्पोव्रतमिति नारायणोपाध्यायानां स्वरसः ।स्वकर्त्तव्यविषयो नियतः सङ्कल्पो व्रतमितिश्रीदत्तहरिनाथवर्द्धमानप्रभृतयः
सङ्कल्पश्चभावे मयैतत् कर्त्तव्यमेव निषेधे कर्त्तव्यमितिज्ञानविशेषः अतएव सङ्कल्पः कर्म्ममानस-मित्याभिधानिकाः वस्तुतस्तु पूर्व्वोक्तवराह-पुराणववनेनैकादश्युपवासस्य व्रतत्वाभिधानात् ।“एकभक्तेन नक्तेन तथैवायाचितेन ।उपवासेन चैकेन पादकृच्छ्र उदाहृतः
”इत्यादि याज्ञवल्क्यादुक्तेषु एकभक्तनक्तायाचित-भोजनोपवासादिषु पादकृच्छ्रादित्वाभिधानाच्चन सङ्कल्पो व्रतम् किन्तु सङ्कल्पविषयतत्तत्-कर्म्मैव व्रतमिति अतएव व्रतानां सङ्कल्पसम्भव-त्वमाह मनुः ।“सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः ।व्रता नियमधर्म्माश्च सर्व्वे सङ्कल्पजाः स्मृताः
”अनेन कर्म्मणा इदमिष्टं फलं साध्यते इत्येवंविषया बुद्धिः सङ्कल्पस्तदनन्तरमिष्टसाधनतयाअवगते तस्मिन् इच्छा जायते ततस्तदर्थं प्रयत्नंकुर्व्वीत इत्येवं यज्ञाः सङ्कल्पसम्भवाः व्रतानियमरूपा धर्म्माश्चतुर्थाध्याये वक्ष्यमाणाः ।सर्व्वे इत्यनेन अन्येऽपि शास्त्रार्थाः सङ्कल्पादेवजायन्ते इति कुल्लूकभट्टः
*
सङ्कल्पमाहवराहपुराणम् ।“प्रातः सङ्कल्पयेद्बिद्बानुपवासव्रतादिकम् ।नापराह्णे मध्याह्रे पित्र्यकालौ हि तौस्मृतौ
”सङ्कल्प व्रतस्यारम्भ इत्युक्तं राघवधृतो विष्णुः ।“व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे ।आरब्धे सूतकं स्यादनारब्धे तु सूतकम्
आरम्भो वरणं यज्ञे सङ्कल्पो व्रतजापयोः ।नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिष्क्रिया ।निमन्त्रणन्तु वा श्राद्धे आरम्भः स्यादितिश्रुतिः
”पाकपरिष्क्रियेति साग्नेर्दर्शश्राद्धविषयम् तत्रैवतस्याग्न्युद्धरणविधानेन तदग्निपाकस्यासाधा-रणत्वात्
*
सङ्कल्पविधानन्तु संवत्सरप्रदीपे ।“प्रातःसन्ध्यां ततः कृत्वा सङ्कल्पं बुध आचरेत् ।”शान्तिपर्व्वणि ।“गृहीत्वौडुम्बरं पात्रं वारिपूर्णमुदङ्मुखः ।उपवासन्तु गृह्णीयाद्यद्बा सङ्कल्पयेद्बुधः
देवतास्तस्य तुष्यन्ति कामिकं तस्य सिध्यति ।अन्यथा तु वृथा मर्त्त्याः क्लिश्यन्ति स्वल्प-बुद्धयः
”यद्बेति पक्षान्तरम् तेन ताम्रपात्राभावेसङ्कल्पमात्रं करणीयम्
*
गृहीतव्रताकरणेदोषमाह छागलेयः ।“पूर्व्वं व्रतं गृहीत्वा यो नाचरेत् काममोहितः ।जीवन् भवति चाण्डालो मृतः श्वा चैव जायते
द्वादशीव्रतमादाय व्रतभङ्गं करोति यः ।द्वादशाब्दं व्रतं चीर्णं निष्फलं तस्य जायते
”इति नारदीयवचनात् द्वादश्यां विशेषोऽपि
*
