व्रणशोथ (vraNazotha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritव्रणशोथ ६ त० । व्रणस्य स्फीतताकारके रोगभेदे तल्ल-क्षणादि भावप्र० उक्तं यथा“पृथक् समस्तदोषोत्था रक्तजागन्तुजौ तथा । व्रणशोथाःषडेते स्युः संयुक्ताः शोथलक्षणैः” शीथलक्षणैः पूर्वोक्तैः ।विशिष्टं रूपमाह “विषमं पच्यते वातात् पित्तोत्थश्चा-चिरञ्चिरम् । कफजः पित्तवच्छोथो रक्तागन्तुसमुद्भवौ” ।अपक्वस्य व्रणशोथस्य लक्षणमाह “मन्दोष्मताऽल्पशोथत्वंकाठिन्यं त्वक्सवर्णता । मन्दवेदनया चाऽपि शोथ-स्यासस्य लक्षणम्” । तस्य पच्यमानस्य लक्षणमाह “द-ह्यते दहनेनेव क्षारेणेव प्रपच्यते । पिपीलिकागणेनेवदश्यते छिद्यते तथा । भिद्यते चैव शस्त्रेण दण्डेनेवच ताड्यते । पीड्यते पाणिनेवान्तःसूचीभिरिव तुद्यते ।ऊषचोषी विवर्णः स्यादङ्गुल्येवावपीड्यते । आसने श-यने स्थाने शान्तिं वृश्चिकविद्धवत् । न गच्छेदाततःशोथो भवेदाध्मातवस्तिवत् । ज्वरस्तृष्णाऽरुचिश्चैतत् प-च्यमानस्य लक्षणम्” । छिद्यते द्विधा क्रियत इव । भि-द्यते विदार्य्यत इव । ऊषोदाहः । चोषः पार्श्वस्थाग्नि-नेव सन्तापः ताभ्यां युक्तः आततः त्वक्सङ्कोचरहितःवस्तिर्मूत्राशयश्चर्मपुटो वा । पक्वस्य लक्षणमाह “वेदनो-पशमः शोथो लोहितोऽल्पो न चोन्नतः । प्रादुर्भावोवलीनाञ्च तोदः कण्डूर्मुहुर्मुहुः । उपद्रवाणां प्रथमोनिम्नता स्फुटनन्त्वचाम् । वस्ताविवाम्बुसञ्चारः स्याच्छो-थेऽङ्गुलिपीडिते । पूयश्च पीडयेदेकमन्तमन्ते च पीडिते । बुभुक्षा व्रणशोथस्य भवेत् पक्वस्य लक्षणम्” ।वेदनोपशमः दाहादिदुःखोपशमः । अल्पलोहितइत्यन्वयः । न चोन्नतः पच्यमानापेक्षया । उपद्रवाणाज्वरादीनाम् । निम्नता स्वरूपतोऽङ्गुलिपीडनाद्वा अव-नतत्वम् । स्फुटनम् किञ्चिद्विदारणम् । वस्ताविवे-त्यादि शोथेऽङ्गुलीपीडिते सति अङ्गुलिपीडितदेशा-दन्यदेशे अम्बुसञ्चारः किञ्चित् । वस्तौ चर्मपुटके । एवम्अन्यैकदेशे पीडिते एक मन्तमपरमन्तमापूर्य पीड-यति । एकदोषारब्धेऽपि शोथे पाककाले सर्वदोषसम्बन्धमाह “ऋतेऽनिलान्नोष्म विना न पित्तं पाकः कफञ्चापिविना न पूयः । तस्माद्धि सर्वे परिपाककाले पचन्तिशोथास्त्रिभिरेव दोषैः” । पचन्ति पाकं प्राप्नुवन्ति ।एवशब्दोऽत्राप्यर्थः अव्ययानामनेकार्थत्वात् । पाकेमतान्तरमाह “कालान्तरे नाभ्युदितन्तु पित्तं कृत्वावशे वातकफौ प्रसह्य पचत्यतः शोणितमेष पाको मतःपरेषां विदषां द्वितीयः” । वशे कृत्वा हीनीकृत्य शो-णितं कर्म पूर्वत्र कफात् पूयोऽत्र शोणितात् पूय इतिभेदः । गम्भीरपाके शोथे पाकज्ञानार्थलक्षणान्तरमाहसुश्रुतः “कफजेषु च शोथेषु गम्भीरं पाकमेत्यसृक् ।पक्वलिङ्गं ततः स्पष्टं यतः स्याच्छोथशीतता । त्वक्-सावर्ण्यं रुजोऽल्पत्वं घनस्पर्शत्वमश्मवत्” । कफजेषुच शोथेषु गम्भीरमसृक् पाकमेति तत्र कथं पाकज्ञा-नमित्याह तत्र ततः कारणात् पक्वलिङ्गं स्पष्टम् ।यतः पच्यमानावस्थान्तर्गतरागदाहव्यथाघनान्तरे शोथशीतादयो भवन्ति । घनस्पर्शत्वं स्पर्शे व्यथायुतत्वम् । अ-निर्हतस्य पूयस्य दीषमाह “कक्षं समासाद्य यथैव वह्नि-र्वातरितः सन्दहति प्रसह्य । तथैव पूवोह्यविनि सृतस्तुमांसं सिराः स्नायुमपीह खादेत्” । कक्षं तृणवनम् ।शोथस्यामपक्वलक्षणज्ञानाज्ञाने भिषजां गुणदोषावाह“आमं विदह्यमानञ्च सम्यक्पक्वन्तु यो मिषक् । जानी-यात् स भवेद् वैद्यः शेंषास्तस्करवृत्तयः” । विदह्यमानंविपच्यमानम् । तस्करवृत्तयः तेषां तस्कराणामिव द्रव्य-लाभमात्रप्रयोजनं भवति । न तु धर्मयशोमैत्रीलाभः“यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते । श्वपचाविवविज्ञेयौ तावनिश्चित्यकारिणौ” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
