| YouTube Channel

व्यसनं (vyasanaM)

 
Apte 1890
English
व्यसनं 1 Casting away, dispelling.
2 Separating, dividing.
3 Violation, infraction.
4 Loss, destruction, defeat, fall
defection, weak point
अमात्यव्यसनं Pt. 3
स्वबलव्यसने Ki. 13. 15
Śi. 2. 57.
5 (a) A calamity, misfortune, distress, evil, disaster' ill-luck
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव Ku. 3. 73, 4. 30
R. 12. 57. (b) Adversity’ need
सुहृद् व्यसने यः स्यात् Pt. 1. 337 ‘a friend in need is a friend indeed’.
6 Setting (as of the sun &c.)
तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां Ś. 4. 1 (where व्यसन means ‘a fall’ also).
7 Vice, bad practice, evil habit
मिथ्यैव व्यसनं वदंति मृगयामीदृग् विनोदः कुतः Ś. 2. 5, R. 18. 14
Y. 1. 310
(these vices are usually said to be ten
see Ms. 7. 47-48)
समानशीलव्यसनेषु सख्यं Subhāṣ.
8 Close or intent application, assiduous devotion
विद्यायां व्यसनं Bh. 2. 62, 63.
9 Inordinate addiction.
10 Crime, sin.
11 Punishment.
12 Inability, incompetency.
13 Fruitless effort.
14 Air, wind.
15 Individuality.
Comp.
अतिभारः heavy calamity or distress
R. 14. 68.
अन्वित,
आर्त,
पीडित a. overtaken by calamity, involved in distress.
प्रहरिन् a. {1} hurting, attacking, giving trouble. {2} striking (an enemy) in his weak point.
शब्दकल्पद्रुमः
Sanskrit
व्यसनं,
क्ली,
(वि + अस + ल्युट् ।) विपत् (यथा, महाभारते १२ २२७ ।“पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन वा ।मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप !
”)भ्रंशः (यथा, मनौ ९३ ।“नायुधव्यसनप्राप्तं नार्त्तं नातिपरीक्षितम्
”)कामजकोपजदोषः इत्यमरः
(यथा, कथा-सरित्सागरे ११ २५ ।“तन्मुञ्च व्यसनानि त्वं सुखेन हि परैर्नृपाः ।सीदन्तस्तेषु गृह्यन्ते खातेष्विव वनद्विपाः
”यथा भागवते २६ २६ ।“विहाय जाया मतदर्हां मृगव्यसनलालसः
”“व्यसनं भोगासक्तिः ।” इति श्रीधरः
) विपत्विपत्तिः भ्रंशोऽपायः पतनम् मृगयाद्यूतस्त्री-मद्यपानस्वरूपे चतुर्व्वर्गे प्रसक्तिः कामजोदोषः इच्छाप्रभवत्वात् वाक्पारुष्यं अर्थ-पारुष्यञ्चेति त्रिवर्गः कोपजो दोषः ।कोपप्रभवत्वात् एषु व्यसनम् व्यस्यति श्रेयो-मार्गात् व्यसनं कर्त्तरि अनट् भ्रंशे तु भावे ।इति भरतः
(अत्यासक्तिः यथा, कथा-सरित्सागरे ११ ३२ ।“शिथिली कृतकैलासनिवासव्यसनो हरः
”)अशुभम् दैवानिष्टफलम् पापम् निष्फलो-द्यमः इति मेदिनी
*
राज्ञां व्यसनानि यथा, “मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ।दण्डपारुष्यमित्येतद्धेयं व्यसनसप्तकम्
”इति हेमचन्द्रः
*
व्यसनासक्ते दोषो यथा, --“एकैकविषयासक्ताः सर्व्वे मृत्युवशं गताः ।यः पुनः संहतान् सेवेत् विषयान् विषयी नरः ।स पतेन्महदैश्वर्य्याच्छिन्नमूल इव द्रुमः
स्त्रियः पानं दिवास्वप्नं तथा वादित्रनर्त्तनम् ।द्यूताटनमृगागेयकामजानि तथा परे
दण्डैर्वाचा ईर्ष्यासूया क्रोधपैशुन्यसाहसम् ।अर्थ दूषणक्रोधोऽर्थे अष्टकोपं विनाशकृत्
देवा विद्याधरा यक्षाः किन्नरोरगमानुषाः ।पशवः पक्षिणः सर्व्वे विषये निधनं गताः
एवं विवेकमासक्तं बुद्ध्वा घोरं नराधिप ।धव्यर्म्माजं समास्थाय विषयैः सन्निवेश्यताम्
”इति देवीपुराणे अध्यायः