| YouTube Channel

व्यामिश्रं (vyAmizraM)

 
शब्दकल्पद्रुमः
Sanskrit
व्यामिश्रं, त्रि, (वि + + मिश्र + घञ् ।)संमिलितम् भिन्नविषयाणामेकीभावकरणम् ।यथा, --“व्यामिश्रेणेव वाक्यन बुद्धिं मोहयसीव मे ।तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्
”इति श्रीभगवद्गीतायाम्
क्वचित् कर्म्मप्रशंसा क्वचित् ज्ञानप्रशंसा इत्येवंव्यामिश्रं सन्देहोत्पादकमिव यद्वाक्यं तेन मेमतिमुभयत्र दोलायितां कुर्व्वन् मोहयसीव ।इति तट्टीकायां श्रीधरस्वामी