व्रण (vraNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishव्रण - vraNa - - scratch
व्रण - vraNa - - ulcer
व्रण - vraNa - - boil
व्रण - vraNa - - wound
व्रण - vraNa - - flaw
व्रण - vraNa - - blemish
व्रण - vraNa - - abscess
व्रण - vraNa - - scar
व्रण - vraNa - - tumour
व्रण - vraNa - - crack
व्रण - vraNa - - cancer
व्रण - vraNa - - cicatrix
व्रण - vraNa - - sore
व्रण - vraNa - - scratch
सुकण्डु - sukaNDu - - itch [ much-scratched ]
नखविलेखा - nakhavilekhA - - scratch
लेखा - lekhA - - scratch
रेखा - rekhA - - scratch
विलेखा - vilekhA - - scratch
रेख - rekha - - scratch
नखपद - nakhapada - - scratch
नखव्रण - nakhavraNa - - scratch
कण्डूयति { कण्डूय } - kaNDUyati { kaNDUya } - verb - scratch
अवलिखति { अवलिख् } - avalikhati { avalikh } - verb - scratch
आलिखति { आलिख् } - Alikhati { Alikh } - verb - scratch
उल्लिखति { उल्लिख् } - ullikhati { ullikh } - verb - scratch
कण्डूयते { कण्डूय } - kaNDUyate { kaNDUya } - verb - scratch
क्षुरति { क्षुर् } - kSurati { kSur } - verb - scratch
खुरति { खुर् } - khurati { khur } - verb - scratch
निकषति { निकष् } - nikaSati { nikaS } - verb - scratch
निकषते { निकष् } - nikaSate { nikaS } - verb - scratch
निर्लिखति { निर्लिख् } - nirlikhati { nirlikh } - verb - scratch
प्रलिखते { प्रलिख् } - pralikhate { pralikh } - verb - scratch
व्रण - vraNa - - ulcer
उत्सङ्गिन् - utsaGgin - - ulcer
पाक - pAka - - ulcer
नाडीव्रण - nADIvraNa - - ulcer
पूयव्रण - pUyavraNa - - ulcer
पूयक्षत - pUyakSata - - ulcer
अन्तःपूय - antaHpUya - - ulcerous
पूयत्रणिन् - pUyatraNin - - ulcerated
उपहत - upahata - - ulcerated
सक्षत - sakSata - - ulcerated
सव्रण - savraNa - - ulcerated
व्रणिन् - vraNin - - ulcerated
व्रणित - vraNita - - ulcerated
पूतिव्रण - pUtivraNa - - foul ulcer
रक्तपिटिका - raktapiTikA - - red boil or ulcer
शारीरव्रण - zArIravraNa - - bodily ulcer or tumour
व्रणायाम - vraNAyAma - - pain of a sore or ulcer
व्रणवस्तु - vraNavastu - - part liable to ulcerate
वृषणकच्छू - vRSaNakacchU - - ulceration of the scrotum
पादस्फोट - pAdasphoTa - - sore or ulcer on the foot
व्रणयित - vraNayita - - becoming sore or ulcerated
सर्वसर - sarvasara - - kind of ulcer in the mouth
पाटनक्रिया - pATanakriyA - - lancing an abscess or ulcer
पोथकि - pothaki - - kind of ulcer on the eyelids
अलस - alasa - - sore or ulcer between the toes
उत्सङ्ग - utsaGga - - bottom or deep part of an ulcer
व्रणास्राव - vraNAsrAva - - discharge from wounds or ulcers
पूय - pUya - - discharge from an ulcer or wound
सार - sAra - - matter formed in a boil or ulcer
व्रणशोषिन् - vraNazoSin - - pining away with wounds or ulcers
विवृता - vivRtA - - ulcer attended with much pain and heat
क्षत - kSata - - rupture or ulcer of the respiratory organs
रक्तनाडी - raktanADI - - fistulous ulcer on the gum caused by a bad state of blood
Wilson
EnglishApte
Englishव्रणः [vraṇḥ] णम् [ṇam], णम् [व्रण्-अच्]
A wound, sore, bruise, hurt
आत्मनः सुमहत् कर्म व्रणैरावेद्य संस्थितः 12.55.
A boil, an ulcer
व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनः 2.26.
A fracture, scar.
A flaw, blemish. -अरिः gum-myrrh. -कृत्
wounding.
corroding. (m. ) the marking-nut tree. -चिन्तकः a surgeon. -विरोपण, -संरोहण sore-healing
यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत 4.13. -शोधनम् the cleansing or dressing of a wound. -हः the castor-oil plant.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishव्रण, अस्, अम्, m. n. a wound, sore, ulcer, boil,
bruise, tumor
a fracture, scar, rent (see अ-व्°, cf. Manu
II. 47)
[cf. Gr. οὐλή (i. e. ϝολνη), ἄπ-ελος
Lat.
vulnus.]
—व्रण-कृत्, त्, त्, त्, making a sore,
wounding, ulcerating
corroding
(त्), m. the mark-
ing-nut plant, Semecarpus Anacardium.
—व्रण-
केतु-घ्नी, f. a kind of small shrub (= दुग्ध-
फेनी).
—व्रण-द्विष्, ट्, ट्, ट्, ‘hostile to sores, ’
healing sores
(ट्), m. the plant Siphonanthus Indica
(= ब्राह्मण-यष्टिका).
—व्रण-धूपन, अम्,
n. fumigating a sore.
—व्रण-वस्तु, n. a part liable
to ulcerate (as skin, flesh, &c.).
—व्रण-वेदना, f.
the pain of a wound or sore.
—व्रण-शोधन,
अम्, n. the cleansing or cicatrising of a sore.
—व्र-
ण-ह, अस्, m. ‘destroying sores, ’ the castor-oil tree
(आ), f. a sort of creeper or shrub (= गुडूची).
—व्र-
ण-हृत्, त्, m. ‘sore-removing, ’ a particular plant (=
कलि-कारी).
—व्रणारि (°ण-अरि), इस्, m. ‘enemy
of sores, ’ the plant Sesbana Grandiflora (= अगस्त्य-
वृक्ष)
gum-myrrh (= वोल).
Macdonell
EnglishBenfey
Englishव्रण व्रण,
1. A wound, Pañc.
170, 25.
2. A fracture, Man. 2, 47.
3.
A boil, a tumour, Hit. ii. d. 101.
--
अ-, 1. without any frac-
ture, Man. 2, 47. 2. without a wound
or perceivable injury, Suśr. 2, 311,
13(?).
अ-कृत-, a proper name,
Chr. 13, 11.
निस्-, 1. unwounded,
MBh. 7, 2742. 2. without a fracture,
Man. 6, 53.
वि-स्तारित-बहु-, (vb.
स्तृ), , णा, having made many
wounds, Pañc. 171, 3. -- Cf. Lat. vul-
nus
οὐλή (i. e. ϝολνη), ἄπ-ελος.
Hindi
Hindiचोट घाव, (पु neut)
Apte Hindi
Hindiव्रणः
- व्रण् + अच्
"घाव, क्षत, ज़ख्म, चोट"
व्रणः
- व्रण् + अच्
"फोड़ा, नासूर"
व्रणम्
- -
"घाव, क्षत, ज़ख्म, चोट"
व्रणम्
- -
"फोड़ा, नासूर"
Edgerton Buddhist Hybrid
English(vraṇa, m. or nt., in Skt. wound, also crack, flaw, defect, fault: ātmānaṃ sa-vraṇaṃ jñātvā SP 〔39.1〕, knowing themselves to be at fault, defective, so Tib. raṅ gi skyon (usually = doṣa) śes te, of self fault knowing
(cetopraṇidhānaṃ … akalmāṣam) a-vraṇam Mv 〔i.239.6〕, pure and flawless
nava-vraṇa-mukha, the openings of the nine slits of the body, as in Skt. navadvāra, cf. Pali Milp. 〔74.15〕 navadvāro mahāvaṇo, of the body: (kāyo …) navavraṇamukha-romakūpa-srāvī Śikṣ 〔230.11〕
prasravan … kāyaḥ … navavraṇamukhair 〔232.1〕.)
