| YouTube Channel

व्रणास्राव (vraNAsrAva)

 
Monier Williams Cologne
English
व्रणास्राव
m.
discharge from wounds or ulcers,
Suśr.
वाचस्पत्यम्
Sanskrit
व्रणास्राव
पु०
त० सुश्रुतोक्ते व्रणस्य पूयादिक्षरणे ।तद्विज्ञानं तत्रोक्तं यथा“अथातो व्रणास्रावविज्ञानीयमध्यायं व्याख्यास्यामः ।“त्वङ्मांससिरास्नःय्वस्थिसन्धिकोष्ठमर्माणीत्यष्टौ व्रणस्था-नानि अत्र सर्वव्रणसन्निवेशः तत्राद्यैकवास्तुसन्निवेशोत्वग्भेदी व्रणः सूप्रचरः शेषाः स्वयमवदीर्य्यमाणा दुरु-पचाराः तन्नायतश्चतुरस्रो वृत्तस्त्रिपुटक इति व्रणा-कृतिसमासः शेषास्तु विकृताकृतयो दुरुपक्रमा भ-वन्ति सर्व एव व्रणाः क्षिप्रं संरोहन्त्यात्मवतां सुभि-षग्भिश्चोपक्रान्ताः अनात्मनामज्ञैश्चोपक्रान्ताः प्रवृद्धत्वा-द्दोषाणाम् तत्रातिसंवृतोऽतिविवृतोऽतिकठिनोऽति-मृदुरुत्सन्नोऽवसन्नोऽतिशीतोऽत्युष्णः कृष्णरक्तपीतशुक्ला-दीनां वर्णानामन्यतमवर्णो भैरवः पूतिपूयमांससिरा-स्नायुप्रभृतिपूर्णः पूतिपूयस्राय्युन्मार्ग्युत्सङ्ग्यमनोज्ञ-दर्शनगन्धोऽत्यर्थं वेदनावान् दाहपाकरागकण्डूशो-थपिडकोपद्रुतोऽत्यर्थं दुष्टशीणितास्रावी दीर्घकाला-नुबन्धी चेति दुष्टव्रणलिङ्गानि तस्य दोषोच्छ्रायेणषट्त्वं विभज्य यथास्वं प्रतीकारे प्रयतेत अत ऊर्द्ध्वंसर्वास्रावान् वक्ष्यामः तत्र वृष्टासु छिन्नासु वा त्वक्षुस्फोटेषु भिन्नेषु विदारितेषु वा सलिलप्रकाशो भव-त्यास्नावः किञ्चिद्विस्रः पीतावभासश्च मांसगतः सर्पिःप्रकाशः सान्द्रः श्वेतः पिच्छिलश्च सिरागतः सद्य-श्छिन्नासु सिरासु रक्तातिप्रवृत्तिः पक्वासु तोयनाडीभिरिव तोयागमनं पूयस्यास्रावश्चात्र तनुर्विच्छिन्नः पि-च्छिलोऽवलन्वो श्यावोऽवश्यायप्रतिमश्च स्नायुगतःस्निग्धो घनः सिंहाणकप्रतिमः सरक्तश्च अस्थिगतो-ऽस्थून्यभिहते स्फुटिते मिन्ने दोषावदारिते वा दोषाव-क्षितत्वादस्थिनिःसारं शुक्तिधौतमिवाभाति आस्राव-श्चात्र मज्जमिश्रः सरुधिरः स्निग्धश्च सन्धिगतश्चपीड्यमानो प्रवर्त्तते आकुञ्चनप्रसारणोन्नमनविनम-नप्रधावनोत्कासनप्रवाहणैश्च स्रवति आस्रावश्चात्र पि-च्छिलोऽवलम्बी सफेनपूयरुधिरोन्मथितश्च कोष्ठगतोऽ-सृङ्मूत्रपुरीषपूयोदकानि स्रवति मर्मगतस्त्वगादिष्ववरु-द्धत्वान्नाच्यते तत्र त्वगादिगतानामास्रावाणां यथाक्रमंपारुष्यश्यावावश्यायदधिसस्तुक्षारोदकमांसधावनपुलाकोद-कसन्निभत्वानि मारुताद्भवन्ति पित्ताद्गोमेदोगोमूत्रभस्म-शङ्खकषायोदकमाध्वीकतैलसन्निभत्वानि पित्तवद्रक्ताद-तिविस्रत्वञ्च कफान्नवनीतकासीसमज्जपिष्टतिलनारि-केलोदकवराहवसासन्निमत्वानि सन्निपातात्तिलनारि-केलोदकेर्वारुकरसकाञ्जिकवसादारुकोदकप्रियङ्गुफलयकृ-न्मुद्गयूषसवर्णत्वानीति “श्लोकौ चात्र भवतः पक्वा-शयादसाध्यस्तु पुलाकोदकसन्निभः क्षारोदकनिमः स्रावोवर्ज्यो रक्ताशयात्स्रवन् आमाशयात्कलायाम्भोनि-भश्च त्रिकसन्धिजः स्रावानेतान् परीक्ष्यादौ ततःकर्माचरेद्भिषक्” अत ऊर्द्ध्वं सर्वव्रणवेदना वक्ष्यामः ।तोदनभेदनताडनच्छेदनायमनमन्थनविक्षेपणचुम्चुमायन-निर्दहनावभञ्जनस्थोटनविदारणोत्पाटनकम्पनविविधशूल-विश्लेषणविकिरणपूरणस्तम्भनस्वप्नावकुञ्चनाङ्गुशिकाः स-म्भवन्ति अनिमित्तविविधवेदनाप्रादुर्भावो वा मुहुर्मुहु-र्यत्रागच्छन्ति वेदनाविशेषास्तं वातिकमिति विद्यात् ।ऊपचोषपरिदाहधूमायनानि यत्र गात्रमङ्गारावकीर्ण-मिव पच्यते यत्र चोष्माभिवृद्धिः क्षते क्षारावसक्तिवच्चवेदनाविशेषास्तं पैत्तिकमिति विद्यात् पित्तवद्रक्तस-मुत्थं जानीयात् कण्डूर्गुरुत्वं सुप्तत्वमुपदेहोऽल्प-वेदनत्वं स्तम्भः शैत्यञ्च यत्र तं श्लैष्मिकमिति विद्यात् ।यत्र सर्वासां वेदनानां समुत्पत्तिस्तं सान्निपातिकमिति ।अत ऊर्द्ध्वं व्रणवर्णान् वक्ष्यामः भस्मकपोतास्थिवर्णःपरुषोऽरुणः कृष्ण इति मारुतजौक्तः नीलः पीतोहरितः श्यावः कृष्णो रक्तः कपिल इति रक्तपित्तसमु-त्थयोः श्वेतः स्निग्धः पाण्डुरिति श्लेष्मजस्य ।सर्ववर्णोपेतः सान्निपातिकस्य इति भवति चात्र “नकेवलं व्रणेषूक्तो वेदनावर्णसंग्रहः सर्वशोथविकारेषुव्रणवल्लक्षयेद्भिषक्”