| YouTube Channel

व्याघ्रनखं (vyAghranakhaM)

 
शब्दकल्पद्रुमः
Sanskrit
व्याघ्रनखं,
क्ली,
(व्याघ्रस्य नखमिव ।) नखीनाम-गन्धद्रव्यम् तत्पर्य्यायः व्याडायुधम् कर-जम् चक्रकारकम् इत्यमरः
नखाङ्कम्५ नखी नख्यम् व्याघ्रनखी इति शब्द-रत्नावली
(यथा, बृहत्संहितायाम् ७७ ।“मञ्जिष्ठया व्याघ्रनखेन शुक्त्यात्वया सुकुष्ठेन रसेन चूर्णः ।तैलेन युक्तोऽर्कमयूखतप्तःकरोति तच्चम्पकगन्धितैलम्
”)तत्पर्य्यायगुणाः ।“नखं व्याघ्रनखं व्याघ्रायुधं तच्चक्रकारकम् ।नखं स्वल्पं नखी प्रोक्ता हनुर्हठ्ठविलासिनी
नखद्बयं ग्रहश्लेष्मवातास्रज्वरकुष्ठहृत् ।लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषापहम् ।अलक्ष्मीमुखदौर्गन्ध्यहृत् पाकरसयोः कटुः
”इति भावप्रकाशः
कन्दविशेषः नखक्षतविशेषः इति मेदिनी