Kridanta Forms
Sanskritव्रण (व्र꣡ण꣡ गात्रविचूर्णने - चुरादिः - सेट्)
ल्युट् = व्रणनम्
अनीयर् = व्रणनीयः - व्रणनीया
ण्वुल् = व्रणकः - व्रणिका
तुमुँन् = व्रणयितुम्
तव्य = व्रणयितव्यः - व्रणयितव्या
तृच् = व्रणयिता - व्रणयित्री
क्त्वा = व्रणयित्वा
ल्यप् = प्रव्रणय्य
क्तवतुँ = व्रणितवान् - व्रणितवती
क्त = व्रणितः - व्रणिता
शतृँ = व्रणयन् - व्रणयन्ती
शानच् = व्रणयमानः - व्रणयमाना
धातुपाठः (Krishnacharya)
Sanskrit व्रण्
व्रण
शब्दे, गात्रविचूर्णने च
भ्वादिः
अकर्मकः
सेट्
परस्मैपदी
व्रणति
व्रण्
व्रण
गात्रविचूर्णने
चुरादिः
सकर्मकः
सेट्
उभयपदी
व्रणयति-ते
धातुप्रदीपः
Sanskritव्रण गात्रविचूर्णने
- व्रणयति अव्रणयत् व्रणम् 378
अभिधानचिन्तामणिः
Sanskritकण्डूः कण्डूयनं खर्जूः कण्डूयाथ क्षतं व्रणः ॥ ४६४ ॥
अरुरीर्मं क्षणतुश्च रूढव्रणपदं किणः ।
कण्डू (स्त्री), कण्डूयन (क्ली), खर्जू (स्त्री), कण्डूया (स्त्री), क्षत (क्ली), व्रण (पुं), अरुस् (क्ली), ईर्म (क्ली), क्षणनु (पुं), रूढव्रणपद (क्ली), किण (पुं)
अभिधानरत्नमाला
Sanskritक्षत
क्षत, ईर्म, अरु, व्रण
कबन्धः कथ्यते रुण्डः क्षतमीर्ममरुर्व्रणः ।
verse 3.1.1.630
page 0072
अमरकोशः
SanskritWord: व्रणम्
Root: व्रण
Gender: नपुं
Number: all
Meaning(s):
⇒ scar
⇒ sore
⇒ flaw
⇒ boil
⇒ ulcer
⇒ wound
⇒ crack
⇒ tumour
⇒ cancer
⇒ abscess
⇒ scratch
⇒ blemish
⇒ cicatrix
Shloka(s):
2|6|54|1 ► व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान्। (मनुष्यवर्गः)
Synonym(s):
➠ 2|6|54|1 ⇢ व्रणः (व्रण) (पुं) ⇒ scar, sore, flaw, boil, ulcer, wound, crack, tumour, cancer, abscess, scratch, blemish, cicatrix
➠ 2|6|54|1 ⇢ व्रणम् (व्रण) (नपुं) ⇒ scar, sore, flaw, boil, ulcer, wound, crack, tumour, cancer, abscess, scratch, blemish, cicatrix
➠ 2|6|54|1 ⇢ ईर्मम् (ईर्म) (नपुं)
➠ 2|6|54|1 ⇢ अरुः (अरुस्) (नपुं)
Related word(s):
परा_अपरासंबन्धः ➡ रोगः
जातिः ➡ अवस्था
शब्दकल्पद्रुमः
Sanskritव्रण, त् क अङ्गचूर्णे । इति कविकल्पद्रुमः ॥
(अदन्त चुरा०-पर०-सक०-सेट् ।) अङ्गचूर्णःअङ्गभेदः । व्रणयति गात्रं बाणेन भटः । इतिदुर्गादासः ॥
व्रणः, (व्रणयति गात्रमिति । व्रण अङ्ग-चूर्णे + पचादित्वात् अच् ।) क्षतम् । तत्पर्य्यायः ।ईर्म्मम् २ अरुः ३ । इत्यमरः ॥
ईर्म्मः ४ । इतितट्टीका ॥
(यथा, रघुः । १२ । ५५ ।“स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम् ।आत्मनः सुमहत् कर्म्म व्रणैरावेद्य संस्थितः ॥
”)अथ व्रणाधिकारः ।“व्रणो द्विधा परिज्ञेयो दोषजागन्तुभेदतः ।दोषजो दुष्टदोषैः स्यादन्यः शस्त्रादिसम्भवः ॥
”तत्र वातिकस्य लक्षणमाह ।“स्तब्धः कठिनसंस्पर्शो मन्दस्रावो महारुजः ।तुद्यते स्फुटितश्यावो व्रणो मारुतसम्भवः ॥
”स्तब्धः अचलः ॥
* ॥
पैत्तिकमाह ।“तृष्णामोहज्वरक्लेददाहदुःखावदारणैः ।व्रणं पित्तकृतं विद्यात् सावैर्गन्धैश्च पूतिकैः ॥
”क्लेद आर्द्रता । दुःखं व्यथारूपम् । अवदारणंव्रणे विदारणवत् पीडा ॥
* ॥
श्लैष्मिकमाह ।“बहुपिच्छो गुरुः स्निग्धस्तिमितो मन्दवेदनः ।पाण्डुवर्णोऽल्पसंक्लेदश्चिरपाकी कफव्रणः ॥
”बहुपिच्छः बहुपिच्छिलः । अल्पसंक्लेद ईष-दार्द्रः ॥
* ॥
रौधिरं द्वन्द्वजं सान्निपातिकमाह ।“रक्तो रक्तस्रुती रक्ताद्द्वित्रिजः स्यात्तदन्वयः ।”तदन्वयः द्वित्रिदोषलिङ्गसम्बन्धः ॥
* ॥
शुद्ध-व्रणलिङ्गमाह ।“जिह्वातलाभोऽतिमृदुः स्वस्थः स्निग्धोऽल्प-वेदनः ।सुव्यवस्थो निरस्रावः शुद्धव्रण इति स्मृतः ॥
”जिह्वातलाभः तलशब्दोऽत्र स्वरूपार्थः । तेनजिह्वावद्रक्तः । सुव्यवस्थः उच्छनतारहितः ॥
दुष्टव्रणलिङ्गमाह ।“पूतिपूयादिदुष्टासृक्स्राव्युत्सङ्गी चिरस्थितिः ।दुष्टव्रणोऽतिगन्धादिः शुद्धलिङ्गविपर्य्ययः ॥
”उत्सङ्गी कोटरवान् । अतिगन्धादिः आदि-शब्देन स्राववेदनाविवर्णतादयः संगृह्यन्ते ॥
* ॥
संरोहव्रणस्य लिङ्गमाह ।“कपोतवर्णप्रतिमा यस्यां तालोदवर्जिताः ।स्थिराश्च पिडकावन्तो रोहन्तीति तमादिशेत् ॥
”कपोतवर्णप्रतिमाः पाण्डुधूसराः । स्थिराःविदीर्णतारहिताः । पिडकावन्तः संरोहणार्थाये मांसाङ्कुरास्तद्युक्ताः ॥
* ॥
सरूढलिङ्ग-माह ।“रूढवर्त्मानमग्रन्थिमशूलमरुजं व्रणम् ।त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत् ॥
”रूढवर्त्मानं संरूढस्रावमार्गम् । समतलं अनि-म्नम् ॥
* ॥
सुखसाध्यत्वादिकमाह ।“त्वङ्मांसजः सुखे देशे तरुणस्यानुपद्रवः ।धीमतोऽभिनवः काले सुखे साध्यः सुखव्रणः ॥
”सुखे देशे मर्मरहिते । अनुपद्रवः ज्वरतृष्णा-श्वासकासारोचकादिरहितः । धीमतः पथ्य-सेविनः । सुखे काले हेमन्ते शिशिरे च ।“गुणैरन्यतरैरेभिर्हीनः कृच्छ्रो व्रणः स्मृतः ।सर्व्वैर्विहीनो विज्ञेयस्त्वसाध्यो निरुपक्रमः ॥
”एभिस्त्वङ्मांसजत्वादिभिः । निरुपमक्रमः अनु-पक्रीतः चिरमुपेक्षित इति यावत् ।“वसामेदोऽथ मज्जानं मस्तुलुङ्गञ्च यः स्रवेत् ।आगन्तुजो व्रणः सिद्धेन्न सिद्धेद्दोषसम्भवः ॥
”मस्तुलुङ्गं मस्तुकाभ्यन्तरस्नेहः ।“कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम् ।व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे ब्रणः ॥
”अरिष्टमाह ।“दह्यन्ते चान्तरत्यर्थं बहिःशीताश्च ये व्रणाः ।दह्यन्ते बहिरत्यर्थं भवन्त्यतश्च शीतलाः ॥
प्राणमांसक्षयश्वासकासारोचकपीडिताः ।प्रवृद्धपूयरुधिरं व्रणा ये चापि मर्मसु ॥
क्रियाभिः सम्यगारब्धा न सिध्यन्ति च ये व्रणाः ।चिकित्सेन्नैव तान् वैद्यः संरक्षन्नात्मनो यशः ॥
मद्यागुर्व्वाज्यसुमनाः पद्मचन्दनचम्पकम् ।सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः ॥
”मर्मसु पायुनाभिहृदयादिषु । सुमनाः जातिः ।दिव्यगन्धाः पारिजातादिगन्धाः ॥
* ॥
