| YouTube Channel

व्युत्पन्नः (vyutpannaH)

 
शब्दकल्पद्रुमः
Sanskrit
व्युत्पन्नः, त्रि, (वि + उत् + पद + क्तः ।) संस्कृतः ।इति हेमचन्द्रशब्दरत्नावल्यौ
व्युत्पत्तियुक्तः ।यथा व्याकरणव्युत्पन्नशब्दज्ञानाधीनं शास्त्रा-न्तरज्ञानं तदधीना वैदिकक्रिया तत्फलंस्वर्गादि इति मुग्धबोधटीकायां दुर्गा-दासः