व्यवहारः (vyavahAraH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishव्यवहारः [vyavahārḥ], 1 Conduct, behaviour, action.
Affair, business, work
कुटुम्बार्थे$ध्यधीनो$प व्यवहारं यमाचरेत् 8.167.
Profession, occupation.
Dealing, transaction.
Commerce, trade, traffic.
Dealing in money, usury.
Usage, custom, an established rule or practice.
Relation, connection
तेषां च व्यवहारो$यं परस्परनिबन्धनः 1.79.
Judicial procedure, trial or investigation of a case, administration of justice
व्यवहारस्तमाह्वयति
अलं लज्जया व्यवहारस्त्वां पृच्छति 9
व्यवहारस्थापना Kau. 3
8.1
शिवं सिषेवे व्यवहारलब्धम् Bu. Ch.2.4.
A legal dispute, complaint, suit, law-suit, litigation
व्यवहारो$यं चारुदत्तमवलम्बते, इति लिख्यतां व्यवहारस्य प्रथमः पादः, केन सह मम व्यवहारः 9
ददर्श संशय- च्छेद्यान् व्यवहारानतन्द्रितः 17.39.
A title of legal procedure, any occasion of litigation.
A contract
असंबद्धकृतश्चैव व्यवहारो न सिद्धति 8.163.
Mathematical process.
Competency to manage one's own affairs
majority.
A sword. -अङ्गम् the body of civil and criminal law. -अभिशस्त prosecuted, charged. -अयोग्यः a minor (in law). -अर्थिन् a plaintiff, accuser
अहो स्थिरसंस्कारता व्यवहारार्थिनः 9.5/6. -आसनम् the tribunal of justice, judgmentseat
व्यवहारासनमाददे युवा 8.18.
ज्ञः one who understands business.
a youth come of age, one who is no longer a minor.
one who is acquainted with judicial procedure. -तन्त्रम् course of conduct
वाक्प्रतिष्ठा- निबन्धनानि देहिनां व्यवहारतन्त्राणि 4. -दर्शनम् trial, judicial investigation. -पदम् व्यवहारविषय q. v.
पादः any one of the four stages of a legal proceeding
these are four: (1) पूर्वपक्ष, the plaint
(2) उत्तरपक्ष, the defence
(3) क्रियापाद, adducing evidence, oral or written
(4) निर्णयपाद, the decision or verdict.
the fourth stage
i. e. निर्णयपाद, that part which concerns the verdict or decision.
मातृका a legal process in general.
any act or subject relating to the administration of justice or formation of courts (of which thirty heads are enumerated). -वादिन् upholder of the usage theory i. e. one who holds that transactions of old persons (वृद्धव्यवहार) can explain the knowledge of the connection between शब्द and its अर्थ by the younger ones
अपि च व्यवहारवादिनः प्रत्यक्षमुपदिशन्ति कल्पयन्ति इतरे सम्बन्धारम् ŚB. on MS.* 1.1.5. -विधः a rule of law, any code of law. -विषयः (so -पदम्, -मार्गः, -स्थानम्) a subject or head of legal procedure, an actionable business, a matter which may be made the subject of litigation (these are eighteen
for an enumeration of their names, see 8.4-7). -स्थितिः judicial procedure.
Apte 1890
Englishव्यवहारः 1 Conduct, behaviour, action.
2 Affair, business, work.
3 Profession, occupation.
4 Dealing, transaction.
5 Commerce, trade, traffic.
6 Dealing in money, usury.
7 Usage, custom, an established rule or practice.
8 Relation, connection
Pt. 1. 79.
9 Judicial procedure, trial or investigation of a case, administration of justice
व्यवहारस्तमाह्वयति
अलं लज्जया व्यवहारस्त्वां पृच्छति Mk. 9.
10 A legal dispute, complaint, suit, law-suit, litigation
व्यवहारोऽयं चारुदत्तप्तवलंबते, इति लिख्यतां व्यवहारस्य प्रथमः पा दः, केन सह मम व्यवहारः Mk. 9
R. 17. 39.
11 A title of legal procedure, any occasion of litigation.
Comp.
अंगं the body of civil and criminal law.
अभिशस्त a. prosecuted, charged.
अयग्येः a minor (in law).
आसनं the tribunal of justice, judgment-seat
व्यवहारासनमाददे युवा R. 8. 18.
ज्ञः {1} one who understands business. {2} a youth come of age, one who is no longer a minor. {3} one who is acquainted with judicial procedure.
तंत्रं course of conduct
वाक्प्रतिष्ठानिबंधनानि देहिनां व्यवहारतत्रांणि Māl. 4.
दर्शनं trial, judicial investigation.
पदं = व्यवहारविषय q. v.
पादः {1} any one of the four stages of a legal proceeding
these are four:
(1) पूर्वपक्ष, the plaint
(2) उत्तरपक्ष the defence
(3) क्रियापाद adducing evidence, oral or written
(4) निर्णयपाद, the decision or verdict. {2} the fourth stage
i. e. निर्णयपाद, that part which concerns the verdict or decision.
मातृका {1} a legal process in general. {2} any act or subject relating to the administration of justice or formation of courts (of which thirty heads are enumerated).
विधिः a rule of law, any code of law.
विषयः (so
पदं,
मार्गः,
स्थानं) a subject or head of legal procedure, an actionable business, a matter which may be made the subject of litigation (these are eighteen
for an enumeration of their names, see Ms. 8. 4-7).
स्थितिः f. judicial procedure.
Hindi
Hindi(पु) व्यापार लेनदेन,
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiव्यवहारः
- वि + अव + हृ + घञ्
"आचरण, बर्ताव, कर्म"
व्यवहारः
- वि + अव + हृ + घञ्
"मामला, व्यवसाय, काम"
व्यवहारः
- वि + अव + हृ + घञ्
"पेशा, धंधा"
व्यवहारः
- वि + अव + हृ + घञ्
"लेनदेन, काम-काज"
व्यवहारः
- वि + अव + हृ + घञ्
"वाणिज्य, तिजारत, सौदागरी"
व्यवहारः
- वि + अव + हृ + घञ्
"रुपये पैसे का लेनदेन, सूदख़ोरी"
व्यवहारः
- वि + अव + हृ + घञ्
"प्रचलन, प्रथा, दस्तूर, रिवाज"
व्यवहारः
- वि + अव + हृ + घञ्
"संबन्ध, मेलजोल"
व्यवहारः
- वि + अव + हृ + घञ्
"न्यायालयी या अदालती कार्यविधि, किसी अभियोग या मामले की छान-बीन, न्याय प्रशासन"
व्यवहारः
- वि + अव + हृ + घञ्
"क़ानूनी झगड़ा, अभियोग, नालिश, क़ानूनी मुक़दमा, मुकदमेबाजी़"
व्यवहारः
- वि + अव + हृ + घञ्
"क़ानूनी कार्यविधि का शीर्षक, मुक़दमेबाजी का अवसर"
व्यवहारः
- वि+अव+हृ+घञ्
संविदा
व्यवहारः
- वि+अव+हृ+घञ्
गणित के घात या बल
व्यवहारः
- वि+अव+हृ+घञ्
व्यापार
व्यवहारः
- वि+अव+हृ+घञ्
मुकदमा
व्यवहारः
- वि+अव+हृ+घञ्
"प्रथा, रीतिरिवाज"
Wordnet
Sanskrit व्यवहारः
तादृशम् आचरणं यस्मिन् कस्मैचित् कार्यसम्पादने सहाय्यं कृत्वा तत्स्थाने तस्य पुरुषस्य साहाय्येन एव स्वहितसम्पादनम्।
"तस्मै व्यवहारः न अरोचत।"
यातायातः, व्यवहारः
कस्मिन्नपि काले सञ्चारव्यवस्थायां वर्तमाना क्रियायाः परिमाणम्।
"रात्रौ यातायातः वर्धते।"
पणनम्, व्यवहारः, चरणम्
दानस्य स्वीकरणस्य च क्रिया।
"मित्रेषु परस्परेषु पणनं स्वाभाविकम् अस्ति।"
वृत्तिः, वृत्तम्, आचारः, रीतिः, व्यवहारः, चरित्रम्, चरितम्, आचरणम्, गतिः, चेष्टितम्, स्थितिः
जीवने वर्तनस्य रीतिः।
"साधोः आचारात् सः समाजे प्रतिष्ठाम् अलभत।"
प्रवृत्तिः, चरितम्, चर्या, अनुशीलनम्, आचारः, व्यवहारः, स्वभावः, प्रकृत्तिः, शीलः, स्वरूपम्, निसर्गः
संतताभ्यासाद् जनितम् आचरणम्।
"प्रातरुत्थानं तस्य प्रवृत्तिः।"
व्यवहारः, वृत्तिः, वृत्तम्, आचारः, रीतिः, चरित्रम्, चरितम्, आचरणम्, गतिः, चेष्टितम्, स्थितिः
समाजे अन्यैः सह कृतम् आचरणम्।
"तस्य व्यवहारः सम्यक् नास्ति।"
प्रयोगः, उपयोगः, प्रयोजनम्, प्रयुक्तिः, व्यापारः, व्यवहारः, सेवनम्, उपभोगः, भोगः, योगः
वस्तुनः उपयोजनक्रिया।
"यद् उपदिष्टं तस्य प्रयोगः करणीयः। "
Tamil
Tamilவ்யவஹார: : ஒழுக்கம், நடத்தை, தொழில், வேலை, வியாபாரம், வழக்கு, ஒழுங்கு, வழக்கம்.
