| YouTube Channel

व्याधिः (vyAdhiH)

 
Apte 1890
English
व्याधिः 1 Sickness, ailment, disease, illness (usually physical, and opp. आधि which means ‘mental distress or anxiety’)
रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते Śi. 16. 11 (where व्याधि means ‘free from आधि’ also)
cf. आधि.
2 Leprosy.
Comp.
कर a. unwholesome.
ग्रस्त a. seized with disease, diseased.
Apte Hindi
Hindi
व्याधिः
पुं*
- वि + + धा + कि
"बीमारी, रोग, रुजा, अस्वस्थता "
व्याधिः
पुं*
- वि + + धा + कि
कोढ़
Wordnet
Sanskrit
Synonyms:
वेदना, वेदनम्, व्यथा, दुःखम्, पीडा, आर्ति, तापः, यातना, कृच्छ्र, व्याधिः
noun
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
"अम्ब अत्र तीव्रा वेदना अस्ति।"
Synonyms:
व्याधिः, गदः, आमयः, अपाटवः, आमः, आतङ्कः, भयः, उपघातः, भङ्गः, अर्तिः, रुक्, रुजा, उपतापः
noun
शरीरादिषु आगतः दोषः।
"शरीरं व्याधीनां गृहम्।"
Tamil
Tamil
வ்யாதி4: : நோய்.
शब्दकल्पद्रुमः
Sanskrit
व्याधिः,
पुं,
(विविधा आधयोऽस्मात् यद्वा, वि +आ + धा + “उपसर्गे धोः किः ।” ९२ ।इति किः ।) कुष्ठम् रोगः इत्यमरः
(यथा, महाभारते १२ १६ ।“द्विविधो जायते व्याधिः शारीरो मानस-स्तथा ।परस्परं तयोर्ज्जन्म निर्द्बन्द्वं नीपलभ्यते
”)कामव्यथासन्तापजन्यकृशता इति रसमञ्जरी
कुष्ठस्य निदानं यथा, --“व्यालोकनमनस्थौल्यक्रीडाविषयचेष्टितैः ।विरोधरूक्षभीहर्षविषादाद्यैश्च दूषितः
पुंस्त्वोत्साहबलभ्रंशशोथचित्ताप्लवज्वरान् ।सर्व्वाकाराङ्गनिस्तोदं रोमहर्षं सुषुप्तताम्
कुष्ठं विमषमन्यच्च कुर्य्यात् सर्व्वाङ्गमार्द्दवम्
”इति गारुडे १७२ अध्यायः
अन्यत् कुष्ठशब्दे द्रष्टव्यम्
*
अथ कुष्ठस्यचिकित्सा ।“वातोत्तरेषु सपिर्व्वमनं कफोत्तरेषु कुष्ठेषु ।पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं श्रेष्ठम्
पथ्याकरञ्जसिद्धार्थनिशावल्गुजसैन्धवैः ।विडङ्गसहितैः पिष्टैर्लेपो मूत्रेण कुष्ठनुत्
”अवल्गुजः वाकुचीति लोके पथ्यादिभि-र्लेपः
*
“सोमराजीभवचूर्णं शृङ्गवेरसमन्वितम् ।उद्बर्त्तनमिदं हन्ति कुष्ठरोगं कृतास्पदम्
”सोमराजी वाकुचीति लोके सोमराज्युद्-वर्त्तनम्
*
“रसायनं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् ।मार्कण्डेयप्रभृतिभिर्यत् प्रयुक्तं महर्षिभिः
पुष्पकाले तु पुष्पाणि फलकाले फलानि ।संगृह्य पिचुमर्दस्य त्वङ्मूलानि दलानि ।द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत् ।त्रिफला त्र्युषणं ब्राह्मी स्वदंष्ट्रारुष्कराग्नयः