प्रायश्चित्तमाह पद्मपुराणम् ।“लोभान्मोहात् प्रमादाद्बा व्रतभङ्गो यदाभवेत् ।उपवासत्रयं कुर्य्यात् कुर्य्याद्बा केशमुण्डनम् ।प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत्
”वाशब्दः समुच्चये तेन मुण्डनञ्च कर्त्तव्यमितिप्रायश्चित्तविवेकः
प्रमादादस्य सकृत्कृतत्वेप्रतिप्रसूते देवलः ।“सर्व्वभूतभयं व्याधिः प्रमादो गुरुशासनम् ।अव्रतघ्नानि कथ्यन्ते सकृदेतानि शास्त्रतः
”इत्येकादशीतत्त्वम्
*
पुण्यजनकव्रतानि यथा वैशाखस्य शुक्लतृती-यायां अक्षयतृतीयाव्रतम् तस्य शुक्ला द्वादशीपिपीतकी तच्चतुर्द्दशी नृसिंहचतुर्द्दशी ३तस्य कृष्णाष्टमी त्रिलोचनाष्टमी तस्य कृष्ण-चतुर्द्दशी सावित्री ज्यैष्ठशुक्लतृतीया रम्भा-तृतीया तस्य शुक्ला चतुर्थी उमाचतुर्थी ७तस्य शुक्ला षष्ठी अरण्यषष्ठी तच्चतुर्द्दशीचम्पकचतुर्द्दशी आषाढी शुक्लैकादशी शयनै-कादशी १० श्रावणी कृष्णाष्टमी श्रीकृष्णजन्मा-ष्टमी ११ भाद्रशुक्ला चतुर्थी शिवा चतुर्थी १२तस्य शुक्ला षष्ठी चपेटा षष्ठी १३ तस्य शुक्लासप्तमी ललिता सप्तमी तत्र कुक्कुटीव्रतम् १४तस्य शुक्लाष्टमी दूर्व्वाष्टमी १५ राधाष्टमी च१६ तस्य शुक्ला नवमी तालनवमी १७ तस्यशुक्लैकादश्यां पार्श्वपरिवर्त्तनव्रतम् १८ तस्यशुक्ला द्बादशी श्रवणद्बादशी १९ तस्य शुक्लाचतुर्द्दशी अनन्तचतुर्द्दशी २० तस्य कृष्णाचतुर्थी गणेशचतुर्थी २१ आश्विनशुक्लाष्टमीमहाष्टमी २२ कार्त्तिकशुक्ला नवमी दुर्गानवमी२३ तस्य शुक्लैकादशी उत्थानैकादशी २४ तस्यशुक्ला चतुर्द्दशी पाषाणचतुर्द्दशो २५ तन्मासी-यैकादश्यादिपञ्चतिथ्यात्मकं वकपञ्चकम् २६वृश्चिकसंक्रान्त्यां सर्व्वजयाव्रतम् २७ कार्त्ति-केयव्रतञ्च २८ अग्रहायणस्य शुक्ला षष्ठी गुह-षष्ठी २९ तस्य शुक्ला सप्तमी मित्रसप्तमी ३०तस्य शुक्ला द्वादशी अखण्डा द्बादशी ३१ माघ-शुक्ला चतुर्थी वरदा चतुर्थी ३२ तस्व शुक्ल-पञ्चन्यां श्रीपञ्चमीव्रतं षड्वर्षनिष्पाद्यम् ३३तस्य शुक्ला षष्ठी शीतला षष्ठी ३४ तस्य शुक्लासप्तमी आरोग्यसप्तमी ३५ तस्य शुक्लैकादशीभीमैकादशी ३६ तद्द्वादशी वराहद्वादशी ३७तस्य कृष्णा चतुर्द्दशी शिवरात्रिः ३८ फाल्-गुनशुक्ला द्बादशी गोविन्दद्बादशी ३९ चैत्र-कृष्णा षष्ठी स्कन्दषष्ठी ४० चैत्रशुक्लाष्टमीअशोकाष्टमी ४१ तस्य शुक्ला नवमी श्रीराम-नवमी ४२ तस्य शुक्ला त्रयोदशी मदनत्रयो-दशी ४३ इति स्मृतिः
*
अयाचितव्रतंनक्तव्रतं उमामाहेश्वरव्रतं शङ्करनारायणव्रतंदेवीपुराणे कृष्णाष्टमीव्रतनामाध्याये सम्मा-र्जनमाहात्म्याध्याये द्रष्टव्यम्
*
तिथ्यादि-व्रतं गारुडे ११६ अध्याये अगस्त्यार्घ्यव्रतंगारुडे ११९ अध्याये चातुर्मास्यव्रतानि गारुडे१२१ अध्याये भीष्मपञ्चकादिव्रतं गारुडे १२३अध्याये द्रष्टव्यम्