अमरकोशः
SanskritWord: व्यवहारः
Root: व्यवहारः
Gender: undefined
Number: undefined
Meaning(s):
⇒ car
⇒ axle
⇒ cube
⇒ soul
⇒ cart
⇒ wheel
⇒ snake
⇒ pivot
⇒ number 5
⇒ collar-bone
⇒ court of law
⇒ temporal bone
⇒ axis [computer]
⇒ person born blind
⇒ religious knowledge
⇒ terrestrial latitude
⇒ die in a game of dice
⇒ measure of 104 anGgulaH
⇒ weight equal to 16 mASaH
⇒ depository of legal documents
⇒ seed of which rosaries are made
⇒ beam of a balance or string which holds the pivot of the beam
Shloka(s):
3|3|222|2 ► द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥ (नानार्थवर्गः)
Synonym(s):
➠ 3|3|222|2 ⇢ अक्षः (अक्ष) (पुं) ⇒ car, axle, cube, soul, cart, wheel, snake, pivot, number 5, collar-bone, court of law, temporal bone, axis [computer], person born blind, religious knowledge, terrestrial latitude, die in a game of dice, measure of 104 anGgulaH, weight equal to 16 mASaH, depository of legal documents, seed of which rosaries are made, beam of a balance or string which holds the pivot of the beam
Related word(s):
जातिः ➡ क्रिया
शब्दकल्पद्रुमः
Sanskritव्यवहारः, (वि + अव + हृ + घञ् ।) विवादः ।इत्यमरः ॥
वृक्षभेदः । न्यायः । पणः । स्थितिः ।इति मेदिनीशब्दरत्नावल्यौ ॥
* ॥
(कर्म्म ।क्रिया । यथा, --“न कश्चित् कस्यचिन्मित्रं न कश्चिकस्य चिद्रिपुः ।व्यवहारेण जायन्ते मित्राणि रिपवस्तथा ॥
”यथा च रघुः । ३ । ६२ ।“तथापि शस्त्रव्यवहारनिष्ठुरेविपक्षभावे चिरमस्य तिष्ठतः ।तुतोष वीर्य्यातिशयेन वृत्रहापदं हि सर्व्वत्र गुणैर्निधीयते ॥
”)अथ व्यवहारदर्शनम् । तत्र याज्ञवल्क्यः ।“स्मृत्याचारव्यपेतेन मार्गेणाघर्षितः परैः ।आवेदयति चेद्राज्ञि व्यवहारपदं हि तत् ॥
”स्मृतिसदाचारवहिर्भूतेन वर्त्मना परैरर्थतःशरीरतो वा पीडितश्चेद्राजनि निवेदयेत्तद्ब्यव-हारदर्शनस्थानम् । चेदित्यत्र सदिति मैथिलाः ।आवेदयति चेदित्यनेन स्वयं विवादोत्थापनंराज्ञा न कर्त्तव्यमिति शूलपाणिमहामहो-पाध्यायाः । राज्ञीति व्यवहारप्रदर्शकपरम् ।तथा च बृहस्पतिः ।“राजा कार्य्याणि संपश्येत् प्राड्विवाकोऽथवाद्बिजः ॥
” * ॥
प्राड्विवाकलक्षणमाह स एव ।“विवादे पृच्छति प्रश्नं प्रतिपन्नं तथैव च ।प्रियपूर्व्वं प्राग्वदति प्राड्विवाकस्ततः स्मृतः ॥
”कात्यायनः ।“व्यवहाराश्रितं प्रश्नं पृच्छति प्राडिति स्थितिः ।विवेचयति यस्तस्मिन् प्राड्विवाकस्ततः स्मृतः ॥
”अर्थिनं प्रति भाषा ते कीदृशी प्रत्यर्थिनं प्रतिच तवापि कीदृशमुत्तरं इति पृच्छतीति प्राट्श्रुत्वा च युक्तायुक्तंत्वेन जयं पराजयं वाविविनक्ति इति विवाकः प्राट् च स विवाकश्चेतिप्राड्विवाकः ॥
* ॥
कात्यायनः ।“सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।स्वयं स राजा चिनुयात्तेषां जयपराजयौ ॥
यदा कार्य्यवशाद्राजा न पश्येत् कार्य्यनिर्णयम् ।तदा नियुञ्ज्याद्विद्बांसं ब्राह्मणं वेदपारगम् ॥
यदि विप्रो न विद्बान् स्यात् क्षत्त्रियं तत्रयोजयेत् ।वैश्यं वा धर्म्मशास्त्रज्ञं शूद्रं यत्नेन वर्ज्जयेत् ॥
”स विनीतवेशः । मनुः ।“जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः ।धर्म्मप्रवक्ता नृपतेर्न तु शूद्रः कदाचन ॥
नाध्यापयति नाधीते स ब्राह्मणब्रुवः स्मृतः ॥
”व्यासः ।“द्बिजान् विहाय यः पश्येत् कार्य्याणि वृषलैःसह ।तस्य प्रक्षुभ्यते राज्यं बलं कोषश्च नश्यति ॥
यः शूद्रो वैदिकं धर्म्मं स्मार्त्तं वा भाषते यदि ।तस्य दण्डं द्बे सहस्रे सृक्नणी चैव भेदयेत् ॥
दुःशीलोऽपि द्विजः पूज्यो न शूद्रो विजितेन्द्रियः ।दुष्टां गां कः परित्यज्यार्च्चयेत् शीलवतींखरीम् ॥
”व्यवहारमाह कात्यायनः ।“वि नानार्थेऽव सन्देहे हरणं हार उच्यते ।नानासन्देहहरणाद्व्यवहार इति स्थितिः ॥
”नानाविवादविषयः संशयो ह्रियतेऽनेन इतिव्यवहारः । भाषोत्तरक्रियानिर्णायकत्वं व्यव-हारत्वम् । तथा च बृहस्पतिः ।“अज्ञानतिमिरोपेतान् सन्देहपटलार्द्दितान् ।निरामयान् यः कुरुते शास्त्राञ्जनशलाकया ॥
इह कीर्त्तिं राजपूजां लभते सद्गतिञ्च सः ।तस्मात् संशयमूढानां कर्त्तव्यश्च विनिर्णयः ॥
”अतएव नारदः ।“अनियुक्तो नियुक्तो वा शास्त्रज्ञो वक्तुमर्हति ।दैवीं वाचं स वदति यः शास्त्रमुपजीवति ॥
”दैवीं देवानुमताम् ॥
* ॥
धर्म्मशास्त्रयोस्तुविरोधे लोकव्यवहार एवादरणीयः । इत्याहस एव ।“धर्म्मशास्त्रविरोधे तु युक्तियुक्तो विधि स्मृतः ।व्यवहारोऽपि बलवान् धर्म्मस्तेनावहीयते ॥
”अवहीयते अवगम्यते हि गतावित्यस्माद्धातोः ।अतएव बृहस्पतिः ।“केवलं शास्स्त्रमाश्रित्य न कर्त्तव्यो विनिर्णयः ।युक्तिहीनविचारे तु धर्म्महानिः प्रजायते ॥
”युक्तिर्न्यायः । स च लोकव्यवहार इति व्यव-हारमातृका ॥
अतएव कात्यायनः ।“कुलशीलवयोवृत्तवित्तवद्भिरधिष्ठितम् ।बणिग्भिः स्यात् कतिपयैः कुलवृद्धैरधि-ष्ठितम् ॥
”सद इति शेषः । कात्यायनः ।“सभ्येनावश्यवक्तव्यं धर्म्मार्थसहितं वचः ।शृणोति यदि नो राजा स्यात्तु सभ्यस्तदानृणः ॥