विडङ्गसारवाराहीलोहचूर्णाः स्मृताः समाः ।निशाद्वयावल्गुजकव्याधिघाताः सशर्कराः
कुष्ठमिन्द्रयवाः पाठाः चूर्णमेषान्तु संयुतम् ।खदिरासननिम्बानां घनं क्वाथेन भावयेत्
सप्तधा पञ्चनिम्बन्तु मार्कवस्वरसेन ।स्निग्धः शुद्धतनुर्धीमान् योजयेत्तच्छुभे दिने
मधुना तिक्तहविषा खदिरासनवारिणा ।लेह्यमुष्णाम्भसा वापि कोलवृद्ध्या पलं भवेत् ।जीर्णे तस्मिन् समश्नीयात् स्निग्धं लघु हितं चयत्
विचर्चिकोदुम्बरपण्डरीक-कपालदद्रुकिटिभालसादि ।शतारुविस्फोटविसर्पमालाःकफप्रकोपं त्रिविधं किलासम्
भगन्दरश्लीपदवातरक्त-जडान्धनाडीव्रणशीर्षरोगान् ।सर्व्वान् प्रमेहान् प्रदरांश्च सर्व्वान्दंष्ट्राविषं मूलविषं निहन्ति
स्थूलोदरः सिंहकृशीदरः स्यात्सुश्लिष्टसन्धिर्मधुनोपयोगात् ।सदोषरोगादपि ये दशन्तिसर्पादयो यान्ति विनाशमाशु
जीवेच्चिरं व्याधिजराविमुक्तःशुभे रतिश्चन्द्रसमानकान्तिः
”अयमर्थः निम्बस्य फलपुष्पत्वक्पत्रमूलानिसर्व्वाणि समुदितानि द्बिगुणानि चूर्णितानिभृङ्गराजस्य रसेन सप्तवारान् भावयेत् ।त्रिफलादीनि पाठान्तानि समुदितान्येक-भागानि चूर्णितानि खदिरासननिम्बानांनिविडक्वाथेन भावयेत् ततः सर्व्वमेकीकृत्यमध्वादिनावलिह्यात् पञ्चनिम्बकावलेहः
*
शशिलेखापञ्चपलं तावद्गिरिजस्य गुग्गुलो-र्दश ।ताप्यस्य पलत्रितयं द्बे लोहाच्छ्रावणिकायाः
त्रिफलाकरञ्जपल्लवखदिरगुडूचीत्रिवृद्दन्त्यः ।मुस्ताविडङ्गरजनीकुटजत्वक्निम्बवह्रिसम्पाकाः
एतै रचितां वटिकां मधुघृतमिश्रां गिलेत्-प्रातः ।गोमूत्रेण कुष्ठं नुदन्त्यसृग्वातमचिरेण
श्वित्राणि पाण्डुरोगं विषमानुदरप्रमेह-गुल्मांश्च ।नाशयति वलीपलितं योगः स्वायम्भुवो नाम्नाशशिलेखा सोमराजी गिरिजस्य शिलाजतुनः ताप्यस्य स्वर्णमाक्षिकस्य श्रावणिकामुण्डीति लोके स्वायम्भुवो गुग्गुलुः
*
“चित्रकं त्रिफला व्योषमजाजी कारवी वचा ।सैन्धवातिविषे कुष्ठं चव्येलायावशूकजम्
विडङ्गान्यजमोदा मुस्ता चामरदारु ।याबन्त्येतानि सर्व्वाणि तावन्मात्रन्तु गुग्गुलुः
संक्षुभ्य सर्पिषा सार्द्धं गुटिकां कारयेद्भिषक् ।प्रातर्भोजनकाले खादेदग्निबलं यथा
हन्त्यष्टादश कुष्ठानि कृमीन् दुष्टव्रणानि ।ग्रहण्यर्शोविकारांश्च मुखामयगलग्रहान्
गृध्रसीमस्थिभग्नञ्च गुल्मञ्चापि नियच्छति ।व्याधिं कोष्ठगताञ्चापि जयेद्बिष्णुरिवासुरान्
”एकविंशतिको गुग्गुलुः
*
“वातरक्ताधिकारोक्तः पुरः कैशोरकाभिधः ।कुष्ठानां वातरक्तानां नाशयेत् परमौषधम्
”इति कैशोरको गुग्गुलुः
*
“भल्लातकं प्रस्थयुगं छित्त्वा द्रोणजले क्षिपेत् ।प्रस्थद्वयं गुडूच्याश्च क्षुण्णं तत्राम्भसि क्षिपेत्