अथाङ्ग-व्रणस्य निदानमाह ।“नानाधारामुखैः शस्त्रैर्नानास्थाननिपातितैः ।भवन्ति नानाकृतयो व्रणांस्तांस्तान्निबोध मे ॥
”नानाधारामुखानि येषां तैः शस्त्रैः अर्द्धचन्द्र-खड्गभल्लकुन्तशूलशरादिभिः । नानाकृतयःषडाकृतयः । ता आकृतीराह ।“छिन्नं भिन्नं तथा बिद्धं क्षतं पिच्चितमेव च ।घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम् ॥
”अत्र छिन्नस्य लक्षणमाह ।“तिर्य्यक् छिन्न ऋजुर्व्वापि यो व्रणस्त्वायतो भवेत् ।गात्रस्य पातनं तद्धि छिन्नमित्यभिधीयते ॥
”यो व्रणः तिर्य्यक्छिन्नः खड्गादिकृततिर्य्यक्छेद-कृतः । ऋजुर्व्वापि अथवा खड्गादिकृतो रक्तोव्रणः । आयतः दीर्घः । आयत इति तिर्य्यक्-छिन्नस्य ऋजोश्च विशेषणम् । गात्रस्य पातनंगात्रस्यैकदेशस्य छेदेन पृथक्करणं वा च्छिन्न-मित्यभिधीयते ॥
* ॥
भिन्नमाह ।“शक्तिकुन्तेषुखड्गाग्रविषाणैराशयो हतः ।यत्किञ्चित् प्रसवेत्तद्धि भिन्नमित्यभिधीयते ॥
”आशयः कोष्ठः ॥
* ॥
कोष्ठभेदस्य लक्षणमाह ।“स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च ।हृदुण्डुकः फुःफुसश्च कोष्ठ इत्यभिधीयते ॥
तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते ।मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति ॥
मूर्च्छाश्वासस्तृषाध्मानमभक्तच्छन्द एव च ।विण्मूत्रवातसङ्गश्च स्वेदश्यावोऽक्षिरक्तता ॥
लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च ।हृदि शूलं पार्श्वयोश्च विशेषश्चाभिधीयते ॥
”तस्मिन् कोष्ठे । भिन्ने शक्त्यादिभिः । रक्तपूर्णेकोष्ठे तस्मादङ्गाद्भिन्नात् स्रुतेन रक्तेन पूर्णे वाज्वरादयो जायन्ते ॥
* ॥
आमाशये पक्वाशयेच रक्तपूर्णे लक्षणभेदमाह ।“आमाशयस्थे रुधिरे रुधिरं छर्द्दयत्यपि ।अध्मानमतिमात्रञ्च शूलञ्च भृशदारुणम् ॥
पक्वाशयगते रक्ते रुजा गौरवमेव च ।अधःकाये विशेषेण शीतता च भवेदिह ॥
”रुजा शूलम् । गौरवं पक्वाशये । अधःकायेनाभेरधोदेशे विशेषेण गौरवमित्यन्वयः ।शीतता च भवेदिह । इह नाभेरधोदेशे शीतताच स्यात् । सा च व्याधिस्वभावात् ॥
* ॥
विद्ध-माह ।“सूक्ष्मास्यशल्याभिहतं पदं गत्वाशयं विना ।”उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्द्दिशेत् ॥
”आशयं विना कोष्ठं विना । उत्तुण्डितं अनि-र्गतशल्यम् । निर्गतं वा निर्गतशल्यं वा ॥
* ॥
सशल्यस्य व्रणस्य लक्षणमाह ।“श्यावं सशोथं पिडकायुतञ्चमुहुर्मुहुः शोणितवाहनञ्च ।मृदूद्गतं वुद्वुदतुल्यमांसंव्रणं सशल्यं सरुजं वदन्ति ॥
”मुहुर्मुहुः शोणितवाहनं यदा यदा शल्यंचलति तदा तदा रुधिरं वहति । उद्गतंउत्थितमुखम् ॥
* ॥
कोष्ठस्थितस्य शल्यस्यलक्षणमाह ।“त्वचोऽतीत्य शिरादीनि भित्त्वाङ्गं परिहृत्यवा ।कोष्ठे प्रतिष्ठितं शल्यं कुर्य्यादुक्तानुपद्रवान् ॥
”त्वचः सप्तापि अतिक्रम्य उक्तानुपद्रवान् आटो-पानाहौ व्रणमुखेनात्र पुरीषदर्शनञ्च ॥
* ॥
असाध्यस्य कोष्ठस्य रक्तस्य पुरीषस्य लक्षण-माह ।“कोष्ठान्तर्ल्लोहितं पाण्डु शीतपादकराननम् ।शीतोच्छ्वासं रक्तनेत्रमानद्धञ्च विवर्जयेत् ॥
”आनद्धं आनाहवन्तम् ॥
* ॥
क्षतमाह ।“नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम् ।विषमं व्रणमङ्गे यत्तत् क्षतं परिकीर्त्तितम् ॥
”नातिच्छिन्नं नातिदीर्घघातम् । नातिभिन्नंनातिगम्भीरघातम् । उभयोश्छिन्नभिन्नयोः ।विषमं व्रणमङ्गे यत् यद्व्रणमङ्गवैषम्यकरम् ॥
* ॥
पिच्चितमाह ।“प्रहारपीडनाभ्यान्तु यदङ्गं पृथुतां गतम् ।सास्थि तत् पिच्चितं विद्याद्रक्तमज्जपरिप्लुतम् ॥
”प्रहारो मुद्गरादिना । पीडनं कपाटादिना ।पृथुतां चिपिटताम् ॥
* ॥
घृष्टमाह ।“घर्षणादपि घाताद्वा यदङ्गं विगतत्वचम् ।उष्मस्रावान्वितं तत्तु घृष्टमित्यभिधीयते ॥
घर्षणात् कर्कशेष्टिकापाषाणभिन्नादिभिः ॥
” * ॥
मांसशिरास्नायुसन्ध्यस्थिमर्मसु क्षतेषु सामान्य-लक्षणमाह ।“भ्रमः प्रलापः पतनं प्रमोहोविचेष्टनं ग्लानिरथोष्णता च ।स्रस्ताङ्गता मूर्च्छनमूर्द्ध्ववात-स्तीव्रा रुजो वातकृताश्च तास्ताः ॥
मांसोदकाभं रुधिरञ्च गच्छेत्सर्व्वेन्द्रियार्थोपरमस्तथैव ।दशार्द्धसंख्येष्वथ विक्षतेषुसामान्यतो मर्मसु लिङ्गमुक्तम् ॥
”पतनं भूमौ । विचेष्टनं विरुद्धं चेष्टनं हस्त-पादादिप्रक्षेपणादिकम् । मूर्च्छनं इन्द्रिय-मोहः । प्रमोहो मनोमात्रमोहः । तीव्रा रुजोवातकृताश्च तास्ताः दण्डापतानकादयः । रुधि-रञ्च गच्छेत् मेहनभगगुदास्यघ्राणेभ्यः स्रवेत् ।सर्व्वेन्द्रियार्थोपरमः इन्द्रियाणां कार्य्यनाशः ॥
* ॥
अथ मर्म्मशिरास्नायुसन्ध्यस्थ्नां विद्धानां पृथग्-लक्षणमाह ।“सुरेन्द्रगोपप्रतिमं प्रभूतंरक्तं स्रवेत्तत्क्षयजश्च वायुः ।करोति रोगान् विविधान् यथोक्तान्शिरासु विद्धास्वथवा क्षतासु ॥
”सुरेन्द्रगोपो वार्षिकोत्थितकीटविशेषः । वीर-बहुटी इति लोके सिद्धम् । प्रभूतं बहु । रोगान्शिरोऽभितापान्धताक्षयकादीन् । विद्धासु शरा-दिना । क्षतासु खड्गादिना ।“कौब्ज्यं शरीरावयवावसादःक्रिाश्च शक्तिस्तुमुला रुजाश्च ।चिराद्व्रणो रोहति यस्य चापितं स्नायुविद्धं पुरुषं वदन्ति ॥
”कौब्ज्यं विद्धस्याङ्गस्य वक्रता । तुमुला महती ।“शोथातिवृद्धिस्तुमुला रुजश्चबलक्षयः सर्व्वत एव शोथः ।क्षतेषु सन्धिष्वचलाबलेषुस्यात् सन्धिकर्म्मोपरमश्च लिङ्गम् ॥
”सर्व्वत एव शोथः सर्व्वसन्धीन् व्याप्य शोथः ।उपरमः नाशः ।“घोरा रुजो यस्य निशादिनेषुसर्व्वास्ववस्थासु न चैति शान्तिम् ।भिषग्विपश्चिद्विदितार्थसूत्र-स्तमस्थिविद्धं पुरुषं प्रवक्ति ॥
”सर्व्वास्वस्थासु शयनासनादिकासु । विदितार्थ-सूत्रः ज्ञानशल्यतन्त्रम् ॥
* ॥
अथ मर्म्मशिरादि-विद्धलिङ्गानि पृथगभिधाय मर्म्मशिरादीनांविद्धानां पृथग्लिङ्गान्यतिदेशेनाह ।“यथास्वमेतानि विभावयेच्चलिङ्गानि मर्म्मस्वपि ताडितेषु ।”यथास्वं शिरादीनां विद्धानां एतानि लिङ्गानिपृथगुक्तानि लिङ्गानि चकारात् भ्रमप्रलापा-दीनि च मर्मस्वपि शिरादिषु ताडितेषु विद्धेषु ।विभावयेत् जानीयात ॥
* ॥