”सभ्यः सभायां साधुः ॥
* ॥
तथाविधानाहयाज्ञवल्क्यः ।“श्रुताध्ययनसम्पन्नाः कुलीनाः सत्यवादिनः ।राज्ञा सभासदः कार्य्याः शत्रौ मित्रे च येसमाः ॥
”श्रुताध्ययनसम्पन्नाः धर्म्मशास्त्रज्ञाः । कुलीनाःसङ्करादिदोषशून्यमातापितृवंशपरम्पराकाः ।एवंभूताः सभासदः सभायां यथा सीदन्तिउपविशन्ति तथा दानमानसत्कारैः राज्ञाकर्त्तव्याः ॥
* ॥
तथाविधावस्थानेन भूमेः सभात्व-माह मनुः ।“यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः ।राज्ञः प्रतिकृतो विद्बान् ब्राह्मणस्तां सभांविदुः ॥
”विद्वत्सहतावपि सभापर्य्यायपरिषच्छब्दमाह सएव ।“त्रैविद्यो हैतुकस्तकीं निरुक्तो धर्म्मपाठकः ।त्रयश्चाश्रमिणः पूर्व्वे परिषत् स्याद्दशावराः ॥
”त्रैविद्यः त्रिवेदपारगः । हैतुकः । सद्युक्ति-व्यवहारी । अतएवामरासंहः । सभा सदसिसभ्ये च । अत्र भा दीप्तिः प्रकाशो ज्ञानमितियावत् तया सह साक्षात् परम्परया वा वर्त्ततेइति सभा ॥
* ॥
कात्यायनः ।“दिवसस्याष्टमं भागं मुक्त्वा भागत्रयं तु यत् ।स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ॥
”अष्टमयामाद्यार्द्धप्रहरम् । भागत्रयं प्रहरद्बय-पर्य्यन्तम् । मनुः ।“धर्म्मासनमधिष्ठाय संवीताङ्गः समाहितः ।प्रणम्य लोकपालेभ्यः कार्य्यदर्शनमारभेत् ॥
”मनुनारदबौधायनहारीताः ।“पादोऽधर्म्मस्य कर्त्तारं पादः साक्षिणमृच्छति ।पादः सभासदः सर्व्वान् पादो राजानमृच्छति ॥
राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः ।एनो गच्छति कर्त्तारं निन्दार्हो यत्र निन्द्यते ॥
”कर्त्तारं वादिनम् । राजपादं विवेचकपरम् ॥
अनेनाः निष्पापः ॥
अर्थित्वमाहतुर्व्यासनारदौ ।“यस्य चाभ्यधिका पीडा कार्य्यं वाप्यधिकंभवेत् ।तस्यार्थिभावो दातव्यो न यः पूर्व्वं निवेदयेत् ॥
”अत्रैव पूर्व्वपक्षो भवेत्तस्य इति कात्यायनीयेतृतीयपादः । न यः पूर्व्वं निवेदयेदिति तस्यो-त्तरः पक्ष इति शेषः । स यः पूर्व्वमिति पाठेयः प्रथमं निवेदयति स पूर्व्ववादीत्यर्थः । बृह-स्पतिः ।“अहं पूर्व्विकया यातावर्थिप्रतर्थिनौ यदा ।वादो वर्णानुपूर्व्वेण ग्राह्यः पीडामवेक्ष्य वा ॥
”यत्र द्बावेव वदतः प्रभो मद्वाक्यं शृणु इति तत्रब्राह्मणादिक्रमेणाधिकपीडादर्शनेन वा वादोग्राह्यः ॥
* ॥
स्वयं विवादाशक्तौ प्रतिनिधिमाहनारदः ।“अर्थिना सन्नियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा ।यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥
”तयोर्व्वादिप्रतिवादिनोः । बृहस्पतिरपि ।“ऋत्विक् वादे नियुक्तश्च समौ सम्परिकीर्त्तितौ ।यज्ञे स्वाम्याप्नुयात् पुण्यं हानिं वादेऽथवाजयम् ॥
”कात्यायनः ।“मनुष्यमारणे स्तेये परदाराभिमर्षणे ।अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥
पारुष्ये कूटकरणे नृपद्रोहे तथैव च ।प्रतिवादी न दातव्यः कर्त्ता तु विवदेत् स्वयम् ॥
”कुलस्त्रीप्रभृतीनां प्रतिनिधिमाह व्यासः ।“कुलस्त्रीबालकोन्मत्तजडार्त्तानाञ्च बान्धवाः ।पूर्व्वपक्षोत्तरे ब्रूयुर्नियुक्तो भृतकस्तथा ॥
”भ्रात्रादीतरस्य पक्षस्थितस्य दण्डनीयत्वमाहनारदः ।“यो न भ्राता पिता वापि न पुत्त्रो न नियो-जितः ।पराथवादी दण्ड्यः स्यात् व्यवहारेषु विब्रुवन् ॥
”विब्रुवन् विरुद्धं ब्रुवन् ॥
* ॥
नारदः ।“निर्व्वेष्टकामो रोगार्त्तो यियक्षुर्व्यसने स्थितः ।अभियुक्तस्तथान्येन राजकर्म्मोद्यतस्तथा ॥
गवां प्रचार गोपालाः शस्यबन्धे कृषीवलाः ।शिल्पिनश्चापि तत्काले आयुधीयाश्च विग्रहे ॥
अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती ।विषमस्थाश्च नासेव्या न चैतान्नाह्वयेन्नृपः ॥
”निर्व्वेष्टुकामो विवाहप्रवृत्तः । अन्येन वादान्त-रेण । अप्राप्तव्यवहारः षोडशवर्षावरवयस्कः ।तत्काले विवाहादिसमाप्तिपर्य्यन्तकाले । एतेविषमस्थाश्च उपप्लवदेशस्थाश्च उत्तमर्णादिनानासेध्या नावधारणीयाः एतान् प्रागुक्तान्वादिना निवेदितानिति शेषः ॥
* ॥
याज्ञवल्क्यः ।“अभियोगमनिस्तीर्य्य नैनं प्रत्यभियोजयेत् ॥
”अभियुक्तः सन्नुत्तरमदत्त्वा भाषावादिनमेतंस्वाभियोगानुपमर्दकेन विवादान्तरेण न योज-येत् । युमपदनेकव्यवहारासम्भवात् । नारदो-ऽपि ।“पूर्व्वदादं परित्यज्य योऽन्यमालम्बते पुनः ।वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ॥
”हीनवादीत्यनेन दण्ड्यतोक्ता न तु प्रकृतार्थाद्धी-नता अन्यथा छलापत्तेः ॥
* ॥
पारुष्ये प्रति-प्रसवमाह स एव ।“कुर्य्यात् प्रत्यभियोगञ्च कलहे साहसेषु च ॥
”वाक्पारुष्ये शस्त्रादिप्रहारेषु च । यथापूर्व्व-महमप्यनेनाक्रुष्टः शस्त्रेण हत इत्यपराधा-भावाय प्रत्यभियोगं कुर्य्यात् । तथा च बृह-स्पतिः ।“आक्रुष्टस्तु यदाक्रोशंस्ताडितः प्रतिताडयन् ।हत्वाततायिनञ्चैव नापराधी भवेन्नरः ॥
”एतेन वाक्पारुष्यदण्डपारुष्ययोः प्रकृताभि-योगे खण्डकाभियोगेऽपि न दोषः । यत्तु ।“पूर्व्वमाक्षारयेद्यस्तु नियतं स्यात् स दोषभाक् ।पश्चाद्यः सोऽप्यसत्कारी पूर्व्वे तु विनयो गुरुः ॥
”इति नारदवचनं तत् पूर्व्वापेक्षया परस्या-धिकवाक्पारुष्योत्पादकस्यापि स्वल्पदण्डविधा-यकम् ॥