चतुर्थांशावशेषन्तु कषायमवतारयेत् ।वस्त्रपूते कषाये वक्ष्यमाणानि निक्षिपेत्
सरावमात्रं गोसर्पिर्गोदुग्धस्याढकं तथा ।सितां प्रस्थमितां दद्यात् प्रस्थार्द्धमाक्षिकं क्षिपेत्सर्व्वाण्येकत्र भाण्डे तु पचेत् मृद्वग्निना शनैः ।सर्व्वद्रव्ये घनीभूते पावकादवतारयेत्
तत्र क्षेप्याणि चूर्णानि ब्रूमो विल्वमितामृता ।काकुची चाथ दद्रुघ्नः पिचुमर्द्दो हरीतकी
धात्री रात्रिश्च मञ्जिष्ठा मरिचं नागरं कणा ।यवानी सैन्धवं मुस्तं त्वगेला नागकेशरम्
पर्पटः पत्रकं बालमुशीरं चन्दनं तथा ।गोक्षुरस्य बीजानि कर्च्च रो रक्तचन्दनम्
पृथक् पलार्द्धमानानां चूर्णमेषामिह क्षिपेत् ।पलमात्रमिदं प्रातः समश्नीयाज्जलेन हि
नाशयेदवलेहोऽयं कुष्ठानि निखिलान्यपि ।वातरक्तानि सर्व्वाणि सर्व्वाण्यर्शांसि सेवितः
व्यायाममातपं वह्रिमम्लं मांसं दधि स्त्रियम् ।तैलाभ्यङ्गं तथाध्मानं नरो भल्लातके त्यजेत्
”इति अमृतभल्लातकावलेहः
*
“निम्बं गोपारुणा कट्वी त्रायन्ती त्रिफला घनम् ।पर्पटावल्गुजानन्ता वचा खदिरचन्दनम्
पाठा शुण्ठी शटी भार्गी वासा भूनिम्बवत्सकम् ।श्यामेन्द्रवारुणी मूर्व्वा विडङ्गेन्द्रयवानलम्
हस्तिपर्णोऽमृता द्रेका पटोलरजनीद्बयम् ।कणारग्वधसप्ताह्वकृष्णवेत्रोच्चटाफलम्
मञ्जिष्ठा लाङ्गली रास्ना नक्तमालं पुनर्नवा ।दन्ती विजयसारश्च भृङ्गराजकुरण्टकम्
अङ्कोठकञ्च शाखोटं द्बिपलांशं पृथक् पृथक् ।गृह्णीयात्तानि सर्व्वाणि जलद्रोणे पचेच्छनैः
अष्टमांशावशेषन्तु कषायमवतारयेत् ।विधाय वाससा पूतं स्थापयेद्भाजने दृढे
भल्लातकसहस्राणि क्षिप्त्वा त्रीण्यमलेऽम्भसि ।पचेदष्टावशेषन्तु कषायमवतारयेत्
तच्च वस्त्रेण संशोध्य द्बौ कषायौ विमिश्रयेत् ।गुडस्य तुलां दत्त्वा लेहवत् साधु साधयेत्
भल्लातकसहस्राणि तच्च बीजानि निःक्षिपेत् ।त्रिकटुः त्रिफला मुस्तं विडङ्गं चक्रकं तथा
चन्दनं सैन्धवं कुष्ठं दीप्यकञ्च पलं पलम् ।सौगन्ध्यर्थं क्षिपेत्तत्र चातुर्जातं पलं पृथक्
महाभल्लातको ह्येष महादेवेन भाषितः ।प्राणिनां हितकामाय जयेच्छीघ्रं प्रयोजितः
श्वित्रमौडुम्बरं दद्रुमृक्षजिह्वं सकाकणम् ।पुण्डरीकञ्च चर्म्माख्यं विस्फोटं रक्तमण्डलम्
कण्डूं कपालकं कुष्ठं पामानञ्च विपादिकाम् ।वातरक्तं षडर्शांसि पाण्डुरोगं व्रणकृमीन्
रक्तपित्तमुदावर्त्तकासश्वासं भगन्दरम्
सदाभ्यासेन पलितमामवातं सुदुस्तरम्
निर्यन्त्रणस्तु कथितो विहाराहारमैथुनैः ।कुरुते परमां कान्तिं प्रदीप्तं जठरानलम्
अनुपानं प्रयोक्तव्यं छिन्नातोयं पयोऽथवा ।भोजने तु सदा त्याज्यमुष्णमम्लं विशेषतः