*
कार्त्तिकस्नानव्रतंकार्त्तिकव्रतं कार्त्तिकप्रदीपदानव्रतञ्च पाद्मोत्तर-खण्डे १४० अध्याये द्रष्टव्यम्
*
प्रतिपत्कल्पेब्रह्मव्रतम् द्वितीयाकल्पे पुष्पद्बितीयाव्रतं फल-द्बितीयाव्रतञ्च तृतीयाकल्पे गौरीव्रतम् ।चतुर्थीकल्पे गणेशचतुर्थी पञ्चमीकल्पे भाद्र-शुक्ला पञ्चमी नागपञ्चमी षष्ठीकल्पे भाद्र-शुक्ला षष्ठी गुहषष्ठी सप्तमीकल्पे माघशुक्ल-सप्तमी रथसप्तमी शुक्लपक्षे रविवारे सप्तम्यांरोहिणीनक्षत्रयोगे विजयासप्तमी रविवारेसंक्रान्तौ आदित्यहृदयव्रतम् शुक्लपक्षीय-सप्तम्यां पञ्चतारकनक्षत्रयोगे जया सप्तमी ।माघशुक्लसप्तमी जयन्ती भाद्रशुक्लसप्तमीअपराजिता सप्तमी शुक्लपक्षे सप्तम्यां रवि-संक्रमणे महाजया सप्तमी मार्गशीर्षस्यशुक्ला सप्तमी नन्दा सप्तमी शुक्लसप्तम्यां हस्ता-नक्षत्रयोगे भद्रासप्तमीव्रतम् फाल्गुनस्य शुक्लासप्तमी कामदा सप्तमी पापनाशिनी सप्तमी-व्रतम् भानुपदव्रतम् सर्व्वव्याप्तिसप्तमीव्रतम् ।मार्त्तण्डसप्तमीव्रतम् भाद्रशुक्लसप्तमी नत-सप्तमी श्रावणशुक्लसप्तमी अभ्यङ्गसप्तमी ।मार्गशीर्षस्य सितसप्तम्यां हस्तानक्षत्रयोगेत्रितयप्रदाव्रतम् इति भविष्यपुराणम्
*
उत्तरायणे शुक्लपक्षे बुधवारे अष्टमी बुधाष्टमी ।अमावस्याव्रतम् वैशाखीपूर्णिमा मिष्टपूर्णिमा ।मेषसंक्रान्तौ मधुसंक्रान्तिः जलसंक्रान्तिः ।फलसंक्रान्तिः अन्नसंक्रान्तिः दधिसंक्रान्ति-व्रतञ्च
*
अथ व्रतविधिः तत्र व्रतधर्म्माः ।तत्र विष्णुहारीतौ ।“दिनान्ते नखरोमादीन् प्रवाप्य स्नानमाचरेत् ।भस्मगोमयमृद्बारिपञ्चगव्यादिकल्पितम्
मलापकर्षणं कार्य्यं बाह्याशौचात्मसिद्धये ।दन्तधावनपूर्व्वेण पञ्चगव्येन संयुतम् ।व्रतं निशामुखे ग्राह्यं वहिस्तारकदर्शने
”तेन प्रायश्चित्तव्रतारम्भे पूर्व्वदिने पञ्चगव्यंप्राश्य दन्तधावनं कृत्वा सायं समये व्रतसङ्कल्पःकर्त्तव्यः वशिष्ठः श्मश्रुकेशनखान् वापयेदक्षि-लोमशिखावर्ज्जम् केशधारणेच्छायां द्विगुण-व्रतमाह हारीतः ।“राजा वा राजपुत्त्रो वा ब्राह्मणो वा बहुश्रुतः ।केशानां वपनं कृत्वा प्रायश्चित्तं समाचरेत्
केशानां धारणार्थन्तु द्विगुणं व्रतमाचरेत् ।द्बिगुणे तु व्रते चीर्णे दक्षिणा द्विगुणा भवेत्
*स्त्रियाः केशवपनं कार्य्यमित्याह बौधायनः ।कृच्छ्रेत्रिसवनमुदकोपस्पर्शनमधःशयनमेकवासताकेशश्मश्रुनखरोमवापनं एतदेव स्त्रियाः केश-वपनवर्ज्जम् पञ्चगव्यघृतप्राशनयोर्व्विकल्पः ।तथा शङ्खलिखितौ ।“वाप्य केशनखान् पूर्व्वं घृतं प्राश्य वहिर्निशि ।प्रत्येकं नियतं कालमात्मनो व्रतमादिशेत्