* ॥
युगपत्संप्रवर्त्तने अधिकदण्डाभाव-माह स एव ।“पारुष्ये साहसे चैव युगपत्संप्रवृत्तयोः ।विशेषश्चेन्न लभ्येत विनयः स्यात् समस्तयोः ॥
”विनयो दण्डः । एवञ्च दण्डोऽयमनपराधे मयिकृतः पीडितत्वादिति भाषायां प्रत्यभियोगःकार्य्य एव । प्रत्यवस्कन्दनोत्तरत्वेन युगपदनेक-व्यवहारापत्तिदोषस्याभावात् ॥
* ॥
सभापतेः-कर्त्तव्यमाह कात्यायनः ।“अथ चेत् प्रतिभूर्नास्ति वादयोग्यस्तु वादिनोः ।स रक्षितो दिनस्यान्ते दद्यात् भृत्यायवेतनम् ॥
”प्रतिभवति तत्कार्य्ये तद्वद्भवति इति प्रति-भूर्लग्नकः । वादयोग्यः विवादफलस्य साधित-धनादिदानस्य दण्डदानस्य च क्षमः । वादिनोःभाषावादिन उत्तरवादिनश्च । तथाच याज्ञ-वल्क्यः ।“उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्य्यनिर्णये ।प्रतिभुवस्त्वभावे च राज्ञा सं ज्ञपनं तयोः ॥
”राज्ञा संज्ञपनं दण्डतुल्याधिकरणं निर्णयस्यकार्य्ये धनादिदाने राजदन्तादित्वात् कार्य्य-शब्दस्य पूर्व्वनिपातः । भृत्यः तद्रक्षको राज-नियुक्तः ॥
* ॥
प्रत्यर्थी यदि कञ्चित् कालंप्रार्थयते स लभते अर्थी तु कालं प्रार्थयन्अर्थित्वमेव व्याहन्यादिति तेन कालो न प्रार्थ-नीयः । तदाह ।“प्रत्यर्थी लभते कालं त्र्यहं सप्ताहमेव च ।अर्थी तु प्रार्थयन् कालं तत्क्षणादेव हीयते ॥
”क्वचित् प्रत्यर्थी कालं न लभते । याज्ञवल्क्यः ।“साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् ।विवादयेत् सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥
”साहसं मनुष्यमारणम् । गौरत्र दोह्या ।अभिशापो महापातकादिना । अत्यये द्रव्य-नाशे । स्त्रियां कुलस्त्रियां चारित्रांववादविषय-प्राप्तायां दास्यां स्वत्वविवादे वा । एषु सद्य एवउत्तरं दापयेदिति शूलपाणिः ॥
विशेषयतिकात्यायनः ।“यस्मात् कार्य्यसमारम्भश्चिरात्तेन विनिश्चितः ।तस्मान्न लभते कालमभियुक्तस्तु कालभाक् ॥
”अपवादमाह बृहस्पतिः ।“अभियोक्ता प्रगल्भत्वात् वक्तुं नोत्सहते यदि ।तदा कालः प्रदातव्यः कार्य्यशक्त्यनुरूपतः ॥
”अत्रापि विशेषयति व्यासः ।“राजदवकृतो दोषस्तस्मिन् काले यदा भवेत् ।अवध्ययोगमात्रेण न भवेत् स पराजितः ॥
”स कृतसमयबन्धोऽभियुक्तः ।“राजदैवकृतं दोषं साक्षिभिः प्रतिपादयेत् ।जैह्मेन वर्त्तमानस्तु दण्ड्यो दाप्यस्तु तद्धनम् ॥
”अवध्यतिक्रमहेतो राजदैविकदोषस्य प्रमितौन तदतिक्रामकोऽपराध्यति जैह्माच्च तदति-क्रमेण दण्ड्यो भङ्गी च भवतीत्यर्थः । छद्म-काठिन्यादियुक्तो जिह्मः । तथा च हारीतः ।छद्म माया व्याजयुक्ता निकृतिः । कौटिल्य-काठिन्यशाठ्यवैरस्यसद्भावयुक्तं जैह्म्यमिति युक्तंयोगः ॥
* ॥
अथ व्यवहारपादनिर्णयः । तत्र बृहस्पतिः ।“पूर्व्वपक्षः स्मृतः पादो द्बिपादश्चोत्तरः स्मृतः ।क्रियापादस्तथा चान्यश्चतुर्थो निर्णयः स्मृतः ॥
मिथ्योक्तौ च चतुष्पात् स्यात् प्रत्यवस्कन्दनेतथा ।प्राङ्न्याये च स विज्ञेयो द्बिपात्संप्रतिपत्तिषु ॥
”यद्यपि संप्रतिपत्तावपि निर्णयोऽस्ति तथाप्यु-त्तरवादिनैव भाषार्थस्याङ्गीकृतत्वेन क्रियासाध्योन भवति इति द्विपादतोक्ता ॥
* ॥
अथ भाषापादः ।तत्र भाषास्वरूपमाहतुः कात्यायनबृहस्पती ।“प्रतिज्ञादोषनिर्म्मुक्तं साध्यं सत्कारणान्वितम् ।निश्चितं लोकसिद्धञ्च पक्षं पक्षविदो विदुः ॥
स्वल्पाक्षरः प्रभूतार्थो निःसन्दिग्धो निराकुलः ।विरोधिकारणैर्मुक्तो विरोधिप्रतिरोधकः ॥
यदा त्वेवंविधः पक्षः कल्पितः पूर्व्ववादिना ।दद्यात् तत्पक्षसम्बन्धं प्रतिवादी तदुत्तरम् ॥
”प्रतिज्ञा साध्याभिधायिका वाक् । तस्या दोषैःपरस्मरविरुद्धार्थपदादिभिस्त्यक्तं साध्यं साधना-र्हाभिमतं पक्षं विदुः । अन्यथा प्रतिज्ञादोषेणसाध्यदोषः स्यात् । अतएवोक्तम् ।“वचनस्य प्रतिज्ञात्वं तदर्थस्य च पक्षता ।असङ्करेण वक्तव्ये व्यवहारेषु वादिभिः ॥
”वक्तव्ये पक्षप्रतिज्ञे पूर्व्वोक्ते । नारदेनापि ।“सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् ॥
”उत्तरो विजयी । यद्यप्यन्यत्र साध्यं ज्ञाप्यं तद्-विशिष्टधर्म्मो पक्ष इति भेदः तथाप्यत्र वाक्प्रत्याय्यर्णादिधर्म्मविशेषविशिष्टस्य पक्षतयाधर्म्मिणोऽधमर्णादेरेव साध्यत्वात् साध्यपक्षयोरभेदाभिधानम् । उपसंहारे च एवंविधः पक्षइति । मिताक्षरायान्तु भाषा प्रतिज्ञापक्ष इतिनार्थान्तरमित्युक्तम् । भाषार्थमुक्त्वा भाषास्वरूप-प्रपञ्चमाह स्वल्पाक्षर इति । निराकुलःपौर्व्वापर्य्यविपर्य्यासादिशून्यः । तत्र ।“द्यूते च व्यवहारे च प्रव्रते यज्ञकर्म्मणि ।यानि पश्यन्त्युदासीनाः कर्त्ता तानि नपश्यति ॥
”इति गृह्यसंग्रहवचनादुदासीनेभ्यो ज्ञात्वाशोधयेत् । तच्छोधनमाह बृहस्पतिः ।“न्यूनाधिकं पूर्व्वपक्षं तावद्बादी विशोधयेत् ।न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसन्निधौ ॥
” * ॥
तल्लिखनप्रकारमाह व्यासः ।“पाण्डुलेखेन फलके भूमौ वा प्रथमं लिखेत् ।न्यूनाधिकन्तु संशोध्य पश्चात् पत्रे निवेशयेत् ॥
”फलकं काष्ठादिपट्टकम् । कात्यायनः ।“पूर्व्वपक्षं स्वभावोक्तं प्राड्विवाकोऽथ लेखयेत् ।पाण्डुलेखेन फलके ततः पत्रेऽभिलेखयेत् ॥
