| YouTube Channel

व्युच्छना (vyucchanA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“उछी विवासे”@} 2 विवासः = समाप्तिः।
प्रायेणायं विपूर्वकः प्रयुज्यते इति पुरुषकारः।
‘शशपोरुञ्छतीत्युञ्छे स्वरभेदाद् द्विरुच्यते।
उच्छतीति विवासे स्यात् इदितोऽनिदितस्तयोः।’ 3 इति देवः।
व्युच्छकः-च्छिका, उच्छकः-च्छिका, उचिच्छिषकः-षिका
व्युच्छिता-त्री, उच्छयिता-त्री, उचिच्छिषिता-त्री
व्युच्छन्-न्ती, व्युच्छयन्-न्ती, उचिच्छिषन्-न्ती
4 व्युच्छिष्यन्-न्ती-ती, उच्छयिष्यन्-न्ती-ती, उचिच्छिषिष्यन्-न्ती-ती
-- व्युच्छयमानः, व्युच्छयिष्यमाणः
5 व्युट्-व्युशौ-व्युशः
-- -- 6 व्युष्टः-ष्टम्-ष्टवान्- 7 व्युष्टा, व्युच्छितम्-तः-तवान्, उचिच्छिषितः-तवान्
उच्छः, उच्छः, उचिच्छिषुः, उचिच्छयिषुः
व्युच्छितव्यम्, व्युच्छयितव्यम्, उचिच्छिषितव्यम्
व्युच्छनीयम्, उच्छनीयम्, उचिच्छिषणीयम्
व्युच्छ्यम्, उच्छ्यम्, उचिच्छिष्यम्
ईषदुच्छः-दुरुच्छः-सूच्छः
-- -- व्युच्छ्यमानः, उच्छ्यमानः, उचिच्छिष्यमाणः
उच्छः, उच्छः, उचिच्छिषः
उच्छितुम्, व्युच्छयितुम्, उचिच्छिषितुम्
8 9 उष्टिः-उच्छा 10, व्युच्छना, उचिच्छिषा, उचिच्छयिषा
उच्छनम्, उच्छनम्, उचिच्छिषणम्
उच्छित्वा, उच्छयित्वा, उचिच्छिषित्वा
व्युच्छ्य, व्युच्छ्य, व्युचिच्छिष्य
उच्छम् २, उच्छित्वा २, उच्छम् २, उच्छयित्वा २, उचिच्छिषम्
उचिच्छिषित्वा २।
प्रासङ्गिक्यः
01
=>
(९८)
02
=>
(१-भ्वादिः-२१६। सक। सेट्। पर।)
03
=>
(श्लो-५६)
04
=>
[पृष्ठम्००९६+ २६]
05
=>
[[१। ‘च्छ्वोः शूड्--’ (६-३-१९) इति शः। पदान्ते ‘व्रश्च--’ (८-२-३६) इत्यादिना षत्वे जश्त्वे रूपम्।]]
06
=>
[[२। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति इट् न। ‘व्रश्चभ्रस्ज--’ (८-२-३६) इति षत्वम्।]]
07
=>
[[आ। ‘रजन्यां व्युष्टायामुषसि जनयामास तनयम्।’ इति क्षीरतरङ्गिण्यामुपात्तः श्लोकः।]]
08
=>
[[B। “अहूर्णचित्ताः परिमूर्च्छितव्रताः स्फूर्णामया अप्रयुशः कृतोञ्छनाः। भजन्ति यां व्युष्टिमतोऽपि भूयसीं ध्रजन्ति यत् ध्रञ्जनमात्रतो जनाः।।” धा। का। १-२९।]]
09
=>
[[३। बाहुलकात् क्तिन्। षत्वम्। ‘व्युष्टिः फले समृद्धौ च’ इत्यमरः।]]
10
=>
[[४। ‘गुरोश्च हलः’ (३-३-१०३) इति अप्रत्ययः।]]