व्येञ् (vyeJ)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit वे
व्येञ्
संवरणे
भ्वादिः
सकर्मकः
अनिट्
उभयपदी
व्ययति-ते
धातुप्रदीपः
Sanskritव्येञ् संवरणे
- व्ययति । व्ययते । विव्याय ।विव्ये । विव्यतुः । विव्याते । विव्युः। विव्यिरे । विव्ययिथ । विव्यिषे । व्याता । वेवीयते । प्रव्याय । वीत्वा । परिवीय । परिव्याय ।। 1015 ।।
क्षीरतरङ्गिणी
Sanskritव्येञ् संवरणे
- (अर्थविवरणम्) संवरणमाच्छादनम्
व्ययते, व्ययति संवीयते न व्यो लिटि (6146) इत्येच आत्त्वं नास्ति-संविव्याय इडत्त्यर्तिव्ययतीनाम् (7266) संविव्ययिथ अनभ्यासस्य इत्युपधादीर्घो नास्ति स्वपिस्यमिव्येञां यङि (6119) सम्प्रसारणम्-संवेवीयते व्यश्च (6143) इति न ल्यपि सम्प्रसारणम्-संव्याय विभाषा परेः (6144) परिवीय परिव्याय शाछासाह्वा (7337) इति युक्-संव्यायति नौ व्यो यलोपः पूर्व [पद] स्य च दीर्घः (उ0 4136) नीविः, नीवी 977
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritव्येञ् (अर्थः) संवरणे
(व्ययति व्ययते विव्याय विव्यतुः विव्युः विव्ययिथ विव्याय) "न व्यो लिटि'' इत्यात्वनिषेधः णिति वृद्धावायादेशे तस्य "द्विर्वचनेऽचि'' इति स्थानिवत्त्वाद् व्येशब्दस्य द्विर्वचने "लिट्यभ्यासस्योभयेषाम्'' इत्याभ्यासयकारस्य सम्प्रसारणे पररूपत्वम् सम्प्रसारणे चोभयेषांग्रहणाद्धलादिशेषं बाधित्वा भवति, "न सम्प्रसारणे सम्प्रसारणम् '' इति वकारस्य सम्प्रसारणं न भवति, किति "वचिस्वपि'' इत्यादिना सम्प्रसारणे पूर्वरूपत्वे द्विर्वचने "एरनेकाचः'' इति यण् थलि "इडत्यर्त्तिव्ययतीनाम्'' इतीट् नित्यमन्यत्र क्रादिनियमादिट् ( विव्ये विव्याते विव्यिषे विव्यिध्वे विव्यिढ्वे विव्यिवहे ) सर्वत्र "वचिस्वपि'' इत्यादिना सम्प्रसारणे पररूपत्वे द्वित्वम् ( व्याता व्यास्यति व्यास्यते व्ययतु व्ययताम् अव्ययत् अव्ययत व्ययेत् आशिषि वीयात् व्यासीष्ट ) यासुटः कित्त्वात्संप्रसारणपूर्वरूपयोः "हलः'' इति दीर्घः (अव्यासीत् अव्यास्ताम् ) परस्मैपदे सगिटौ ( विव्यासति विव्यासते वेवीयते ) "स्वपिस्यमिव्येञां यङि'' इति संप्रसारणे पररूपत्वे "हलः'' इति दीर्घः द्विर्वचनम् ( वाव्येति वाव्याति वाव्यीतः वाव्यति ) क्ङिक्तोः "श्नाभ्यस्तयोः'' इत्यादिना युक् ( संव्याय ) "व्यश्च'' इति ल्यपि संप्रसारणनिषेधः, परिपूर्वत्वे तु "विभाषा परेः'' इति प्रसारणविकल्पनात्परिवीय परिव्यायेत्युभयं भवति ( नीविः ) नौ व्यो यलोपः पूर्वपदस्य च दीर्घ इति इकारप्रत्यये डित्त्वाट्टिलोपयलोपयोः पूवपददीर्घः ( नीवी ) "कृदिकारादिक्तिनः'' इति वा ङीष् 987
कृदन्तरूपमाला
Sanskrit1 {@“व्येञ् संवरणे”@} 2 यजादिः।
‘-- संवरणे--उपयोगितायाम्’ इति काशकृत्स्नः।
‘-- संवरणम्--आच्छादनम्’ इति क्षीरस्वामी।
व्यायकः-यिका, 3 व्यायकः-यिका, विव्यासकः-सिका, 4 वेवीयकः-यिका
व्याता-त्री, व्याययिता-त्री, विव्यासिता-त्री, वेवीयिता-त्री
5 इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकवयतिवत् 6 ज्ञेयानि।
शतरि व्ययन्-न्ती, 7 वीतम्-तः, क्विपि-संवीः-संव्यौ-संव्यः
8 दोषवीः, 9 संव्याय, 10 परिवीय-परिव्याय, संवीय-संव्याय, 11 नीवी 12, 13 नीविः, इत्यादिकानि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
01 (१६५९)
02 (१-भ्वादिः-१००७। सक। अनि। उभ।)
03 [[१। णौ परतः ‘शाच्छासाह्वाव्यावेपां युक्’ (७-३-३७) इति युगागमो भवति। आदन्तलक्षणपुकोऽपवादः।]]
04 [[२। ‘स्वपिस्यमिव्येञां यङि’ (६-१-१९) इति यङि परतः संप्रसारणे पूर्वरूपत्वे, ‘हलः’ (६-४-२) इति दीर्घे द्विर्वचने च रूपमेवम्।]]
05 [पृष्ठम्१२७४+ ३१]
06 (१६४०)
07 [[१। निष्ठायाम् यजादित्वात् संप्रसारणे, दीर्घे च रूपमेवम्। ‘वपादेस्तु यवोब् विश्वोट् दोषवीश्च पटोत्तुकि।’ इति प्र। सर्वस्वे।]]
08 [[२। दोषान् व्ययते इति दोषवीः। क्विपि रूपमेवम्।]]
09 [[३। ल्यपि ‘व्यश्च’ (६-१-४३) इति संप्रसारणनिषेधः। तेन एवं रूपम्।]]
10 [[४। परिपूर्वकात् व्येञस्तु ‘विभाषा परेः’ (६-१-४४) इति ल्यपि सम्प्रसारणनिषेधबि- कल्पात् रूपद्वयमिति बोध्यम्। ‘समो वा इत्येके’ इति
\n\n तेन संवीय-- संव्याय इति प्र। सर्वस्वे।]]
11 [[५। ‘कृदिकारादक्तिनः’ (ग। सू। ४-१-४५) इति ङीषि रूपमेवम्। नीवी मूलधनम् इति केचित्। नीवी-वस्त्रग्रन्थिः।]]
12 [[आ। ‘नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः।।’ कु। संभवे १-३८।]]
13 [[६। ‘नौ व्यो यलोपः पूर्वपदस्य च दीर्घः’ (द। उ। १-६४) इति नावुपपदे धातोः इण्- प्रत्ययः, डिच्च यलोपः पूर्वपदस्य च दीर्घः। निवीयतेऽसाविति नीविः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