सर्व्वव्रणानामुप-द्रवानाह ।“विसर्पपक्षघातश्च शिरास्तम्भोऽपतानकः ।मोहोन्मादौ व्रणे पीडा ज्वरस्तृष्णा हनुग्रहः ॥
कासश्छर्द्दिरतीसारो हिक्का श्वासः सवेपथुः ।षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः ॥
”अथाग्निदग्धस्य निदानमाह ।“तत्राग्निर्द्बिविधो ज्ञेयः स्नेहरूक्षः समाश्रितः ।स्नेहस्तत्र तु तैलादि रूक्षं लौहादि कथ्यते ॥
”अग्निदग्धं चतुर्व्विधमाह ।“अग्निदग्धं चतुर्द्धा स्यात् प्लुष्टं दुर्दग्धमेव च ।सम्यग्दग्धं तथा तीव्रदग्धञ्च परिकीर्त्तितम् ॥
”तेषां ललणमाह ।“यद्विवर्णमतिप्लुष्टं तत् प्लुष्टमभिधीयते ।तीव्रदाहो व्यथावन्तो यत्र स्फोटा भवन्ति हि ।चिरेण ते प्रशाम्यन्ति तद्दुर्द्दग्धमुदाहृतम् ॥
ताम्रवर्णमगम्भीरं दाहपीडासमन्वितम् ।सुसंस्थितञ्च कथितं सम्यग्दग्धं भिषग्वरैः ॥
त्वङ्मांसं यत्र दग्धं स्याद्विश्लेषो वपुषस्तथा ।शिरास्नाय्वस्थिसन्धीनां तं वदन्त्यतिदग्धकम् ॥
अत्यर्थं वेदना दाहो ज्वरस्तृण्मूर्च्छया सह ।स्याद्व्रणस्तु चिरादद्रोहे रूढो याति विव-र्णताम् ॥
” * ॥
अथ व्रणस्य चिकित्सा ।“आदौ शोथहरो लेपस्ततस्तु परिषेचनम् ।विम्लापनमसृङ्मोक्षस्ततः स्यादुपनाहनम् ॥
पाचनं भेदनं पश्चात् पीडनं शोधनं तथा ।रोपणं वर्णकरणं व्रणस्यैते क्रमाः स्मृताः ॥
”क्रमाश्चिकित्साः । सुश्रुतेषु व्रणस्य षष्टिरूपक्रमालिखिताः सन्ति । ते सर्व्वेऽत्र विस्तरभयान्नलिखिताः ॥
* ॥
तत्रादौ शोथहरं लेपमाह ।“यथा प्रज्वलिते वेश्मन्यम्भसा परिषेचनम् ।क्षिप्रं प्रशमयत्यग्निमेवमालेपनं रुजम् ॥
बीजपूरजटाहिंस्रा देवदारु मलौषधम् ।रास्नाग्निमन्थो लेपोऽयं वातशोथविनाशनः ॥
*मघुकं चन्दनं दूर्व्वा नलमूलन्तु पद्मकम् ।उशीरं बालकं पद्मं लेपोऽयं पित्तशोथहा ॥
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः ।ससर्पिष्कैः प्रदेहः स्याच्छोथे पित्तसमुद्भवे ॥
* ॥
आगन्तुजे रक्तजे च लेप एषोऽभिपूजितः ।अजगन्धाजशृङ्गी च मञ्जिष्ठा सरलस्तथा ।एकैकिकाश्वगन्धा च लेपोऽयं श्लेष्मशोथहा ॥
”अजशृङ्गी मेढाशृङ्गी । एकैकिका श्यामनि-सोतः ।“कृष्णा पुराणपिण्याकं शिशुत्वक् शिकताशिवा ।मूत्रपिष्टः सुखोष्णोऽयं प्रलेपः श्लेष्मशोथहा ॥
* ॥
न रात्रौ लेपनं दद्याद्दत्तं च पतितं तथा ।न च पर्य्युषितं शुष्यमाणं तत्रैव धारयेत् ॥
”दत्तं दत्तमेव पुनर्न दद्यात् । पतितं दीयमानंयदङ्गात् पतितम् । पर्य्युषितं लेपनद्रव्यकल्की-कृतं यत् पर्य्युषितम् ।“तमसा पिहितो ह्युष्मा रोमकूपमुखे स्थितः ।विना लेपेन निर्याति रात्रौ नालेपयेदतः ॥
रात्रावपि प्रलेपस्तु विधातव्यो विचक्षणैः ।अपाकिशोथे गम्भीरे रक्तपित्तसमुद्भवे ॥
” * ॥
अथ परिषेचनमाह ।“यथाम्बुभिः सिच्यमानः शान्तिमग्निर्हि गच्छति ।दोषाग्निरेवं सहसा परिषेकेण शाम्यति ॥
”तद्यथा, --“वातघ्नौषधनिक्वाथैस्तैलैर्मांसरसैर्घृतैः ।उष्णैः संसेचयेत् शोथं वातिकं काञ्जिकेन तु ॥
पित्तरक्ताभिघातोत्थं शोथं सिञ्चेत्तु शीतलैः ।क्षीराज्यमधुखण्डेक्षुरसैः पित्तहरैः शृतैः ॥
कफघ्नौषधनिःक्वाथैरशीतैः परिषेचयेत् ।तैलक्षाराम्बुसूत्रैश्च शोथं श्लेष्मसमुद्भवम् ॥
” * ॥
अथ विम्लापनमाह ।“रुजतः कठिनस्यास्य कार्य्यं विम्लापनं शनैः ।”अथ शोथस्य विम्लापनस्य विधिमाह । सुश्रुतः ।“अभ्यज्य स्वेदयित्वा तु वेणुनाड्या शनैः शनैः ।विमर्द्दयेद्भिषङ्मन्दं तलेनाङ्गुष्ठकेन वा ॥
”वेणुनाड्या स्वेदयित्वा उष्णस्वेदं कृत्वा ॥
* ॥
रक्तमोक्षणमाह ।“वेदनोपशमार्थाय तथा पाकसमाय च ।अचिरोत्पतिते शोथे शोणितस्रावणञ्चरेत् ॥
”चरेत् कुर्य्यात् ।“एकतस्तु क्रियाः सर्व्वा रक्तमोक्षणमेकतः ।रक्तं हि वेदनामूलं तच्चेन्नास्ति न चापि रुक् ॥
विवर्णे कठिने श्यावे व्रणे चात्यन्तवेदने ।सविशेषे विशेषेण जलौकोभिः षदैरपि ॥
”शोणितस्रावणञ्चरेदित्यनेनान्वयः ॥
* ॥
अथोपनाहस्वेदमाह । तस्य विधिर्भेषजसाधन-प्रकरणे कथित एवास्ति ।“रुजावतां दारुणानां कठिनानां तथव च ।शोथानां स्वेदनं कार्य्यं ये चाप्येवं विचारणात् ॥
”शोथानां सामान्यानां व्रणाः व्रणशोथाः तेषा-मपि स्वेदनं कार्य्यम् ।“शोथयोरुपनाहन्तु दद्यादामविदग्धयाः ।प्रशाम्यत्यविदग्धस्तु विदग्धः पाकमेति च ॥
”अविदग्धः आमः । विदग्धः पाकोन्मुखः । सयथा, --“दशमूली बला रास्ना वाजिगन्धा प्रसारिणी ।मूलं फलञ्च वातारिसिन्दुवारपुनर्नवाः ॥
शोभाञ्जनः कणा चापि सैन्धवं विश्वभेषजम् ।शणकार्पासयोर्बीजमतसी च कुलत्थिका ॥
तिला यवाश्च सिद्धार्थः कुठेरो मूलकं मिसिः ।यथाप्राप्तैरमीभिस्तु द्रव्यैरम्लेन संयुतैः ॥
कल्कीकृतैः सुखोष्णैश्च स्वेदयेद्बिधिवच्छनैः ।अनेन प्रशमं याति वातशोथो न संशयः ॥
”दशमूल्यादिरूपमाह ।“पुनर्नवा दारु शुण्ठी शिग्रुः सिद्धार्थ एव च ।अम्लपिष्टः सुखोष्णोऽयं प्रलेपः सर्व्वशोथहा ॥
”पुनर्नवादिः ॥
* ॥
अथ पाचनमाह ।“न प्रशाम्यति यः शोथः प्रलेपादिविधानतः ।द्रव्याणि पाचनीयानि दद्यात्तत्रोपनाहने ॥
”पाचनद्रव्याण्याह ।“शणकमूलशिग्रूणां फलानि तिलसर्षपाः ।अतसीसक्तवः किण्वमुष्णद्रव्यञ्च पाचनम् ॥
”शणफलादीनामतस्यन्ताः सक्तवः कर्त्तव्याः ।किण्वं सुराबीजम् । यवगोधूमधान्यादिप्रकारःअन्यच्चोष्णद्रव्यं व्रणस्य पाचनं भवति ॥
* ॥
अथ भेदनमाह ।“अन्तःपूयेषु वक्त्रेषु तथैवोत्सङ्गवत्स्वपि ।गतिमत्स्वथ रोगेषु भेदनं संप्रयुज्यते ॥
”उत्सङ्गवत्सु कोटरवत्सु । गतिमत्सु नाडी-व्रणेषु । भेदनं शस्त्रमौषधकर्म्म च ॥
* ॥
तत्रशस्त्रेण भेदनमाह ।“रोगे व्यधनसाध्ये तु यथादेशं प्रमाणतः ।शस्त्रं विधाय दोषस्तु स्रावयेत् कथितं यथा ॥
”क्वचिच्छस्त्रनिक्षेपापवादमाह ।“बालवृद्धासहक्षीणाभीरूणां योषितामपि ।व्रणेषु मर्म्मजातेषु भेदनं द्रव्यलेपनम् ॥
”तत्र भेदमाह ।“चिरविल्वोऽग्निको दन्ती चित्रको हयमारकः ।कपोतकङ्कगृध्राणां मलं लेपेन दारणम् ॥
”चिरबिल्वः करञ्जः । अग्निकः भल्लातकः ।“भल्लातकासहत्वे तु रक्तचन्दनमिष्यते ॥