शोधयेत् पूर्व्वपक्षन्तु यावन्नोत्तरदर्शनम् ।उत्तरेणावरुद्धस्य निवृत्तं शोधनं भवेत् ॥
अन्यदुक्तं लिखेद्योऽन्यदर्थिप्रत्यर्थिनोर्व्वचः ।चौरवच्छासयेत्तन्तु धार्म्मिकः पृथिवीपतिः ॥
”स्वभावोक्तमकृत्रिमम् । एतच्च स्वरविशेषादिनासुज्ञेयम् ॥
* ॥
अतएव याज्ञवल्क्यः ।“छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः ।भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥
”भूतं तत्त्वार्थसम्बन्धम् । नारदः ।“भूतं तत्त्वार्थसम्बन्धं प्रमादाभिहितं छलम् ।किन्तु राज्ञा विशेषेण स्वधर्म्ममभिरक्षता ॥
मनुष्यचित्तवैचित्र्यात् परीक्षा साध्वसाधु वा ।सर्व्वेष्वर्थविवादेषु वाक्छले नावसीदति ॥
पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते ॥
”सर्व्वेष्वर्थविवादेषु प्रमादाभिधानेऽपि नावसी-दति अत्रोदाहरणं पशुस्त्रीत्यादि । अर्थविवाद-ग्रहणात् मन्युकृतविवादेषु प्रमादाभिधानेप्रकृतार्थादप्यर्थाद्धीयत इति गम्यते । यथाह-मनेन शिरसि पादेन ताडित इत्यभिधायकेवलं हस्तेन ताडित इति वदन् न केवलंदण्ड्यः पराजीयते च । ततश्च त्वं मह्यमृणंधारयसि मत्त ऋणत्वेन गृहीततावद्धन-कत्वादिति भाषाशरीरं एतच्च संस्कृतदेश-भाषान्यतरेण यथाबोधं वक्तव्यं लेख्यं वा ।मूर्खाणामपि वादिप्रतिवादितादर्शनात् अत-एवाध्यापनेऽपि तथोक्तं विष्णुधर्म्मोत्तरे ।“संस्कृतैः प्राकृतैर्व्वाक्यैर्यः शिष्यमनुरूपतः ।देशभाषाद्युपायैश्च बोधयेत् स गुरुः स्मृतः ॥
” * ॥
अथोत्तरपादः । तत्र कालमाह कात्यायनः ।“सद्यःकृतेषु कार्य्येषु सद्य एव विवादयेत् ।कालातीतेषु वा कालं दद्यात् प्रत्यर्थिने प्रभुः ॥
”वादिनोक्तस्य साध्यस्य प्रतीपमर्थयते इतिप्रत्यर्थी । नारदः ।“गहनत्वाद्बिवादानामसामर्थ्यात् स्मृतेरपि ।ऋणादिषु हरेत् कालं कामं तत्त्ववुभुत्सया ॥
”बृहस्पतिः ।“यदा त्वेवंविधः पक्षः कल्पितः पूर्व्ववादिना ।दद्यात् तत्पक्षसम्बन्धं प्रतिवादी तदोत्तरम् ॥
”सम्बन्धमुपयुक्तम् । अन्यथा अन्यवादित्वेन भङ्ग-प्रसङ्गात् ।“अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः ।आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥
प्रपलायी त्रिपक्षेण मौनकृत् सप्तभिर्दिनैः ।क्रियाद्वेषी तु मासेन साक्षिभिन्नस्तु तत्-क्षणात् ॥
”इति नारदोक्तेः ॥
क्रिया लेख्यादिका । साक्षिभिन्नः साक्षिभिःपराजितः । वादिनोक्तस्य साध्यस्य प्रतीपंवदतीति प्रतिवादी । उत्तीर्य्यते निस्तीर्य्यतेप्रकृताभियोगोऽनेन इति उत्तरम् । याज्ञ-वल्क्यः ।“श्रुतार्थस्योत्तरं लेख्यं पूर्व्वावेदकसन्निधौ ॥
”लेख्यमिति वाक्यस्याप्युपलक्षकम् ॥
* ॥
उत्तर-स्वरूपं तद्भेदांश्चाह नारदः ।“पक्षस्य व्यापकं सारमसन्दिग्धमनाकुलम् ।अव्याख्यागम्यमित्येवमुत्तरं तद्बिदो विदुः ॥
मिथ्यासंप्रतिपत्तित्वं प्रत्यवस्कन्दनन्तथा ।प्राङ्न्यायाश्चोत्तराः प्रोक्ताश्चत्वारः शास्त्र-वेदिभिः ।अभियुक्तोऽभियोगस्य यदि कुर्य्यादपह्रवम् ।मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः ॥
”पक्षस्य भाषार्थस्य व्यापकं आच्छादकं अभि-योगप्रतिकूलमिति यावत् । अतएव पूर्व्वपक्षार्थ-सम्बन्धं प्रतिपक्षं निवेदयेदित्युक्तम् । न चविप्रतिपत्त्या न्यायार्थमागतस्य धारयसीत्यभि-युक्तस्य धारयामीति संप्रतिपत्तेः कथमुत्तरत्वंअभियोगाप्रतिकूलत्वादिति वाच्यम् । भाषा-वादिनो मूर्खत्वेनापटुतया वा कदाचिद्भाषाभि-वादादेवायं हीयते इति भाषाविमर्षपर्य्यन्तंविप्रतिपन्नस्याप्युत्तरवादिनो भाषार्थं सम्यगवगम्यतन्निषेधार्थं सम्यगुत्तरासम्भवात् विद्वत्सभायांचासत्यवचनमत्यन्ताधर्म्मकारकं परोक्तिपराजयेच दण्ड्यत्वं वादिना च वैरमित्यादि प्रतिसन्द-धतः संप्रतिपत्तेरुत्तरत्वं सम्भवत्येव । एवं एतेभ्यएवानिस्तारात् साध्यत्वेनोपदिष्टस्य पक्षस्यसिद्भत्वे नोपन्यासेन साध्यत्वनिवारणात् सिद्ध-साधनेनापि वादिनः प्रत्यवस्थानाच्चोत्तरत्वंसंप्रतिषत्तेः सिद्धमिति । सारं प्रकृतोपयोगि ।अनाकुलं पूर्व्वापरविरोधशून्यम् । अव्याख्या-गम्यमध्याहारादिकं विनैव प्रतीतं अभियोगस्यअभियुज्यते इत्यभियोगः सहेतुकं साध्यं तस्या-पह्नवमित्यर्थः ॥
* ॥
उत्तराभाषमाह कात्यायनः ।“प्रकृतेन त्वसम्बन्धं अत्यल्पमतिभूरि च ।पक्षैकदेशव्याप्यैवं तच्च नैवोत्तरं भवेत् ॥
अस्तव्यस्तप्रदव्यापि निगूढार्थं तथाकुलम् ।व्याख्यागम्यमसारञ्च नोत्तरं शस्यते बुधैः ॥
”अस्तव्यस्तपदव्यापि अनन्वितार्थपदव्याप्तमितिव्यवहारतिलके भवदेवभट्टाः ॥
* ॥
मिथ्योत्तर-भेदमाहतुः पुनर्व्यासनारदौ ।“मिथ्यैतन्नाभिजानामि मम तत्र न सन्निधिः ।अजातश्चास्मि तत्काले इति मिथ्या चतुर्व्वि-धम् ॥
”मिथ्यैतदिति शब्दतो नाभिजानामीत्यादिकमर्थ-तोऽपह्नवः । तथा च कात्यायनः ।“श्रुत्वा भाषार्थमन्यस्तु यदि तं प्रतिषेधति ।अर्थतः शब्दतो वापि मिथ्या तज्ज्ञेयमुत्तरम् ॥
”त्वं मह्यं धारयसीति प्रतिज्ञायां न गृहीतमितिशब्दतः । कालविशेषगर्भायां तस्यां सत्यां तदानाहं जात इति अर्थतः । देशकालविशेष-गर्भायां तदा तत्र नाहमासं इत्यप्यर्थतः ।देशादिमत्यां तच्छून्यायां वा न जानामीत्यर्थतएव योग्यास्मरणेनार्थतस्तदग्रहणप्रतिपादनात्अत्र चरमत्रयं ग्रहणावस्कन्दनमुखेन ग्रहणा-भावप्रतिपादकं सापदेशमिथ्योत्तरमात्रं आद्यंमिथ्योत्तरमात्रम् ॥
