| YouTube Channel

व्यूढः (vyUDhaH)

 
शब्दकल्पद्रुमः
Sanskrit
व्यूढः, त्रि, (विशेषेण उह्यतेस्म वि + वह + क्तः ।)विन्यस्तः संहतः इत्यमरः ४४
(व्यूहरचनयाधिष्ठितः यथा, गीतायाम् ।“दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्य्योधनस्तदा ।आचार्य्यमुपसंगम्य राजा वचनमब्रवीत्
”)पृथुलः इति मेदिनी
(यथा, रघुः १३ ।“व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः ।आत्मकर्म्मक्षमं देहं क्षात्त्रो धर्म्म इवाश्रितः
”)