”गोपा श्वेत साउ इति लोके यत आहनिघण्टः ।“सारिवा सारदा स्फोटा गोपकन्या प्रता-निका ।”तद्वाचको गोपीशब्दश्च यत आह गोपीश्यामा सारिवा स्यादनन्तोत्पलसारिवा इव्य-मरः
गोपाङ्गना गोपवल्ली लताह्वा काष्ठ-सारिवेति मदनपालः
अरुणा अतीस् ।अवल्गुजः सोमराजी अनन्ता दुरालभा ।चन्दनं श्वेतम् भार्म्या अलाभे कण्टकारी-मूलम् श्यामा कृष्णा साउ हस्तिकर्णःहथिकण द्रेका वका इति सप्ताह्वः छति-वन् कृष्णवेत्रः जलवेतसः उच्चटाफलं आरक्त-गुञ्जाफलम् कुरण्टकः कटसरैषा दीप्यकःइति यवानी महाभल्लातकः
“मञ्जिष्ठा त्रिफला तिक्ता वचा दारु निशा-मृता ।निम्बश्चैषां कृतः क्वाथः सर्व्वकुष्ठानि नाशयेत्
”इति लघुमञ्जिष्ठादिक्वाथः
*
“मञ्जिष्ठा वाकुची चक्रमर्द्दञ्च पिचुमर्द्दकम् ।हरीतकी हरिद्रा धात्री वासा शतावरी
बला नागबला यष्ठीमधुकं क्षुरकीपि ।पटोलस्य लतोशीरं गुडूची रक्तचन्दनम्
मञ्जिष्ठादिरयं क्वाथः कुष्ठानां नाशनः परः ।वातरक्तस्य संहर्त्ता कण्डूमण्डलखण्डनः
”इति मध्यममञ्जिष्ठादिक्वाथः
*
“मञ्जिष्ठा कुटजामृता घनवचा शुण्ठी हरिद्राद्वयंक्षुद्रारिष्टपटोलकुष्ठकटुका भार्गी विडङ्गा-ग्निकम् ।मूर्व्वा दारु कलिङ्गभृङ्गमगधा त्रायन्ति पाठावरीगायत्त्री त्रिफला किरातकमहानिम्बा सना-रग्वधम्
श्यामा वल्गुजचन्दनं वरुणकं दन्ती कशाषोढकंवासा पर्पटसारिवा प्रतिविषानन्ता विशालाजलम् ।मञ्जिष्ठादिरयं कषायविधिना नित्यं पुमान् यःपिबेत्त्त्वग्दोषा ह्यचिरेण यान्ति विलयं कुष्ठानिचाष्टादश
नाशं गच्छति वातरक्तमखिलं नश्यन्ति रक्ता-मयावीसर्पस्त्वचि शून्यता नयनजा रोगाः प्रशा-म्यन्ति
”अरिष्टः निम्बः कलिङ्गः इन्द्रयवः भृङ्गंभृङ्गरा वरी शतावरी गायत्त्री स्वदिरः ।असनः विजयसारः श्यामा प्रियङ्गुः ।चन्द्रनमत्र रक्तं ग्राह्यम् साविरा साउ ।अनन्ता दुरालभा विशाला इन्दवारुणीइति जलं नेत्रवाला बृहन्मञ्जिष्ठादिक्वाथः
“मरिचं त्रिवृता मुस्ता हरितालं मनःशिला ।देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम्
विशालां करवीरञ्च क्षीरमर्क्वसमुद्भवम् ।गोमयस्य रसं कुर्य्यात् प्रत्येकं कर्षसम्मितम्
विषस्यार्द्धपलं देयं तैलं प्रस्थमितं कटु ।पचेच्चतुर्गुणे नीरे गोमूत्रे द्विगुणे तथा
मरिचाद्यमिदं तैलमभ्यङ्गात् कुष्ठनाशनम् ।एतस्याभ्यङ्गतः श्वित्रं विवर्णं तत्क्षणाद्भवेत्
तैलमेतज्जयेत् कण्डूं पामां सिध्मं विचर्च्चिकाम् ।पुण्डरीकं तथा दद्रुं शून्यतां नित्यसेविनाम्
”इति लघुमरिचाद्यं तैलम्
*
“मरिचं त्रिवृता दन्ती क्षीरमार्क्कं शकृद्रसः ।देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम्