* ॥
बृहस्पतिः ।“श्रुत्वाभियोगं प्रत्यर्थी यदि तत् प्रतिपद्यते ।सा तु संप्रतिपत्तिः स्याच्छास्त्रविद्भिरुदाहृता ॥
अर्थिनाभिहितो योऽर्थः प्रत्यर्थी यदि तं तथा ।प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं हि तत् ॥
आचारेणावसन्नोऽपि पुनर्लेख्यते यदि ।सोऽभिधेयो जितः पूर्व्वं प्राङ्न्यायस्तु स उच्यते ॥
”अभियुज्यते इत्यभियोगः । प्रतिपद्यतेऽङ्गी-करोति । तं साध्यार्थम् । तथा प्रपद्य सत्यत्वे-नाङ्गीकृत्य । कारणं तत्प्रतिकूलरूपं कारणंब्रूयात् तदा तदुत्तरं प्रत्यवस्कन्दनम् । वाद्युक्तस्यप्रतिकूलत्वेन प्रत्यवस्कन्दनमित्यर्थः । प्रतिपक्षा-वस्कन्दनात् प्रत्यवस्कन्दनमिति जीमूतवाहनः ॥
तञ्च कारणोत्तरं त्रिविधम् । बलवत् तुल्यबलंदुर्ब्बलञ्च । तत्र बलवदुत्तरं यथा । त्वत्तः शतंगृहीतमिति सत्यं किन्तु परिशोधितमिति ।अत्र उत्तरवादिन एव क्रियानिर्द्देशः । तथा चनारदः ।“आधर्य्यं पूर्व्वपक्षस्य यस्मिन्नर्थवशाद्भवेत् ।विवादे साक्षिणस्तत्र प्रष्टव्या प्रतिवादिनः ॥
”आधर्य्यं दुर्ब्बलत्वं पूर्व्वपक्षस्य । ततश्च स्थापक-साध्यस्य धार्य्यमाणत्वस्य ध्वंसकारणं निर्यात-नादि तद्रूपमुत्तरं कारणोत्तरम् । अतएवमिथ्योत्तरादस्य भेदः । तद्धि धार्य्यमाणत्वस्या-त्यन्ताभावप्रयोजकमग्रहणरूपं न तु ध्वंस-रूपम् ॥
* ॥
तुल्यबलकारणोत्तरं यथा ।मदीयेयं भूमिः क्रमागतत्वादिति वाद्युक्ते मदी-येयं भूमिः क्रमागतत्वादिति प्रतिवादिनातथोत्तरमिति तत्र पूर्व्ववादिनः साक्ष्युपन्यासः ।तदसामर्थ्ये प्रतिवादिनः । तथा च याज्ञवल्क्यः ।“साक्षिषूभयतः सत्सु साक्षिणः पूर्व्ववादिनः ।पूर्व्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥
”दुर्ब्बलकारणोत्तरं यथा । ममेयं भूः क्रमागत-त्वादिति वाद्युक्ते ममेयं भूर्द्दशवर्षभुज्यमानत्वा-दिति प्रत्युत्तरं तत्तु धनमात्रप्रयुक्तम् ।“पश्यतोऽब्रुवतो हानिर्धनस्य दशवार्षिकी ॥
”इति याज्ञवल्क्यीयं बीजम् ॥
किन्तु नैतद्युक्तम् ।“परेण भुज्यमानाया भूमेर्व्विंशतिवार्षिकी ॥
”इति भूमिमात्रविषयकं तत्परार्द्धेनापोदित-त्वादिति भवदेवभट्टाः ॥
“पश्यतोऽब्रुवतो हानिर्भूमेर्व्विंशतिवार्षिकी ।परेण भुज्यमानाया धनस्य दशवार्षिकी ॥
”इति शूलपाणिधृतपाठोऽपि तत्रार्थे प्रमाणम् ।ततश्चात्र क्रमागतत्वे पूर्व्ववादिनः प्रमाणोप-न्यासः । तथा चोक्तम् ।“गुरावभिहिते हेतौ प्रतिवादिक्रिया भवेत् ।दुर्ब्बले वादिनः प्रोक्ता क्रिया तुल्येऽपि वादिनः ॥
”आचारेण व्यवहारेण । अवसन्नो भङ्गी । लेख-यते भाषामिति शेषः स वादी अस्मिन्नर्थे मयापूर्व्वं पराजितः वाच्यः प्राङ्न्यायो हि धार्य्य-माणत्वसामान्याभावज्ञापकः ॥
* ॥
एतेषां सङ्करेविशेषमाहतुर्व्यासहारीतौ ।“मिथ्योत्तरं कारणञ्च स्यातामेकत्र चेदुभे ।सत्यञ्चापि सहानेन तत्र ग्राह्यं किमुत्तरम् ।मिथ्याकारणयोर्व्वापि ग्राह्यं कारणमुत्तरम् ॥
यत्प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् ।उत्तरं तत्तु विज्ञेयमसं कीर्णमतोऽन्यथा ॥
”शताभियोगे शतग्रहणं मिथ्या पञ्चाशदेवगृहीतास्ताश्च परिशुद्धा इति मिथ्याकारणां-शयोस्तुल्यरूपत्वे कारणोत्तरं ग्राह्यं आदौविचारणीयं परिशोधनस्यार्व्वाचीनत्वेनस्मरणार्हत्वात् पश्चान्मिथ्योत्तरं तत्र ऋणस्यचिरातीतस्य कष्टप्रतिपाद्यत्वात् । एवञ्च नव-त्यभियोगे मिथ्यैतत् षष्टिपुराणा एव मयागृहीतास्तत्रापि त्रिंशत् परिशुद्धास्त्रिंशद्धार-यामि इति मिथ्याकारणसत्यैः सङ्कीर्णोत्तरेऽपिपूर्व्ववत् कारणोत्तरमेव ग्राह्यं मिथ्याकारणयो-र्व्वापीति वापिशब्दाभ्यां तथा दर्शितत्वात्सत्योत्तरस्य स्वयंस्वीकृतत्वेन निर्णयानर्हत्वा-दिति भावः । प्राङ्न्यायेन सह सर्व्वथैव सङ्क-रानुपपत्तिरिति तन्नोक्तं यदि शतं मिथ्यापञ्च-विंशतिपुराणा गृहीतास्ते च परिशुद्धास्तथामिथ्यांशस्य प्रचुरार्थविषयस्य विचार उपक्रम-णीयः । भूयोऽनुरोधस्याभ्यर्हितत्वात् पश्चात्स्वल्पार्थस्य विचार इति । तुल्यार्थविषयत्वे तुयत्र क्रियायाः साक्ष्यादेः फलं निर्णयः शीघ्रंभवति तदंशस्यैव प्रमाणं ग्राह्यं तथा यदिशतग्रहणे पत्रमस्ति शतापह्नवे च पञ्चाशत्-परिशोधने साक्षिणस्तदा मिथ्योत्तर एवादौतत्खण्डनाय ग्रहनपत्रं ग्राह्यं लिखितस्यसाक्षिभ्यो बलवत्त्वेन सम्यङ्निर्णयकारित्वात्पश्चात्परिशोधनं साक्षिणः प्रष्टव्याः । सङ्करो-त्तरमप्यसङ्कीर्णमदुष्टं अतो भिन्नमन्यथा सङ्कीर्ण-दुष्टमित्यर्थः । अत्र चावच्छेदभेदेन मिथ्योत्तर-सङ्करे सदुत्तरत्वमेकावच्छेदेन । सङ्करे तु अस-दुत्तरत्वमाह कात्यायनः ।“पक्षैकदेशे यत् सत्यमेकदेशे च कारणम् ।मिथ्या चैवैकदेशे स्यात् सङ्करात् तदनुत्तरम् ॥
”एकदेशे इत्यत्र एकस्मिन्नेव देशे न भिन्नदेशेयथा शतं धारयाम्येव परिशोधितं न गृहीतंवा इति ॥
* ॥
अथ क्रियापादः ।उत्तराभिधानानन्तरं याज्ञवल्क्यः ।“ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधकम् ।”अर्थी वादी प्रतिवादी च स्वपक्षार्थित्वात् ।तयोरधिकारे नियममाह व्यासः ।“प्राङ्न्याये कारणोक्तौ च प्रत्यर्थी साधयेत्क्रियाम् ।मिथ्योत्तरे पूर्व्ववादी प्रतिपत्तौ न सा भवेत् ॥
