| YouTube Channel

व्यानः (vyAnaH)

 
Apte
English
व्यानः [vyānḥ], One of the five life-winds or vital airs in the body, that which is diffused through the whole body
व्याने तृप्यति श्रोत्रं तृप्यति Ch.
Up.*
5.2.2
व्यानः सर्वशरीरगः.
Apte 1890
English
व्यानः One of the five life-winds or vital airs in the body, that which is diffused through the whole body
व्यानः सर्वशरीरगः.
Apte Hindi
Hindi
व्यानः
पुं*
- व्यानिति सर्वशरीरं व्याप्नोति- वि + + अन् + अच्
शरीरस्थ पाँच प्राणों में से एक जो समस्त शरीर मे व्याप्त है
Wordnet
Sanskrit
Synonyms:
व्यानः
noun
शरीरस्थेषु पञ्चसु वायुषु सर्वशरीरगः वायुः।
"शरीरस्थस्य रसस्य संवहनस्य तथा स्वेदरुधिरादीनां स्रावणस्य कार्यं व्यानः करोति।"
शब्दकल्पद्रुमः
Sanskrit
व्यानः,
पुं,
(व्यानिति सर्व्वशरीरं व्याप्नोतीति वि +आ + अन + अच् ।) शरीरस्थपञ्चवाय्वन्तर्गत-सर्व्वशरीरगवायुः इत्यमरः
इमे प्राणादयःपञ्चवायबः शरीरे तिष्ठन्ति ते नियत-स्थानस्थाः यदाहुः ।“हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः ।उदानः कण्ठदेशे व्यानः सर्व्वशरीरगः
”इति
एवं तद्व्यापाराश्च यथा, --“अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम् ।भाषणादि निमेषादि तद्ब्यापाराः क्रमादमी
”इति भरतः
श्रीधरस्वामिमते तत्कर्म्म व्यायनम् आकु-ञ्चनप्रसारणादि अन्यच्च ।“व्यानो व्यानशयत्यन्नं सर्व्वव्याधिप्रकोपणः ।महारजतसुप्रख्यो हानोपादानकारणः
चाक्षिकर्णयोर्मध्ये कठ्यां वै गुल्फयोरपि ।घ्राणे गले स्फिगुद्देशे तिष्ठत्यत्र निरन्तरम् ।स्कन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपणः
”इति शारदातिलकटीका
कृदन्तरूपमाला
Sanskrit
1 {@“अन प्राणने”@} 2 प्रपूर्वकोऽयं प्रायेण।
आनकः-निका, आनकः-निका, अनिनिषकः-षिका
अनिता-त्री, आनयिता-त्री, अनिनिषिता-त्री
अनन्-ती, 3 प्राणन् 4, आनयन्-न्ती, प्राणयन् 5 अनिनिषन्-न्ती
प्राणिष्यन्-ती-न्ती, प्राणयिष्यन्-ती-न्ती, 6 प्राणिणिषिष्यन्-न्ती-ती
प्राणयमानः, प्राणयिष्यमाणः
हे 7 प्राण्
प्रा- 8 प्राणौ-प्राणः
प्राणितम्-तः-तवान्
आनितम्-तः, अनिनिषितम्-तः-तवान्
9 प्राणः, प्राणः, अनिनिषुः, 10 प्राणिणिषुः, आनिनयिषुः
प्राणितव्यम्, प्राणयितव्यम्, प्राणिणिषितव्यम्
प्राणनीयम्, आननीयम्, अनिनिषणीयम्
प्राण्यम्, प्राण्यम्, प्राणिणिष्यम्
ईषदनः-दुरनः-स्वनः
अन्यमानः, आन्यमानः, अनिनिष्यमाणः
प्राणः 11, अपानः, व्यानः, उदानः, समानः, प्राणः, अनिनिषः
अनितुम्, आनयितुम्, अनिनिषितुम्
आन्तिः 12, प्राणना, अनिनिषा, आनिनयिषा
अननम्, प्राणनम्, आननम्, अनिनिषणम्
अनित्वा, आनयित्वा, अनिनिषित्वा
प्राण्य, प्राण्य, प्राणिणिष्य
प्राणम् २, अनित्वा २, प्राणम् २, आनयित्वा २, अनिनिषम् २, अनिनिषित्वा
प्रासङ्गिक्यः
01
=>
(२३)
02
=>
(२-अदादिः-१०७०-अक। से। पर।)
03
=>
[[३। ‘अनितेः’ (८-४-१९) इति णत्वम्।]]
04
=>
[[आ। ‘न जिजीवासुखी तातः प्राणता रहितस्त्वया’ भ। का। १४-५८।]]
05
=>
[[B। ‘प्राणयन्तमरिं प्रोचे राक्षसेन्द्रो विभीषणम्’ भ। का। ९-१०१।]]
06
=>
[[४। ‘उभौ साभ्यासस्य’ (८-४-२१) इति णत्वम्।]]
07
=>
[[५। ‘पदान्तस्य’ (८-४-३७) इति निषेधं बाधित्वा ‘अन्तः’ (८-४-२०) इति णत्वम्।]]
08
=>
[[६। क्विपि, ‘अनुनासिकस्य क्वि--’ (६-४-१५) इति दीर्घः। ‘नलो- पः प्रातिपदिकान्तस्य’ (८-२-७) इति नकारलोपः।]]
09
=>
[पृष्ठम्००२२+ २८]
10
=>
[[C। ‘प्राणिणिषुर्न पापोऽयं योऽभाङ्क्षीत् प्रमदावनम्।’ भ। का। ९-१०१।]]
11
=>
[[ड्। ‘उदश्वसन् प्राणमिवाप्य काश्चित् दृष्ट्वा सलीलं मृदु जक्षतं तम्’ धा। का। २-५१।]]
12
=>
[[१। ‘अनुनासिकस्य क्वि--’ (६-४-१५) इति दीर्घः।]]