प्रायश्चित्तमुपासीनो वाग्यतस्त्रिसवनं स्पृशेत् ।एकवासार्द्रवासा वा लघ्वाशी स्थण्डिलेशयः
स्नानी वीरासनी मौनी मौञ्जी दण्डकमण्डलुम् ।भैक्षचर्य्याग्निकार्य्यञ्च कुष्माण्डैर्जुहुयाद्घृतम्
”प्रत्येकं नियतं कालमिति व्रतसंख्या सङ्कल्प-वाक्ये उल्लेखनीया इत्यर्थः वीरासनी भित्त्या-द्यनाश्रितः दण्डकमण्डलुं आर्षत्वात् मतुपोलोपेन तेनैतद्युक्त इत्यर्थः कुष्माण्डैर्यद्देवादेवहेलनमित्यादिमन्त्रैः मनुः ।“महाव्याहृतिभिर्होमः कर्त्तव्यः स्वयमन्व-हम् ।अहिंसासत्यमक्रोधमार्ज्जवञ्च समाचरेत् ।त्रिरह्रस्त्रिर्निशायाञ्च सवासा जलमाविशेत्
”त्रिरह्रस्त्रिर्निशायाञ्च इति षट्स्नानविषयमिदम् ।पिपीलिकामध्यचान्द्रायणादितप्तकृच्छ्रवर्ज्जं फला-तिशयार्थं वहुषु त्रिसवनविधानात् तथा ।“स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हिचित् ।स्नानासनाभ्यां विहरेदशक्तोऽधःशयी भवेत्
ब्रह्मचारी व्रती स्याद्गुरुदेवद्विजार्च्चकः ।सावित्रीञ्च जपेन्नित्यं पवित्राणि शक्तितः
सर्व्वेषु व्रतेष्वेवं प्रायश्चित्तार्थमादृतः
”ब्रह्मचारी मैथुनवर्ज्जं व्रती छत्रोपानहमाल्या-ञ्जनगन्धादिवर्ज्जम् शूद्रेण सावित्रीजपस्थानेनारायणादिमन्त्रजपः कार्य्यः अन्यद्बारा वाकारयितव्यः एवमन्यत्रापि यथा वराह-पुराणम् ।“अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते
”जावालः ।“आरम्भे सर्व्वकृच्छ्राणां समाप्तौ विशेषतः ।आज्येनैव हि शालाग्नौ जुहुयाद्ब्याहृतीःपृथक्
आद्धं कुर्य्याद्व्रतान्ते गोहिरण्यादिदक्षि-णाम् ।गृहे गृही वसन् कुर्व्वन् ब्रह्मलोके महीयते
स्त्रीणां होमो कर्त्तव्यः पञ्चगव्यन्तथैव ।शूद्राणां पापिनाञ्चैव संवादं कारयेत्
संवादस्तु कर्त्तव्यस्त्रिवर्णैश्च कदाचन ।ब्राह्मणेनैव वक्तव्य उत्पन्ने प्राणसंशये
”श्राद्धमिति शुद्ध्यर्थं श्राद्धं दर्शितम् स्त्रीभि-र्होमो कर्त्तव्यः पञ्चगव्यपानञ्च कृत्यानांकर्त्तरि वेति षष्ठी प्रारब्धव्रतपीडया प्राण-संशये अन्ये वर्णा प्रष्टव्या ब्राह्मण एवप्रष्टव्यः व्रतं मौनं पूर्व्वोक्तं तत्र विशेषमाहआपस्तम्बः तत्र मौनमुक्तं त्रैविद्यवृद्धैर्मुनिभि-रन्यैराश्रमिभिर्ब्बहुशुतैर्दन्तैर्द्दन्तान् सन्धायान्त-र्मुख एव यावद्यावदर्थं भाषते मन्त्रलोपोभवतीति विज्ञायते मन्त्रलोपो व्रतलोपः ।बालवृद्धादिभिरङ्गहीनमपि व्रतं कार्य्यमित्याहकघुविष्णुः ।“असंस्कृतो निरुत्साहो रोगी नवतिजीवकः ।यथाशक्ति प्रकुर्व्वीत व्रतं ह्येषु लुप्यते
”अशक्तावन्यद्वारापि कार्य्यमिति उक्तञ्च ब्रह्म-पुराणे ।“रोगी वृद्धस्तु पोगण्डः कुर्व्वन्त्यन्यैर्व्रतं सदा ।चतुर्थाद्वत्सरादूर्द्धमष्टमं यावदेव हि
