| YouTube Channel

व्यापकन्यासः (vyApakanyAsaH)

 
शब्दकल्पद्रुमः
Sanskrit
व्यापकन्यासः,
पुं,
शिरस्तः पादान्तं पादतःशिरोऽन्तं मूलमन्त्रविन्यासः यथा ।“आदावृष्यादिको न्यासः करशुद्धिस्ततः परम् ।अङ्गुलिव्यापकन्यासौ हृदादिन्यास एव
तालत्रयञ्च दिग्बन्धः प्रणायामस्ततः परम् ।ध्यानं पूजा जपश्चैव सर्व्वतन्त्रेष्वयं विधिः
”इति तन्त्रसारः
प्रपञ्चस्तु न्यासशब्दे द्रष्टव्यः