”हयमारकः करवीरः । दारणं भेदनम् ।“क्षारद्रव्यं तथा क्षारो दारणः परिकीर्त्तितः ॥
”क्षारद्रव्यं अपामार्गादि । क्षारः स्वर्जिका यव-क्षारादिः ।“हस्तिदन्तो जले पिष्ठो बिन्दुमात्रः प्रलेपतः ।अत्यन्तकठिने शोथे कथितो भेदनः परः ॥
” * ॥
अथ पीडनमाह ।“पूयगर्भाननूद्धारान् व्रणान् मर्म्मग्तानपि ।यथोक्तैः पीडनद्रव्यैः समन्तात् परिपीडयेत् ॥
”पीडनद्रव्याण्याह ।“द्रव्याणां पिच्छिलानान्तु त्वङ्मूलानि प्रपी-ड्येत् ।यवगोधूममाषाणां चूर्णानि च समासतः ॥
शुष्यमाणमुपेक्षेत प्रलेपं पीडनं प्रति ।न चापि मुखमालिम्पेत्तथा दोषः प्रसिच्यते ॥
”पीडनं प्रति पीडनद्रव्यलेपं प्रति । पीडनद्रव्य-लेपे शुष्यन्तमपि धारयेदित्यर्थः । तथा व्रणस्यमुखे लेपं विना प्रसिच्यते स्रवति ॥
* ॥
अथ शोधनमाह ।“व्रणस्य त्वविशुद्धस्य क्वाथः शुद्धिकरः परः ।पटोलनिम्बपत्रस्य सर्व्वथैव प्रयुज्यते ॥
वातिके दशमूलानां क्षीरिणां पैत्तिके व्रणे ।आरग्वधादेः कफजे कषायः शोधने हितः ॥
अश्वत्थोडुम्बरप्लक्षवटवेतसजं सृतम् ।व्रणशोथोपदंशानां नाशनं क्षालनात् स्मृतम् ॥
तैलसैन्धवयष्ट्याह्वनिम्बपत्रनिशायुगैः ।त्रिवृद्घनयुतैः कार्य्यः प्रलेपो व्रणशोधनः ॥
एकैकं सारिवामूलं सर्व्वव्रणविशोधनम् ।निम्बपत्रतिलादन्तीत्रिवृत्सैन्धवमाक्षिकम् ।दुष्टव्रणप्रशमनो लेपः शोधनकेशरी ॥
”शोधनकेशरी शोधनश्रेष्ठः ।“लेपान्निम्बदलैः कल्कैर्व्र णशोधनरोपणः ।भक्षणाच्छर्द्दिमन्दाग्निपित्तश्लेष्मकृमीन् हरेत् ॥
व्रणान् विशोधयेत् वर्त्त्या सूक्ष्मा स्यात् सन्धि-मर्म्मजान् ।अभयत्रिवृतादन्तीलाङ्गलीमधुसैन्धवैः ॥
निम्बपत्रघृतक्षौद्रदार्व्वीमधुकसंयुता ।वस्तिस्तिलानां कल्को वा शोधयेद्रोपयेद्-व्रणम् ॥
” * ॥
अथ रोपणमाह ।“अपेतपूतिमांसानां मांसस्थानमरोहताम् ।कल्कस्तु रोपणे देयस्तिलजो मधुसंयुतः ॥
अश्वगन्धा रुहा लोध्रः कट्फलं मधुयष्टिका ।समङ्गा धातकीपुष्पं परमं व्रणरोपणम् ॥
मधुयुक्ता शरपुङ्खा सर्व्वव्रणरोपणी कथिता ।सुखवीपत्रधत्तूरबला मोचा कुठेरका ॥
पृथगेते प्रलेपेन गम्भीरव्रणरोपणाः ॥
”सुखवीपत्र कलौञ्जीपत्र । अस्या एतदेव नामपुस्तके धृतम् । कुठेरक वरवरी ।“ककुभोडुम्बराश्वत्थजम्बुकट्फललोध्रजैः ।त्वक्चूर्णैश्चूर्णिता लेपात् प्ररोहन्ति महाव्रणाः ॥
प्रियङ्गुधातकीपुष्पयष्टीमधुजतूनि च ।सूक्ष्मचूर्णीकृतानि स्यू रोपणान्यवधूननात् ॥
यवचूर्णं समधुकं सतैलं सह सर्पिषा ।दद्यादालेपनं कोष्णं दाहशूलोपशान्तये ॥
करञ्जारिष्टनिर्गुण्डीलेपो हन्याद्व्रणं कृमीन् ।लसुनस्याथवा लेपो हिङ्गुनिम्बकृतोऽथवा ॥
निम्बपत्रवचाहिङ्गुसर्पिर्ल्लवणसर्षपैः ।धूपनं स्याद्व्रणे रक्षःकृमिकण्डूरुजापहम् ॥
ये क्लेदपाकस्रुतिगन्धवन्तोव्रणाश्चिरोत्थाः समताश्च शोथाः ।प्रयान्ति ते गुग्गुलुमिश्रितेनपीतेन शान्तिः त्रिफलासृतेन ॥
पटोलनिम्बासनसारधात्री-पथ्याक्षनिर्यूहमरुर्मुखे तु ।पिबेत् द्रुतं गुग्गुलुना विसर्प-विस्फोटदुष्टब्रणशान्तिमिच्छन् ॥
” * ॥
अथ सवर्णताकरणम् ।“मनःशिला समञ्जिष्ठा सलाक्षा रजनीद्वयम् ।प्रलेपः सघृतक्षौद्रस्त्वचः सावर्ण्यकृत् स्मृतः ॥
” *अथ व्रणिनो भोजनम् ।“जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्रवोत्तरम् ।भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति ॥
तण्डुलीयकजीवन्तीवास्तूकसुनिषण्णकैः ।बालं मूलकवार्त्ताकुपटोलैः कारवेल्लकैः ॥
सदाडिमैः सामलकैः घृतभृष्टैः ससैन्धवैः ।अन्यैरेवं गुणैर्व्वापि मुद्गादीनां रसेन च ॥
”एभिः सह जीर्णशाल्योदनं भुञ्जानः शीघ्रं व्रण-मपोहतीत्यन्वयः ।“अम्लं दधि च शाकञ्च मांसमानूपमोदकम् ।क्षीरं गुरूणि चान्यानि व्रणितः परिवर्ज्जयेत् ॥
व्रणे श्वयथुरायासात् स च रागश्च जागरात् ।तौ च रुक् च दिवास्वापात् ताश्च मृत्युश्चमैथुनात् ॥
” * ॥
अथाङ्गव्रणचिकित्सा ।“क्रुद्धे सद्यो व्रणं कुर्य्यादूर्द्ध्वञ्चाधश्च शोधनम् ।क्रिया शीता प्रयोक्तव्या रक्तपित्तोष्मनाशिनी ॥
लङ्घनञ्च बलं ज्ञात्वा भोजनं चास्रमोक्षणम् ।घृष्टे विदलिते चैव सुतरामिष्यते विधिः ॥
छिन्ने भिन्ने तथा विद्धे क्षते वासृगतिस्रवेत् ।रक्तक्षयात्तत्र रुजः करोति पवनो भृशम् ॥
स्नेहपानपरीषेकलेपास्तत्रोपनाहनम् ।कुर्व्वीत स्नेहवस्तिञ्च मारुतघ्नौषधैर्भिषक् ॥
खड्गादिच्छिन्नगात्रस्य तत्कालं पूतितो व्रणः ।गाङ्गेरुकीमूलरसैः सद्यः स्यात् गतवेदनः ॥
”गाङ्गेरुकी नागबला गुरसकरी इति लोके ।“कषायमधुराः शीताः क्रियाः सर्व्वाः प्रयो-जयेत् ।सद्यो व्रणानां सप्ताहात् पश्चात् पूर्व्वोक्तमाच-रेत् ॥
आमाशयस्थे रुधिरे विदध्याद्वमनं नरः ।तस्मिन् पक्वाशयस्थे तु गृह्णीयात् स विरे-चनम् ॥
क्वाथो वंशत्वगेरण्डस्वदंष्ट्राश्मभिदा कृतः ।हिङ्गुसैन्धवसंयुक्तः कोष्ठस्थं स्रावयेदसृक् ॥
यवकोलकुलत्थानां निस्नेहेन रसेन च ।भुञ्जीतान्नं यवागुं वा पिबेत् सैन्धवसंयुतम् ॥
जातीनिम्बपटोलपत्रकटुकादार्वीनिशाशारिवा-मञ्जिष्ठाभयतिक्ततुत्थमधुकैर्न्नक्ताह्वबीजैः समैः ।सर्पिःसिद्धमनेन सूक्ष्मवदना मर्माश्रिताः स्राविणोगम्भीराः सरुजो व्रणाः सगतिकाः शुध्यन्तिरोहन्ति च ॥
वृद्धवैद्योपदेशेन पारम्पर्य्योपदेशतः ।जातीघृतेन संसिद्धे क्षेप्तव्यं सिक्थकं बुधैः ॥
”इति जात्यादिघृतम् ॥
* ॥
“जातीनिम्बपटालानां नक्तमालस्य पल्लवाः ।सिक्थं समधुकं कुष्ठं द्वे निशे कटुरोहिणी ॥
मञ्जिष्ठा पद्मकं पथ्या लोध्रत्वक्नीलमुत्पलम् ।सारिवा तुत्थकं चापि नक्तमालफलं तथा ॥
”सारिवास्थाने सनिम्ब इति च पाठः ।“एतानि समभागानि कल्कीकृत्य प्रयत्नतः ।तिलतैलं पचेत् सम्यक् वैद्यः पाकविचक्षणः ॥
विषव्रणे समुत्पन्ने स्फोटके कक्षरोगिणि ।दद्रुवीसर्परोगेषु कीटदष्टेषु सर्व्वथा ॥
सद्यः शस्त्रप्रहारेषु दग्धविद्धेषु चैव हि ।नखदन्तक्षते देद्वे दुष्टमांसापकर्षणे ॥
भक्षणेन हितं तैलमिदं शोधनरोपणम् ।तैलं जात्यादि नाम्नैतत् प्रसिद्धं भिषगादृतम् ॥
