| YouTube Channel

व्याययिता-त्री (vyAyayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“व्यय गतौ”@} 2 ‘वित्तत्यागे व्यययति व्ययति व्ययते गतौ।’ 3 इति देवः।
व्यायकः-यिका, व्यायकः-यिका, विव्ययिषकः-षिका, वाव्ययकः-यिका
व्ययिता-त्री, व्याययिता-त्री, विव्ययिषिता-त्री, वाव्ययिता-त्री
व्ययन् 4 -न्ती, व्याययन्-न्ती, विव्ययिषन्-न्ती, वाव्ययन्-न्ती
-- व्ययिष्यन्-न्ती-ती, व्याययिष्यन्-न्ती-ती, विव्ययिषिष्यन्-न्ती-ती
-- व्ययमानः, व्याययमानः, विव्ययिषमाणः, वाव्यय्यमानः
व्ययिष्यमाणः, व्याययिष्यमाणः, विव्ययिषिष्यमाणः, वाव्ययिष्यमाणः
5 व्यत्-व्ययौ-व्ययः
-- -- व्ययितम्-तः, व्यायितम्-तः, विव्ययिषितः, वाव्ययितः-तवान्
व्ययः, प्रव्ययी, व्ययः, विव्ययिषुः, वाव्ययः
व्ययितव्यम्, व्याययितव्यम्, विव्ययिषितव्यम्, वाव्ययितव्यम्
व्ययनीयम्, व्यायनीयम्, विव्ययिषणीयम्, वाव्ययनीयम्
व्याय्यम्, व्याय्यम्, विव्ययिष्यम्, वाव्यय्यम्
व्यय्यमानः, व्याय्यमानः, विव्ययिष्यमाणः, वाव्यय्यमाणः
ईषद्व्ययः-दुर्व्ययः-सुव्ययः
-- -- व्ययः, व्यायः, विव्ययः, वाव्ययः
व्ययितुम्, व्याययितुम्, विव्ययिषितुम्, वाव्ययितुम्
6 7 व्यतिः, व्यायना, विव्ययिषा, वाव्यया
व्ययनम्, व्यायनम्, विव्ययिषणम्, वाव्ययनम्
व्ययित्वा, व्याययित्वा, विव्ययिषित्वा, वाव्ययित्वा
प्रव्यय्य, प्रव्याय्य, प्रविव्ययिष्य, प्रवाव्यय्य
व्ययम् २, व्ययित्वा २, व्यायम् २, व्याययित्वा २, विव्ययिषम् २, विव्ययिषित्वा २, वाव्ययम्
वाव्ययित्वा २।
प्रासङ्गिक्यः
01
=>
(१६५५)
02
=>
(१-भ्वादिः-८८१। सक। सेट्। उभ।)
03
=>
(श्लो। १५०)
04
=>
[[C। ‘चाय्या व्ययद्दाशविलोकमेषभ्रेषज्झषा यासदघं स्पशन्ती।।’ धा। का। २-२७।]]
05
=>
[[४। क्विपि वलिलोपे तुकि रूपमेवम्।]]
06
=>
[पृष्ठम्१२७२+ २५]
07
=>
[[१। क्तिनि वलिलोपे रूपमेवम्।]]
1 {@“व्येञ् संवरणे”@} 2 यजादिः।
‘-- संवरणे--उपयोगितायाम्’ इति काशकृत्स्नः।
‘-- संवरणम्--आच्छादनम्’ इति क्षीरस्वामी।
व्यायकः-यिका, 3 व्यायकः-यिका, विव्यासकः-सिका, 4 वेवीयकः-यिका
व्याता-त्री, व्याययिता-त्री, विव्यासिता-त्री, वेवीयिता-त्री
5 इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकवयतिवत् 6 ज्ञेयानि।
शतरि व्ययन्-न्ती, 7 वीतम्-तः, क्विपि-संवीः-संव्यौ-संव्यः
8 दोषवीः, 9 संव्याय, 10 परिवीय-परिव्याय, संवीय-संव्याय, 11 नीवी 12, 13 नीविः, इत्यादिकानि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१६५९)
02
=>
(१-भ्वादिः-१००७। सक। अनि। उभ।)
03
=>
[[१। णौ परतः ‘शाच्छासाह्वाव्यावेपां युक्’ (७-३-३७) इति युगागमो भवति। आदन्तलक्षणपुकोऽपवादः।]]
04
=>
[[२। ‘स्वपिस्यमिव्येञां यङि’ (६-१-१९) इति यङि परतः संप्रसारणे पूर्वरूपत्वे, ‘हलः’ (६-४-२) इति दीर्घे द्विर्वचने रूपमेवम्।]]
05
=>
[पृष्ठम्१२७४+ ३१]
06
=>
(१६४०)
07
=>
[[१। निष्ठायाम् यजादित्वात् संप्रसारणे, दीर्घे रूपमेवम्। ‘वपादेस्तु यवोब् विश्वोट् दोषवीश्च पटोत्तुकि।’ इति प्र। सर्वस्वे।]]
08
=>
[[२। दोषान् व्ययते इति दोषवीः। क्विपि रूपमेवम्।]]
09
=>
[[३। ल्यपि ‘व्यश्च’ (६-१-४३) इति संप्रसारणनिषेधः। तेन एवं रूपम्।]]
10
=>
[[४। परिपूर्वकात् व्येञस्तु ‘विभाषा परेः’ (६-१-४४) इति ल्यपि सम्प्रसारणनिषेधबि- कल्पात् रूपद्वयमिति बोध्यम्। ‘समो वा इत्येके’ इति
\n\n तेन संवीय-- संव्याय इति प्र। सर्वस्वे।]]
11
=>
[[५। ‘कृदिकारादक्तिनः’ (ग। सू। ४-१-४५) इति ङीषि रूपमेवम्। नीवी मूलधनम् इति केचित्। नीवी-वस्त्रग्रन्थिः।]]
12
=>
[[आ। ‘नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः।।’ कु। संभवे १-३८।]]
13
=>
[[६। ‘नौ व्यो यलोपः पूर्वपदस्य दीर्घः’ (द। उ। १-६४) इति नावुपपदे धातोः इण्- प्रत्ययः, डिच्च यलोपः पूर्वपदस्य दीर्घः। निवीयतेऽसाविति नीविः।]]