”मिथ्योत्तरे न गृहीतं मयेत्यादिरूपे पूर्व्ववादीभाषावादी साक्ष्यादिकं निर्द्दिशेन्नोत्तरवादी तत्रतस्य मानुष्याः क्रियाया असम्भवादिति न्यायोमूलं अत्रापि साक्ष्याद्यभावे उत्तरवादिन एवदिव्यम् ।“न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् ।अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥
”इति कात्यायनोक्तेः ॥
अत्र पूर्व्वार्द्धेनार्थिनो दिव्यनिषेधेऽर्थात् प्रत्य-र्थिनस्तत्प्राप्तौ परार्द्धाभिधानं सिद्धे सत्यारम्भोनियमाय इति न्यायान्नियमार्थं न च व्यासवचनेक्रियापदं कारणोत्तरमानुषीदैवीपरमित्येताव-दथकं मिथ्योत्तरेऽप्यनुयुज्यते इति तत्रापिअर्थिन एव दिव्यमिति वाच्यं श्रूयमाणपदस्यहि पुनरन्वयार्थमेवानुषङ्गः । नन्वर्थवैषम्यसहि-तस्य गौरवात् पूर्व्वोक्तम्यायमूलकविषयलब्धौकात्यायनोक्तदिव्यविषयनियमभङ्गानर्हत्वाच्च यत्रविवादविषये प्रत्यर्थी सन्दिहानस्तत्र तस्योत्तरा-नर्हतया अर्थिन एव दृष्टक्रिया तदसम्भवे तस्यैवदिव्यं न तु प्रत्यर्थिनः अधिकारनिश्चयाभावात्अर्थिनस्तत्सत्तात् न च न कश्चिदभियोक्तार-मित्यादिना विरोधस्तस्योत्तरार्हप्रतियोगिविषय-त्वात् एतद्विषय एव धनस्वामिनो दिव्यमितिलोकप्रवादः ॥
* ॥
लिखिताद्यभावेनापि दिव्य-माह याज्ञवल्क्यः ।“प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्ति-तम् ।एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥
” * ॥
अथ दिव्यम् । दिव्यान्याह स एव ।“तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये ।महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥
रुच्या वान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः ।विनापि शीर्षकं कुर्य्यात् नृपद्रोहेऽथ पातके ॥
”महाभियोगेषु महापातकादिगुरुतराभियोगेषु ।शीर्षकस्थः शीर्षकं प्रधानं व्यवहारस्य चतुर्थ-पादो जयपराजयलक्षणः तेन दण्डो लक्ष्यते ।तत्र तिष्ठति वर्त्तते तदङ्गीकरोतीत्यर्थः । अत्राभि-योक्तुः शिरोवर्त्तित्वोक्तेरभियोज्यस्य दिव्यकर्त्तृत्वंप्रतीयते । प्रत्यर्थीच्छया अर्थिनो दिव्यमाहरुच्येति । इतरोऽभियुक्तः । एतत्सर्व्वं दिव्यतत्त्वेविवृतम् । प्रतिज्ञातार्थसाधकमिति साधकंसाक्ष्यादिकम् । तदाह बृहस्पतिः ।“द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी तथा ।साक्षिलेख्यानुमानञ्च मानुषी त्रिविधा स्मृता ।धटाद्या धर्म्मजान्ता च दैविकी नवधा स्मृता ॥
”तत्रानुमानन्तु भुक्त्यादि ॥
* ॥
तत्र साक्ष्यमाहमनुः ।“समक्षदर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति ।”एतत् प्रमाणमात्रोपलक्षणम् ।“अनुभावी च यः कश्चित् कुर्य्यात् साक्ष्यंविवादिनाम् ।”इति तद्वचनान्तरात् ॥
अतएवाकृतमपि साक्षिणमाह मनुः ।“यत्रानिरुद्धो वीक्ष्येत शृणुयाद्बापि किञ्चन ।पृष्टस्तत्रापि तद्ब्रूयात् यथादृष्ठं यथाश्रुतम् ॥
”अनिरुद्धस्त्वमत्र साक्षित्वेनानियुक्तः । परम्पर-यापि श्रवणमाह विष्णुः ।“उद्दिष्टसाक्षिणि मृते देशान्तरगतेऽपि वा ।तदभिहितश्रोतारः प्रमाणं नात्र संशयः ॥
”अस्योत्तरसंज्ञामाह नारदः ।“साक्षिणामपि यत् साक्ष्यं स्वपक्षं परिभाषताम् ।श्रवणात् श्रावणाद्बापि स साक्ष्युत्तरसंज्ञकः ॥
”स्वपक्षसम्बन्धि साक्ष्यं परिभाषतां साक्षिणां यःस्वयं शृणोति अर्थिना श्राव्यते वा स श्रवणात्श्रावणादुत्तरसाक्षीत्यर्थः । एवं योऽर्थिना गूढ-तया प्रत्यर्थिवचनं श्रावितः स गूढसाक्षीत्याहस एव ।“अर्थिना स्वार्थसिद्ध्यर्थं प्रत्यर्थिवचनं स्फुटम् ।यः श्राव्यते तदा गूढो गूढसाक्षी स उच्यते ॥
”तेनान्यतरवाद्यभिहितार्थविषयकदृष्टकारणजंविज्ञापनं साक्ष्यमिति स्थितम् । तत्र नारदः ।“तेषामपि न बालः स्यान्नैको न स्त्री न दुष्ट-कृत् ।न बान्धवो न चारातिर्ब्रूयुस्ते कार्य्यमन्यथा ॥
”कार्य्यं सदपि अन्यथा तद्विरुद्धत्वेन । एवञ्चयदि परमधार्म्मिकत्वेन बान्धवादीनामपि सत्य-वादित्वं निश्चीयते तदा तेऽपि साक्षिणो भवितुमर्हन्तीति । तेषां साक्ष्यविधायकं वक्ष्यमाण-मनुवचनमपि एतादृग्विषयम् । याज्ञवल्क्यः ।“त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्त्तक्रिया-रताः ।यथाजाति यथावर्णं सर्व्वे सर्व्वषु वा स्मृताः ॥
”त्रयोऽवरा निकृष्टा येषां ते त्र्यवराः त्रिभ्यो-ऽन्यूना भवन्तीत्यर्थः । यथेति यो यज्जातीयस्तस्यतज्जातीयः साक्षी । स्त्रीणां स्त्रियोऽन्त्यजानाम-न्त्यजाः । यथावर्णं ब्राह्मणानां ब्राह्मणाःक्षत्त्रियादीनां क्षत्त्रियादयः । अभावे तु तत्त-द्भेदं विना सर्व्व एव । त्र्यवरा इत्यस्यापवाद-माह स एव ।“उभयानुमतः साक्षी भवेदेकोऽपि धर्म्मवित् ।”उभयानुमतत्वं धर्म्मवित्त्वञ्च नियतं तन्त्रम् ।तदाह विष्णुः । अभिमतगुणसम्पन्नस्तूभयानु-मतस्त्वेकोऽपि इति । अतएव श्रोत्रियमप्येकंनिषेधयति बृहस्पतिः ।“नव सप्त पञ्च वा स्युश्चत्वारस्त्रय एव वा ।उभौ तु श्रोत्रियौ ग्राह्यौ नैकं पृच्छेत् कदा-चन ॥