”इति जात्यादितैलम् ॥
* ॥
“चित्रकरसोनरामठशरपुंखालाङ्गलीकसिन्दूरैः ।सविषैस्तथा सकुष्ठैः कटुतैलं साधसंयुक्तम् ॥
विपरीतमल्लतैलं दुष्टव्रणं तथा नाडीम् ।बहुभेषजै रसाध्यामपथ्यभोक्तुश्च निर्णुदति ॥
”इति विपरीतमल्लतैलम् ॥
* ॥
“अमृतापटोलमूलत्रिफलात्रिकटुकृमिघ्नानाम् ।समभागानां चूर्णं सर्व्वसमो गुग्गुलोर्भागः ॥
प्रतिवासरमेकैकां खादेदिहाक्षपरिमाणाम् ।जेतुं व्रणवातासृग्गुल्मोदरशोथवातरोगांश्च ॥
”इति अमृतादिगुग्गुलुः ॥
* ॥
अथाग्निदग्धस्य चिकित्सा ।“प्लुष्टस्याग्निप्रपतनं कार्य्यमुष्णं तथौषधम् ।सम्यकस्विन्ने शरीरे तु स्विन्नं भवति शोभि-तम् ॥
प्रकृत्या सलिलं शीतं स्कन्दयन्त्यतिशोणितम् ।तस्मात् सुखयति प्लुष्टं न तु शीतं कदाचन ॥
”स्कन्दयन्ति शोषयन्ति ।“शीतामुष्णाञ्च दुर्दग्धे क्रियां कुर्य्यात्ततः पुनः ।घृतालेपप्रसेकास्तु शीतानेवास्य कारयेत् ॥
सम्यग्दग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः ।सामृतैः सर्पिषा युक्तैरालेपं कारयेद्भिषक् ॥
ग्राम्यानूपौदकैर्मांसैः पिष्टैरेनं प्रलेपलेत् ।अतिदग्धे विशीर्णानि मांसानुद्धृत्य शीतलाम् ॥
क्रियां कुर्य्यात् ततः पश्चाच्छालितण्डुलकण्डनैः ।तिन्दुक्याश्च कषायैर्व्वा घृतमिश्रैः प्रलेपयेत् ॥
वदरीत्वक्कषायैर्व्वा घृतमिश्रैः प्रलेपनम् ।यवान् दग्ध्वा मसीकृत्य तैलेन युतया तया ॥
अयं सर्व्वाग्निदग्धेषु लेपनाद्व्रणरोपणः ।व्रणं गूढविचित्रं वा छादयेदथवोदनैः ॥
मधूच्छिष्टं समधुकं लेपं सर्जरसं तथा ।मञ्जिष्ठाचन्दनं मूर्व्वां पिष्ट्वा सर्पिषि पाच-येत् ।सर्व्वेषामग्निदग्धानामेतद्रोपणमुत्तमम् ॥
”इति सिक्थकादिघृतम् ॥
* ॥
“सिद्धं कषायकल्काभ्यां पटोल्या कटुतैलकम् ।व्रणदग्धरुजा स्रावदाहविस्फोटनाशनम् ॥
”इति पटोलीतैलम् ॥
“वातोष्णमश्रुतं दुष्टं संशोष्य ग्रथितं व्रणम् ।कुर्य्यात् सदाहं कण्ड्वाढ्यं व्रणग्रत्थिस्तु स स्मृतः ॥
कम्पिल्यकं विडङ्गानि त्वचं दार्व्व्यास्तथैव च ।पिष्ट्वा तैलं पचेत्तन्तु व्रणग्रन्थिहरं परम् ॥
”इति व्रणागन्तुव्रणाग्निदग्धव्रणाधिकारः ॥
* ॥
भग्नाधिकारस्तु भग्नशब्दे द्रष्टव्यः । नाडीव्रण-निदानं नाडीव्रणशब्दे द्रष्टव्यम् ॥
* ॥
अथनाडीव्रणस्य चिकित्सा ।“स्नुह्यर्कदुग्धदार्वीभिर्वर्त्तिं कृत्वा प्रपूरयेत् ।एष सर्व्वशरीरस्थां नाडीं हन्यात् प्रयोगराट् ॥
आरग्वधनिशाकालाचूर्णाठ्या क्षौद्रसंयुता ।सूत्रवर्त्तिर्व्रणे योज्या शोधनी गतिनाशिनी ॥
”काला मञ्जिष्ठा ।“जात्यर्कसम्पाककरञ्जदन्ती-सिन्धूत्थसौवर्च्चलयावशूकैः ।वर्त्तिः कृता हन्त्यचिरेण नाडींस्नुक्क्षीरपिष्टा सह चित्रकेण ॥
नाड्याः शस्त्रेण वदनं बृहत् कृत्वा प्रवेशयेत् ।कुशलो वस्तिविधिना तैलं जात्यादिसाधितम् ॥
एवमन्यच्च यत्तैलं घृतं वा स्वरसं तथा ॥
यत्तैलं यद्घनं पक्वं स्वरसं वा तथैव च ॥
”इति वा पाठः ॥
“नाड्या अभ्यन्तरे वैद्यो लघुहस्तः प्रवेशयेत् ।कर्पूरकरसैस्तैलं सिद्धार्थकभवं भिषक् ।पचेत् सिन्दूरकल्केन नाडीदुष्टव्रणापहम् ॥
गुग्गुलुत्रिफलाव्योषैः समांशैराज्ययोजितम् ।अक्षप्रमाणां गुटिकां खादेच्छीताम्बुना नरः ॥
नाडीदुष्टव्रणं शूलमुदावर्त्तभगन्दरम् ।गुल्मञ्च गुदजान् हन्यात् पक्षिराट् पन्नगानिव ॥
”सप्ताङ्गो गुग्गुलुः । इति नाडीव्रणाधिकारः ॥
* ॥
भगन्दरस्य निदानं चिकित्सा च भगन्दरशब्देद्रष्टव्यम् । उपदंशस्य निदानाद्युपदंशशब्देद्रष्टव्यम् ॥
* ॥
अथोपदंशस्य चिकित्सा ।“उपदंशेषु सर्व्वेषु स्निग्धस्विन्नस्य देहिनः ।मेढ्रमध्ये शिरां विध्येत् पातयेद्वा जलौकसः ॥
सद्यो निर्हृतदोषस्य रुक्शोथावुपशाम्यतः ।पाको निवार्य्यो यत्नेन शिश्नक्षयकरः स यत् ॥
वटप्ररोहार्ज्जुनजम्बुलोध्र-पथ्याहरिद्रारचितः प्रलेपः ।व्यथां तथा शोथमपाकरोतिसर्व्वोपदंशेषु ततो हितोऽयम् ॥
उपदंशेषु पक्वेषु व्रणप्रक्षालनं हितम् ।त्रिफलायाः कषायेण भृङ्गराजरसेन वा ॥
नीलोत्पलं सुकुमुदं पद्मं सौगन्धिकं तथा ।एष चूर्णं धूलनार्थं प्रलेपश्चात्र शस्यते ॥
बन्धूकदलचूर्णेन रजसा दाडिमत्वचः ।गुण्ठनान्तद्व्रणे कुर्य्याल्लेपं पूगफलेन वा ॥
दहेत् कटाहे त्रिफला तन्मखी मधुसंयुता ।प्रलेपेनोपदंशस्य व्रणः सद्यः प्ररोहयेत् ॥
पटोलनिम्बत्रिफलाकिरात-क्वाथं पिबेद्बा खदिरासनाभ्याम् ।सगुग्गुलुं वा त्रिफलायुतं वासर्व्वोपदंशोपहरः प्रयोगः ॥
भूनिम्बनिम्बत्रिफलापटोल-करञ्जधात्रीखदिरासनानाम् ।कषायकल्कैः शृतमाशु चाज्यंसर्व्वोपदंशोपहरं प्रदिष्टम् ॥
इति भूनिम्बादिघृतम् ॥
“घृतानि यानि प्रोक्तानि कुष्ठे नाडीव्रणे व्रणे ।उपदंशे प्रयोज्यानि सेकाभ्यञ्जनभोजने ॥
क्षारसूत्रेण संछिद्य लिङ्गवर्त्तिमशेषतः ।दहेच्च तान्ततस्ताभ्यां चिकित्सां व्रणवच्चरेत् ॥
”इत्युपदंशाधिकारः ॥
* ॥
शूकदोषाधिकारः शूकदोषशब्दे द्रष्टव्यः । इतिभावप्रकाशः ॥
* ॥
अथ व्रणनाशकतैलम् ।“उडुम्बरं वटप्लक्षं जम्बुद्वयमथार्ज्जुनम् ।पिप्पलञ्च कदम्बञ्च पलाशलोध्रतिन्दुकम् ॥
मधूकमाम्रसर्जञ्च वदरं पद्मकेशरम् ।शिरीषबीजं कतकमेतत् क्वाथेन साधितम् ।तैलं हन्ति व्रणाल्लेपाच्चिरकालभवानपि ॥
”इति गारुडे १९८ अध्यायः ॥
वाचस्पत्यम्
Sanskritब्र(व्र)ण शब्दे अक० सेट् । (ब्र)व्रणति । अब्र(ब्र)-णित्--अ(ब्र)ब्राणीत् । कविकल्पद्रुमेऽयमन्त्यस्थादि ।