विशाला करवीरश्च हरितालं नमःशिला ।चित्रकं लाङ्गली मुस्ता विडङ्गं चक्रमर्द्दकः
शिरीषः कुटजो निम्बः सप्तपर्णोऽमृता स्नुही ।सम्पाको नक्तमालञ्च खदिरो वाकुची वचा
ज्योतिष्मती पलिका विषं द्विपलिकं भवेत् ।आपकं कटुतैलस्य गोमूत्रञ्च चतुर्गुणम्
मृत्पात्रे लोहपात्रे शनैर्मृद्बग्निना पचेत् ।मरिचाद्यमिदं तैलं महन्मुनिभिरीरितम्
भिषगेतेन तैलेन म्रक्षयेत् कौष्ठिकान् व्रणान् ।पामाविचर्च्चिकादद्रुकण्डूविस्फोटकानि
वलयः पलितं क्षामा नीलं व्यङ्गं तथैव ।अभ्यङ्गेन प्रणश्यन्ति सौकुमार्य्यञ्च जायते
प्रथमे वयसि स्त्रीणां यासां नस्यं प्रदीयते ।तासामपि जरां प्राप्य स्यातां स्खलितौस्तनौ
वलीवर्द्दस्तुरङ्गो वा गजो वा वायुपीडितः ।त्रिभिरभ्यञ्जनै रम्यं भवेन्मारुतविक्रमः
”ज्योतिष्मती मालकङ्गुणीति लोके इति महा-मरिचादितैलम्
*
“तालकस्य तु पत्राणि यस्य सन्ति पृथक् पृथक् ।अभ्रकस्यैव तद्ग्राह्यं हरितालं चिकित्सकैः
पुनर्नवायाः स्वरसे तालकं तद्बिमर्द्दयेत् ।दिनमेकं ततस्तस्मिन् घनत्वं गमिते सति
कुर्व्वीत चक्रिकां तान्तु शोषयेत् सम्यगातपे ।पुनर्नवासमस्ताङ्गक्षारैः स्थालीं गलावधि
पूरयेच्च ततः क्षारं द्रढयेत् पीडनेन हि ।क्षारस्योपरि तां दद्यात् तालकस्य तु चक्रि-काम्
तत आच्छादनं दत्त्वा मुद्रां कृत्वा विशेषयेत् ।स्थालीं चुल्ल्यां निधायाग्निममन्दं ज्वालयेद्-भिषक्
निरन्तरमहोरात्रं पञ्चकं तेन सिध्यति ।स्वाङ्गशीतं समुर्त्तार्य्य गृह्णीयाद्रसमुत्तमम्
तालकेश्वरनामायमुक्तो गुञ्जामितो रसः ।गुडूच्यादिकषायेण गदानेपान् विनाशयेत्
अष्टादशापि कुष्ठानि वातरक्तं तथोद्धतम् ।फिरङ्गदेशजं रोगं दुस्तरं व्यपोहति
एतद्भेषजसेवी तु लवणाम्ले विवर्ज्जयेत् ।तथा कटुरसं वह्निमातपं दूरतस्त्यजेत्
लवणं यः परित्यक्तुं शक्नोति कथञ्चन ।स तु सैन्धवमश्रीयात् मधुरोपरसो हि सः
”इति तालकेश्वरो रसः
*
“तालताप्यशिलासूतं टङ्कणं सिधुसंयुतम् ।गन्धार्कौ द्बिगुणौ सूताज्जम्बीराद्भिः प्रमर्द्दयेत्
षडहं पुटितं षोढा भूधरे सकलं त्विदम् ।षट्पदं द्विपलं ताम्रं लोहभस्म चतुष्पलम्
जम्बीराद्भिर्दिनं घृष्टं त्रिंशदंशं विषं क्षिपेत् ।अस्य मासद्वयं खादेन्माहिषीघृतसंयुतम्
मध्वाज्यैर्व्वाकुचीबीजैः कर्षं लिह्यात्ततः परम् ।तालकेश्वरनामायं सर्व्वकुष्ठहरो रसः
”अर्को मारितं ताम्रम् इति द्बितीयतालकेश्वरोरसः
*
“रसो वलिस्ताम्रमयः पुरोऽग्निःशिलाजतु स्याद्बिषतिन्दुकश्च ।वरा तुल्यं गगनं करञ्ज-बीजं पृथग्भागचतुष्टयञ्च