शिशोर्व्रतं प्रकुर्व्वीरन् गुरुसम्बन्धिबान्धवाः ।गुर्व्विणी बालवत्सा रोगी द्रव्यपरायणः
एते नक्तेषु भुञ्जन्ति बाला मध्याह्न एव ।व्रतस्थः प्राणरक्षार्थं कदाचिदुदकं पिबेत्
फलमूले तथा क्षीरं यज्ञशिष्टं तथा हविः ।व्रतमध्ये तु रोगार्त्तो वैद्यप्रोक्तमथौषधम
करोति गुरोर्व्वाक्यं व्रतस्थस्तत्क्षणादपि ।ब्राह्मणस्याभिलषितं साधयेदविचारयन्
एतान्यष्टौ व्रतस्थानामव्रतघ्नानि कुत्रचित् ।व्रतेष्वेतेषु देवांस्तान् व्रतस्थस्तु प्रपूजयेत्
”पोगण्डो बालः द्रव्यपरायणः कुटुम्बी द्रव्या-र्जनपालनपरः सन्नित्यर्थः बौधायनः ।“अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।हविर्ब्राह्मणकाम्या गुरोर्व्वचनमौषधम्
”हारीतयमौ ।“वलयश्चोपहारश्च हवींषि चरवस्तथा ।निर्व्विशङ्केन भोक्तव्यं व्रतमस्य लुप्यते
”वलिर्वैश्यदेवादिदेवताभ्यो दत्तः उपहारोनैवेद्यम् चरुः पार्व्वणस्थालीपाकादि अत्रचैषां दत्तावशिष्टं भक्षणीयमिति देवलः ।“उपवासो विनश्येत दिवास्वप्नाक्षमैथुनैः ।अत्यये जलपानेन नोपवासः प्रणश्यति
”वृद्धशातातपः ।“गन्धालङ्कारवस्त्राणि पुष्पमाल्यानुलेपनम् ।उपवासे दुष्यन्ति दन्तधावनमञ्जनम्
”अलङ्कारवस्त्रसिन्दूरादि उपवासेन हेतुनाइत्यर्थः तथा ।“स्त्रीणां सम्प्रेक्षणात् स्पर्शात् ताभिः संकथना-दपि ।ब्रह्मचर्य्यं विपद्येत दारसङ्गमादपि
”संप्रेक्षणात् संकथनात् इति अत्र सरागत्वंसंशब्दस्यार्थः इति प्रायश्चित्तविवेकः
*
प्रायश्चित्तात्मकव्रतानि यथा विश्वामित्रः ।“कृच्छ्रचान्द्रायणादीनि शुद्ध्यभ्युदयकारणम् ।प्रकाशे रहस्ये संशयेऽनुक्तकेऽस्फुटे
प्राजापत्यः सान्तपनः शिशुकृच्छ्रः पराककः ।अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः कृच्छ्रातिकृच्छ्रकः
महासान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः ।जलोपवासकृच्छ्रस्तु ब्रह्मकूर्च्चस्तु शोधकः
एते व्यस्ताः समस्ता वा प्रत्येकमेकशोऽपि वा ।पातकादिषु सर्व्वेषु पापकेषु प्रयत्नतः
कार्य्याश्चान्द्रायणैर्युक्ताः केवला वा विशुद्धये ।शिशुचान्द्रायणं प्रोक्तं यतिचान्द्रायणं तथा
यवमध्यं तथा प्रोक्तं तथा पिपीलिकाकृति ।उपवासस्त्रिरात्रन्तु मासः पक्षस्तदर्द्धकम्
षडहर्द्वादशाहादि कार्य्यं शुद्धिफलार्थिना ।उपपातकयुक्तानामनादिष्टेषु चैव हि
प्रकाशे रहस्ये अभिसन्ध्याद्यपेक्षया ।जातिशक्तिगुणान् दृष्ट्वा सकृद्बुद्धिकृतं तथा ।अनुबन्धादिकं दृष्ट्वा सर्व्वं कार्य्यं यथाक्रमम्
”इति प्रायश्चित्ततत्त्वम्
*
द्बादशवार्षिकादिव्रतं प्रायञ्चित्तविवेकादौ द्रष्ट-व्यम्