व्रण व्रण--अच् । क्षते अमरः । तत्स्वरूपनि-दानादि भावप्र० उक्तं यथा “व्रणो द्विधा परिज्ञेयो दोषजागन्तुभेदतः । दोषजो दुष्टदोषैः स्यादन्यः शस्त्रादि-सम्भवः” । तत्र वातिकस्य लक्षणमाह “स्तब्धः क-ठिनसंस्पर्शो मन्दस्रावो महारुजः । तद्युतः स्फु-टितश्यावो व्रणो मारुतसम्भवः” । स्तब्धः अचलः ।पैत्तिकमाह “तृष्णामोहज्वरक्लेददाहदुःखावदारणैः ।व्रणं पित्तकृतं विद्यात् स्रावैर्मन्दैश्च पूतिकैः” । क्लेदआर्द्रता । दुःखं व्यथारूपम् । अवदारणं व्रणे विदा-रणवत् पीडा । श्लैष्मिकमाह “बहुपिच्छो गुरुःस्निग्वस्तिमितो मन्दवेदनः । पाण्डुवर्णोऽल्पसंक्लेदश्चिर-पाकी कफव्रणः” । बहुपिच्छः बहुपिच्छिलः । अल्पसंक्लेद ईषदार्द्रः । रौधिरं द्वन्द्वजं सान्निपातिकमाह“रक्तो रक्तस्रुतीरक्ताद् द्वित्रिजः स्यात् तदन्वयः” ।तदन्वयः द्वित्रिदोषलिङ्गसम्बन्धः । शुद्धव्रणलिङ्गमाह“जिह्वातलाभोऽतिमृदुः स्वस्थः स्निग्धोऽल्पवेदनः । सु-व्यवस्थो निरास्रावः शुद्धव्रण इति स्मृतः । जिह्वातलाभःतलशब्दोऽत्र स्वरूपार्थः तेन जिह्वावद्रक्तः । सुव्य-वस्थः उच्छूनतारहितः । दुष्टव्रणनिङ्गमाह “पूतिपू-यादिदुष्टासृक्स्राव्यूतसङ्गी चिरस्थितिः । दुष्टव्रणो-ऽतिगन्धादिः शुद्धलिङ्गविपर्य्ययः” । उत्सङ्गी कोटर-वान् । अतिगन्धादिः आदिशब्देन स्राववेदनाविवर्ण-तादयः संगृह्यन्ते । संरोहिव्रणस्य लिङ्गमाह “कपोत-वर्णप्रतिमा यस्यां तालोदवर्जिताः । स्थिराश्च पिडका-वन्तो रोहन्तीति तमादिशेत्” । कपोतवर्णप्रतिमः पा-ण्डुघूसरः । स्थिराः विदीर्णतारहिताः । पिडका-वन्तः संरोहणार्था ये मांसाङ्कुरास्तद्युक्ताः । संरूढ-लिङ्गमाह “रूढवर्त्मानमग्रन्थिमशूलमरुजं व्रणम् ।त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत्” । रूढ-वर्त्मानं संरूढस्रावमार्गम् । समतलं अनिम्नम् । सु-खसाध्यत्वादिकमाह “त्वङ्मांसजः सुखे देशे तरुण-स्यानुपदुवः । धीमतोऽभिनवः काले सुखे साध्यः सुख-व्रणः” । सुखे देशे मर्मरहिते । अनुपद्रवः ज्वरतृष्णाश्वासकासारोचकादिरहितः । धीमतः पथ्यसेविनः ।सुखे काले हेमन्ते शिशिरे च । “गुणैरन्थतरैरेभिर्हीनःकृच्छो व्रणः स्मृतः । सर्वैर्विहीनो विज्ञेयस्त्वसाध्यो नि-रुपक्रमः” । एभिस्त्वङ्मांसजत्वादिभिः । निरुपमक्रमःअनुपक्रान्तः चिरमुपेक्षित इति यावत् । “वसामेदोऽथ-मज्जानं मस्तुलिङ्गञ्च यः स्रवेत् । आगन्तुजो व्रणः सिध्येन्न सिध्येद्दोषसम्भवः” । मस्तुलिङ्गं मस्तुकाभ्यन्तर-स्नेहः “कुष्ठिनां विषजुष्टानां शौषिणां मधुमेहिनाम् ।व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणः” । अ-रिष्टमाह “दह्यन्ते चान्तरत्यर्थं वहिःशीताश्च येब्रणाः । दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः ।प्राणमांसक्षयश्वासकासारोचकपीडिताः । प्रवृद्धपूयरु-धिरा व्रणा ये चापि मर्मसु । क्रियाभिः सम्यगारब्धान सिध्यन्ति च ये व्रणाः । चिकित्सेन्नैव तान् वैद्यःसंरक्षन्नात्मनो यशः । मद्यागुर्वाज्यसुमनः पद्मचन्दन-चम्पकैः । सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाःस्मृताः” । मर्मसु पायुनाभिहृदयादिषु । सुमनाजातिः । दिव्यगन्धाः पारिजातादिगन्धाः । अथागन्तु-व्रणस्य निदानमाह “नानाधारामुखैः शस्त्रैर्नानास्थाननिपातितैः । भवन्ति नानाकृतयो व्रणास्तांस्तान्नि-बोध मे” । नाना धारा मुखानि येषां तैः शस्त्रैः अर्द्ध-चन्द्र खङ्गभल्लकुन्तशूलशरादिभिः । नानाकृतयः षडा-कृतयः । ता आकृतीराह “छिन्नं भिन्नं तथा विद्धंक्षतं पिच्चितमेव च । घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्या-मि लक्षणम्” । तत्र छिन्नस्य लक्षणमाह “तिर्य्यक्-किन्न ऋजुर्वापि यो व्रणस्त्वायतो भवेत् । गात्रस्य पा-तरं तद्धि छिन्नमित्यभिधीयत” । यो व्रणः तिर्य्यक्छिन्नःखड्गादिकृततिर्य्यक्छेदयुतः । ऋजुर्वापि अथवा खड्-गादिकृतरक्तो व्रणः आयतः दीर्घः । आयत इतितिर्य्यक्छिन्नस्य ऋजोश्च विशेषणम् । गात्रस्य पातनगात्रस्यैकदेशस्य छेदेन पृथक्करणं वा छिन्नमित्यभिधी-यते । भिन्नमाह “शक्तिकुन्तेषुखड्गाग्रविषाणैराशयोहतः । यत् किञ्चित् प्रसरेत्तद्धि भिन्नमित्यभिधीयते” ।आशयः कोष्ठः । कोष्ठभेदस्य लक्षणमाह “स्थानान्य-नग्निपक्वानां मूत्रस्य रुधिरस्य च । हृदुण्डुकः फु-फुसश्च कोष्ठ इत्यभिधीयते । तस्मिन् भिन्ने रक्तपूर्णेज्वरोदाहश्च जायते । मूत्रमार्गगुदास्येभ्यो रक्तं थ्राणाच्चगच्छति । मूर्च्छा श्वासस्तृषाध्मानमभक्तच्छन्द एव च ।विण्मूत्रवातसङ्गश्च स्वेदश्यावोऽक्षिरक्तता । लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च । हृदि शूलं पार्श्व-योश्च विशेषश्चाभिधीयते” । तस्मिन् कोष्ठे । मिन्नेशक्त्यादिभिः । रक्तपूर्णे कोष्ठे तस्मादङ्गाद्भिन्नात् स्रु-तेन रक्तेन पूर्णे वा ज्वरादयो जायन्ते । आमाशयेपक्वाशये च रक्तपूर्णे लक्षणभेदमाह “आमाशयस्थेरुधिरे रुधिरं छर्दयत्यपि । आध्मानमतिमात्रञ्च शू-लञ्च भृशदारुणम् । पक्वाशयगते रक्ते रुजा गौरवमेवच । अधःकाये विशेषेण शीतता च भवेदिह” । रुजा-शूलम् । गौरवं पक्वाशये । अधःकाये नाभेरधोदेशेविशेषेण गौरवमित्यन्वयः । शीतता च भवेदिह इहनाभेरधोदेशे शीतता च स्यात् सा च व्याधिस्वभा-वात् । विद्धमाह “सूक्ष्मास्यशल्याभिहतं पदं गत्वा-शयं विना । उत्तुण्डितं निर्गतं वा तद्विद्धमिति नि-र्दिशेत्” । आशयं विना कोष्ठं विना । उत्तुण्डितं अ-निर्गतशल्यम् । निर्गतं वा निर्गतशल्यं वा । सशल्यस्यव्रणस्य लक्षणमाह । “श्यावं सशोथं पिडकायुतञ्च मुहु-र्मुहुःशोणितवाहनञ्च । मृदूद्गतं बुद्बुदतुल्यमांसंव्रणं सशल्यं सरुजं वदन्ति” । मुहुर्मुहुःशोणितवाहनंयदा यदा शल्यं चलितं तदा तदा रुधिरं वहति ।उद्गतं उत्थितमुखम् । कोष्ठस्थितस्य शल्यस्य लक्षणमाह“त्वचोऽतीत्य सिरादीनि भित्त्वाङ्गं परिहृत्य वा । कोष्ठेप्रतिष्ठितं शल्यं कुर्य्यादुक्तानुपद्रवान्” । त्वचः सप्तापिअतिक्रम्य उक्तानुपद्रवान् आटोपानाहौ व्रणमुखेनात्रपुरीषदर्शनञ्च । असाध्यस्य कोष्ठस्थरक्तस्य पुरोषस्य लक्ष-णमाह “कोष्ठान्तर्ल्लोहितं पाण्डु शीतपादकराननम् ।