संमर्द्द्य सर्व्वं मधुना घृतेनघृतस्य पात्रे निहितं प्रयत्नात् ।कर्षं भजेत् प्रत्यहमस्य पथ्यंशाल्योदनं दुग्धमधुत्रयञ्च
विशीर्णकर्णाङ्गुलिनासिकोऽपिभवेदनेन स्मरतुल्यमूर्त्तिः ।दारापरित्याग इह प्रदिष्टोतिलौदनं तत्र निबद्धमूले
”ताम्रमयश्च मारितम् पुरो गुग्गुलुः अग्नि-श्चित्रकम् विषतिन्दुकः कुचिला वरात्रिफला रसादि त्रिफलान्तं सर्व्वं तुल्यम् ।गगनमभ्रकम् करञ्जबीजञ्च पृथक् चतुर्गुणंरसात् तत्र कुष्ठे बद्धमूले सति तिलौदनमेवपथ्यम् इति गलत्कुष्ठाधिकारः इति भाव-प्रकाशः
*
अथ सर्व्वव्याधिहरकवचम् ।हरिरुवाच ।“सर्व्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शिवम् ।येन रक्षा कृता शम्भोः श्वेतं रक्षयतः पुरा
प्रणम्य देवमीशानमजं नित्यमनामयम् ।देवं सर्व्वेश्वरं विष्णुं सर्व्वव्यापिनमव्ययम्
वध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्द्दनम् ।अमोघाप्रतिमं सर्व्वं सर्व्वदुष्टनिवारणम्
विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः ।हरिर्मे रक्षतु शिरो हृदयञ्च जनार्द्दनः
मनो मम हृषीकेशो जिह्वां रक्षतु केशवः ।पातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणोऽवतु
प्रद्युम्नः पातु मे घ्राणमनिरुद्धश्च चर्म्मकम् ।वनमाली गलस्यान्तं श्रीवत्सो रक्षतामुरः
पार्श्वं रक्षतु मे चक्रं वामं दैत्यनिवारणः ।दक्षिणन्तु गदा देवी सर्व्वासुरनिवारिणी
उदरं मुषलं पातु पृष्ठं मे पातु लाङ्गलम् ।ऊरू रक्षतु मे शार्ङ्गं जङ्घे रक्षतु नन्दकः
पार्ष्णी रक्षतु शङ्खश्च पद्मं मे चरणावुभौ ।सर्व्वकार्य्यार्थसिद्ध्यर्थं पातु मां गरुडः सदा
वराहो रक्षतु जले विषमेषु वामनः ।अटव्यां नरसिंहश्च सर्व्वतः पातु केशवः
हिरण्यगर्भो भगवान् हिरण्यं मे प्रयच्छतु ।सांख्याचार्य्यस्तु कपिलो धातुसाम्यं करोतु मे
श्वेतद्बीपनिवासी श्वेतद्वीपं नयत्वजः ।सर्व्वान् शत्रून् सूदयतु मधुकैटभसूदनः
विष्णुः सदा विकिरतु किल्विषं मम विग्रहात् ।हंसो मत्स्यस्तथा कूर्म्मः पातु मां सर्व्वतो दिशम्
त्रिविक्रमस्तु मे देवः सर्व्वान् पापान् निकृन्ततु ।नरनारायणौ देवौ बुद्धिं पालयतां मम ।शेषो मे निर्म्मलं ज्ञानं करोत्वज्ञाननाशनम् ।बलरामो नाशयतु कल्मषं यत् कृतं मया
पद्भ्यां ददातु परमो मुखं मूर्द्ध्ना मम प्रभुः ।दत्तात्रेयः कलयतु सपुत्त्रपशुबान्धवम्
सर्व्वानरीन्नाशयतु रामः परशुना मम ।रक्षोघ्नस्तु दाशरथिः पातु नित्यं महाभुजः
शत्रून् मे समरे हन्याद्रामो यादवनन्दनः ।प्रलम्बकेशिचाणूरपूतनाकंसनाशनः
कृष्णस्य यो बालभावः मे कामान् प्रयच्छतु ।अन्धकारं तमो घोरं पुरुषं कृष्णपिङ्गलम्
