| YouTube Channel

व्रणकः-णिका (vraNakaH-NikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“व्रण गात्रविचूर्णने”@} 2 अदन्तः।
‘व्रणेच्छब्दार्थविषये व्रणयेद् गात्रचूर्णने’ 3 इति देवः।
धातुवृत्तौ ‘व्रणति इति दीप्त्यर्थे शपि’ इति दृश्यते।
भ्वादौ तु शब्दार्थे एव पठितः।
व्रणकः-णिका, विव्रणयिषकः-षिका, व्रणयिता-त्री, विव्रणयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककलयतिवत् 4 ऊह्यानि।
प्रासङ्गिक्यः
01
=>
(१६६३)
02
=>
(१०-चुरादिः-१९३७। सक। सेट्। उभ।)
03
=>
(श्लो। ९३)
04
=>
(१७६)