शीतोच्छासं रक्तनेत्रमानद्धञ्च विवर्जयेत्” । आनद्धं आ-नाहवन्तम् । क्षतमाह “नातिच्छिन्नं नातिभिन्नमुभयो-र्लक्षणान्विनम् । विषमं व्रणमङ्गे यत्तत् क्षतं परिकी-र्त्तितम्” । नातिच्छिन्नं नातिदीर्घघातम् । नातिभिन्नंनातिगम्भीरघातम् । उभयोश्छिन्नभिन्नयोः विषमंप्रणमङ्गे यत् यद्व्रणमङ्गवैषम्यकरम् । पिच्चितमाह“प्रहारपीडनाभ्यान्तु यदङ्गं पृथुतां गतम् । सास्थितत् पिच्चितं विद्याद्रक्तमज्जपरिप्लुतम्” । प्रहारोमुद्गरादिना । पीडनं कपाटादिना । पृथुतां चिपि-टताम् । घृष्टमाह “घर्षणादपि घाताद् वा यदङ्गंविगतत्वचम् । ऊष्मस्रावान्वितं तत् तु घृष्टमित्यभिधी-यते । घर्षणात् कर्कशेष्टिकापाषाणादिभिः । मांससिरास्नायुसन्ध्यस्थिमर्मसु क्षतेषु सामान्यलक्षणमाह“भ्रमः प्रलापः पतनं प्रगोहो विचेष्टनं ग्लानिरथो-ष्णता च । स्रस्ताङ्गता मूर्च्छनमूर्द्ध्ववातस्तीव्रा रुजोवातकृताश्च तास्ताः । मांसोदकाभं रुधिरञ्च गच्छेत्सर्वेन्द्रियार्थोपरमस्तथैव । दशार्द्धसंख्येष्पथ विक्षतेषु सामा-न्यतो मर्मसु लिङ्गमुक्तम्” । पतनं भूमौ । विचेष्टनंविरुद्धं चेष्टनं हस्तपादादिप्रक्षेपणादिकम् । मूर्च्छनंइन्द्रियमोहः । प्रमोहो मनोमात्रमोहः । तीव्रा रुजोवातकृताश्च तास्ताः दण्डापतानकादयः । रुधिरञ्च गच्छेत् मेहनभगगुदास्यघ्राणेध्यः स्रवेत् । सर्वेन्द्रियार्थोपरमः इन्द्रियाणां कार्य्यनाशः । अथ मर्मसिरास्नायु-सन्ध्यस्थ्नां विद्धानां पृथग्लक्षणमाह “सुरेन्द्रगोपप्रतिमं प्रभूतं रक्तं स्रवेत्तत्क्षयजश्च वायुः । करोतिरोगान् विविधान् यथोक्तान् सिरासु विद्धास्वथ वा क्ष-तासु” । सुरेन्द्रगोपो वार्षिकोत्थितकीटविशेषः । (वीर-बहुटी) इति लोके पुसिद्धः । प्रभूतं बहु । रोगान्शिरोभितापान्धताक्षवकादीन् । विद्धासु शरादिना ।क्षतान् खड्गादिना । “कौब्ज्यं शरीरावयवावसादःक्रियास्वशक्तिस्तुमुला रुजा च । चिराद् व्रणो रोहतियस्य चापि तं स्नायुविद्धं पुरुषं वदन्ति । कौब्ज्यंविद्धस्याङ्गस्य वक्रता । तुमुला महती” । “शोथातिवृद्धि-स्तुमुलारुजश्च बलक्षयः सर्वत एव शोथः । क्षतेषु स-न्धिष्वचलाबलेषु स्यात् सन्धिकर्मोपरमश्च लिङ्गम्” । सर्वतएव शोथः सर्वसन्धीन् व्याप्य शोथः । उपरमः नाशः ।“घोरारुजो यस्य निशादिनेषु सर्वास्ववस्थासु न चैतिशान्तिम् । भिषग्विपश्चिद्विदितार्थसूत्रस्तमस्थिविद्धं पु-रुषं प्रवक्ति” । सर्वास्वरस्थासु शयनासनादिकासु । वि-दितार्थसूत्रेः ज्ञातशल्यतन्त्रः । अथ ममेषिरादिविद्धलिङ्गानि पृथगभिधाय सर्मसिरादीनां विद्धानां पृ-थक्लिङ्गान्थतिदेशेनाह “यथास्वमेतानि विभावयेच्चलिङ्गानि मर्मस्वपि ताडितेषु” । यथास्वं सिरादीनांविद्धानाम् एतानि लिङ्गानि पृथगुक्तानि लिङ्गानि च-कारात् भ्रमप्रलापादीनि च । मर्मस्विव सिरादिषुताडितेषु विद्धेषु विभावयेत् जानीयात् । सर्वव्र-णानामुपद्रवानाह “विसर्पः पक्षघातश्च सिरास्तम्भाऽप-तानकः । मोहोन्मादौ ब्रणे पीडा ज्वरस्तृष्णाहनु-ग्रहः । कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः ।षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः” । अथा-ग्निदग्धस्य निदानमाह “तत्राग्निर्द्विविधो ज्ञेवः स्नेह-रूक्षप्रभेदतः । स्नेहस्तत्र तु तैलादि रूक्षं लौहादि-कथ्यते” । अग्निदग्धं चतुर्विधमाह “अग्निदग्धं च-तुर्द्धा स्यात् प्लुष्टं दुर्दग्धमेव च । सम्यग्दग्धं तथाती-व्रदग्धञ्च परिकीर्त्तितम्” । तेषां लक्षणभाह “यद्विवर्ण-मतिप्लुष्टं तत्प्लुष्टमभिधीयते । तीव्रदाहो व्यथावन्तोयत्र स्फोटा भवन्ति हि । चिरेण ते प्रशाम्यन्ति तद्दु-र्दग्धमुदाहृतम् । ताम्रवर्णमगम्भीरं दाहपीडासम-न्वितम् । सुसस्थितञ्च कथितं सम्यगदग्धं भिषग्वरैः ।त्वङ्मांसं यत्र दग्धं स्याद्विश्लेषो वपुषस्तथा । सिरा-स्नाय्वस्थिसन्धीनां तं वदन्त्यतिदग्धकम् । अत्यर्थं वे-दनादाहो ज्वरस्तृण्मूर्च्छया सह । स्याद् व्रुणस्तु चि-राद् रोहेत् रूढो याति विवर्णताम्” । दुष्टव्रणनाडीव्रणशब्दयोस्तद्भेदौ दृश्यौ । व्रणशब्दनिरुक्तिः सुश्रुतेउक्ता यथा “वृणोति यस्माद्रूढोऽपि व्रणवांस्तु ननश्यति । आदेहधारणात्तस्मात् व्रण इत्युच्यते बुधैः” ।सुश्रुतोक्ता विशेषाः द्विव्रणशब्दे व्रणास्रावशब्दे च दृश्याः ।
क्षीरतरङ्गिणी
Sanskritव्रण गात्रविचूर्णने
- व्रणयति, अवव्रणत् भ्वादौ (1302)-व्रणति, हेतौ व्राणयति, अविव्रणत् 376
धातुवृत्तिः
Sanskritव्रण (अर्थः) गात्रविचूर्णने
( व्रणयति ) व्रणतीति शब्दाथ शपि 391
कृदन्तरूपमाला
Sanskrit1 {@“व्रण शब्दार्थः”@} 2 ‘व्रणेच्छब्दार्थविषये व्रणयेद् गात्रचूर्णने।’ 3 इति देवः।
‘अयं बशादित्वेन क्वचित् पठ्यते।
सर्वत्र दन्त्योष्ठ्यादिरेव।’ इति धातुवृत्तिः।
व्राणकः-णिका, व्राणकः-णिका, विव्रणिषकः-षिका, वंव्रणकः-णिका
व्रणिता-त्री, व्राणयिता-त्री, विव्रणिषिता-त्री, वंव्रणिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकक्वणतिवत् 4 ज्ञेयानि।
‘व्रण क्रिमिभक्षणे’ इति काशकृत्स्नः।
01 (१६६२)
02 (१-भ्वादिः-४५१। अक। सेट्। पर।)
03 (श्लो। ९३)
04 (२९३)
1 {@“व्रण गात्रविचूर्णने”@} 2 अदन्तः।
‘व्रणेच्छब्दार्थविषये व्रणयेद् गात्रचूर्णने’ 3 इति देवः।
धातुवृत्तौ ‘व्रणति इति दीप्त्यर्थे शपि’ इति दृश्यते।
भ्वादौ तु शब्दार्थे एव पठितः।
व्रणकः-णिका, विव्रणयिषकः-षिका, व्रणयिता-त्री, विव्रणयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककलयतिवत् 4 ऊह्यानि।
01 (१६६३)
02 (१०-चुरादिः-१९३७। सक। सेट्। उभ।)
03 (श्लो। ९३)
04 (१७६)
Burnouf
FrenchStchoupak
Frenchव्रण-
(rar. nt.) blessure, plaie, cicatrice
éraflure, défaut
(d'un objet inanimé)
-वन्त्- a. blessé
-इन्- id.
°ग्रन्थि- chair qui se forme sur une plaie, plaie cicatrisée.
°पट्टक- -इका- pansement, bandage.
°भृत्- a. blessé.
°युक्त- a. v. id.
-त्व- nt. fait d'être blessé.
°विरोपण- a. qui fait cicatriser les plaies, qui les guérit
nt. fait
de guérir une blessure.
°वेदना- souffrance causée par une blessure.
°संरोहण- nt. guérison d'une blessure.
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