पश्यामि भयसन्तप्तः पाशहस्तमिवान्तकम् ।ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः
धन्योऽहं निर्भयो नित्यं यस्य मे भगवान् हरिः ।श्रुत्वा नारायणं देवं सर्व्वोपद्रवनाशनम्
वैष्णवं कवचं बद्ध्वा विचरामि महीतले ।अप्रधृष्योऽस्मि भूतानां सर्व्वदेवमयो ह्यहम्
स्मरणाद्दवदेवस्य विष्णोरमिततेजसः ।सिद्धिर्भवतु मे नित्यं यथामन्त्रमुदाहृतम्
यो मां पश्यति चक्षुर्भ्यां यांश्च पश्यामि चक्षुषा ।सर्व्वेषां पापदृष्टीनां विष्णुर्बध्नाति चक्षुषा
वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः ।ते छिन्दन्तु पापं मे मम हिंसन्तु हिंसकान्
राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु ।विवादे राजमार्गेषु द्यूतेषु कलहेषु
नदीसन्तरणे घाते संप्राप्ते प्राणसंशये ।अग्निचौरनिपाते सर्व्वग्रहनिवारणे
विद्युत्सर्पविषोद्वेगे रोगेऽथ विघ्नशङ्कटे ।जप्यमेतज्जपेन्नित्यं शरीरे भयमागते
अयं भगवतो मन्त्रो मन्त्राणां परमो महान् ।विख्यातं कवचं गुह्यं सर्व्वपापप्रणाशनम्
स्वमायाकृतिनिर्म्माणकल्पान्तगूहनो महत् ।अनाद्यन्त जगद्बीज पद्मनाभ नमोऽस्तु ते
ओँ कालाय स्वाहा ओँ कालपुरुषाय स्वाहा ।ओँ कृष्णाय स्वाहा ओँ कृष्णपुरुषाय स्वाहा ।ओँ चण्डाय स्वाहा ओँ चण्डपुरुषाय स्वाहा ।ओँ प्रचण्डाय स्वाहा ओँ प्रचण्डपुरुषायस्वाहा ओँ सर्व्वाय स्वाहा ओँ सर्व्वपुरुषायस्वाहा ओँ नमो भुवनेशाय त्रिलोकधात्रेइरिटि मिरिटि स्वाहा ओँ नमो अम्बे चाभयेये ये सत्त्वा या पात्रचरा वैषा दैत्यदानव-यक्षराक्षसभूतपिशाचकुष्माण्डापस्मारकोच्छा-दनज्वराणामैकाहिकद्वितीयतृतीयचातुर्थकमौ-हूर्त्तिकदिनज्वररात्रिज्वरसन्ध्याज्वरसर्व्वज्वरा-दीनां लूताकीटकण्टपूतनाभुजङ्गस्थावरजङ्गम-विषादीनामिदं शरीरं ममाप्यपथ्यं भवतुतुम्बुरुस्फुटप्रकटोत्कठविकटदंष्ट्रपूर्व्वतो रक्ष ।ओँ हैहै हैहै दिनकर सहस्रकाल ममाग्रतोजय पश्चिमतो रक्ष ओँ निवि निवि प्रदीप्त-ज्वलनज्वालाकारा महाकपिल उत्तरतो रक्ष ।ओँ मिलि मिलि विलि विलि गारुडि गौरिगान्धारि विषमोह विषविषमांसं मोहयतुस्वाहा दक्षिणतो रक्ष मां अमुकस्य सर्व्व-भूतभयोपद्रवेभ्यो रक्ष रक्ष जय जय विजयतेन हीयते विप्रश्रसोऽहं कृतवाद्यते भयरुदयभयवोभयोऽभयं दिशतु ममास्तात् सादनमच्युतः ।तदुदरमखिलम् विशन्तु लोका युगपरिवर्त्तसहस्रंक्षयास्तमनमिब प्रविशन्ति कस्मयनो
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।सर्व्वज्वरान्मम घ्नन्तु विष्णुर्नारायणो हरिः
”इत्यादिमहापुराणे गारुडे सर्व्वव्याधिहरविष्णु-कवचं नाम २०० अध्यायः