”एको मिलितगुणसम्पन्नः प्रघानकल्पः तदभावेउभयानुमतमात्रोऽपि ग्राह्यस्तदाह नारदः ।“उभयानुमतो यः स्याद्द्वयोर्व्विवदमानयोः ।भवत्येकोऽपि साक्षित्वे प्रष्टव्यः स्यात् स संसदि ॥
”उभयानुमत एकोऽलुब्धत्वादिना सर्व्वजनप्रसिद्ध-श्चेत्तदा साक्षित्वे संसदि बहुजनसन्निधौ प्रष्टव्यःतथात्वे स्नेहवैरादिसत्त्वेऽप्यकीर्त्तिभयात् सत्या-भिधानसम्भवादित्याशयः । विचारस्य तत्त्व-निर्णयार्थत्वात्तदाह मनुः ।“एकोऽप्यलुब्धः साक्षी स्यात् बह्व्यः शुच्योऽपिन स्त्रियः ।स्त्रीबुद्धेरस्थिरत्वात्तु दोषैश्चान्येऽपि ये वृताः ॥
”एकोऽलुब्धस्तु साक्षी स्यादिति कुल्लूकभट्टधृत-पाठः ॥
एको लुब्धस्त्वसाक्षी स्यादिति जीमूत-वाहनधृतपाठस्तु न युक्तः । लुब्धाश्चेद्बहवो-ऽप्यसाक्षिणो भवितुमर्हन्तीति एकपदव्यर्थता-पत्तेः । भवतु वा तत्पाठः तथाप्येक इत्यनुरोधात्तन्निषेधमुखेनालुब्धस्यैकस्यानुमतिसत्त्वे धर्म्म-वित्त्वमन्तरेण साक्षित्वं बोध्यं इत्यर्थतो नविरोधः । अतएव विश्वरूपप्रभृतीनां उभयानु-भत एक एव साक्षीति व्याख्याने धर्म्मवदितिनोक्तम् । दोषैस्तेयादिभिः । तथा च नारदः ।“स्तेनाः साहसिका धूर्त्ताः कितवा योधकाश्चये ।असाक्षिणस्तु ते दृष्टास्तेषु सत्यं न विद्यते ॥
”कितवा द्यूतकराः ॥
* ॥
अपवादमाह उशनाः ।“दासोऽन्धो वधिरः कुष्ठी स्त्रीबालस्थविरादयः ।एतेऽप्यनभिसम्बन्धाः साहसे साक्षिणो मताः ॥
”स्थविरो ग्लानेन्द्रियग्रामः । आदिशब्दात् कित-वादयः । उभयानुमताभावे शुचिक्रियत्वादि-गुणश्चैको ग्राह्यः । तथा च व्यासः ।“शुचिक्रियश्च धर्म्मज्ञो योऽन्यत्राप्यनुभूतवाक् ।प्रमाणमेकोऽपि भवेत् साहसेषु विशेषतः ॥
”अनुभूतवाक् स्थानान्तरे सत्यत्वेनेति । भवदेव-भट्टोऽप्येवम् ॥
साहसमाह नारदः ।“मनुष्यमारणं स्तेयं परदाराभिमर्षणम् ।पारुष्यमनृतञ्चैव साहसं पञ्चधा स्मृतम् ॥
”कात्यायनः ।“अभ्यन्तरस्तु निःक्षेपे साक्ष्यमेकोऽपि दापयेत् ।अर्थिना प्रहितः साक्षी भवेदेकोऽपि याचिते ॥
संस्कृतं येन यत् पण्यं तत्तेनैव विभावयेत् ।एक एव प्रमाणं स विवादे परिकीर्त्तितः ॥
”संस्कृतं गठितं पण्यं कुण्डलादि । विष्णुः ।स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणोन परीक्षा इति स्तेयपरदारगमनादिकार्य्याणांनिह्रवेनैव क्रियमाणत्वात् दैवादेव परं साक्षिणोभवन्तीति न परीक्षा इत्युक्तम् । तेषां वाक्यन्तुमित्रारिभावादिनिरूपणेनैवोपपत्त्यनुपपत्ति-भ्यामालोचनीयम् । न तु वाक्यमात्रादितिव्यवहारमातृका ॥
अतएव कात्यायनः ।“ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्म्मसु ।साहसात्ययिकेनैव परीक्षा कुत्रचित् स्मृता ॥
”इति ॥
* ॥
श्रोत्रियादीनामसाक्ष्यमांह नारदः ।“श्रोत्रियास्तापसा वृद्धा ये च प्रव्रजितानराः ।वचनात्तेष्वसाक्षित्वं नात्र हेतुरुदाहृतः ॥
”दानरत्नाकरे श्रोत्रियमाह देवलः ।“एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्यवा ।षट्कर्म्मनिरतो विप्रः श्रोत्रियो नाम धर्म्मवित् ॥
”सकल्पां कल्पमात्राङ्गसहिताम् । षड् भिरितिसहार्थे तृतीया । वचनादिति श्रोत्रियत्वादि-रूपाभिधानात् न च तत्रान्यो हेतुरित्यर्थः ।तथा च स्वीयवैदिककर्म्मकरणव्यग्रतया पर-कीयकार्य्ये विस्मरणसम्भवात् साक्षित्वरूपलघु-कार्य्यनियोगे तच्छापभयेन व्यवहारद्रष्टारोऽपितान् न पृच्छन्तीति तत्साक्ष्यकरणानर्थक्याच्च नते साक्षिणः कर्त्तव्याः किन्त्वकृताः स्वयंसाक्षिणो भवन्त्येव । उभौ तु श्रोत्रियौ स्याता-मिति स्मृतेः । वृद्धस्यासाक्षित्वं वृद्धत्वादेवग्लानेन्द्रियत्वादित्यर्थः । मनुः ।“स्त्रीणां साक्ष्यं स्त्रियः कुर्य्युर्द्विजानां सदृशाद्विजाः ।शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः ॥
अन्तर्व्वेश्मन्यरण्ये वा शरीरस्यात्ययेऽपि च ।स्त्रियाप्यसम्भवे कार्य्यं बालेन स्थविरेण वा ॥
शिष्येण बन्धुना वापि दासेन भृतकेन वा ।देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेदृतं द्विजान् ॥
उदङ्मुखान् प्राङ्मुखान् वा पूर्व्वाह्णे वै शुचिःशुचीन् ।ब्रूहीति ब्राह्मणं पृच्छेत् सत्यं ब्रूहीति पार्थिवम् ॥
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्व्वैस्तु पातकैः ॥
”गोबीजकाञ्चनापहारे यत् पापं तत्तवानृताभि-धाने स्यादिति वैश्यम् । एतत्साक्ष्यानृताभिधानेभवान् सर्व्वैः पातकैः संवध्यत इत्युक्त्वा शूद्रञ्चपृच्छेत् ।“ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः ।मित्रद्रुहः कृतघ्नस्य ते ते स्युर्व्वदतो मृषा ॥
”इति मनूक्तं दूषणम् । सत्फलञ्च ।“अश्वमेधसहस्रन्तु सत्यञ्च तुलया धृतम् ।अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते ॥
”इति मनुनारदोक्तं श्रावयेत् ॥
याज्ञवल्क्यः ।“न ददाति हि यः साक्ष्यं जानन्नपि नराधमः ।स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि ॥
”कात्यायनः ।“अवीचिनरके वर्षं वसेयुः कूटसाक्षिणः ॥
” * ॥
याज्ञवल्क्यः ।“सत्यां प्रतिज्ञां यस्योचुः साक्षिणः स जयीभवेत् ।अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः ॥
वर्णानां हि वधो यत्र तत्र साक्ष्यनृतं वदेत् ।तत्पावनाय निर्व्वाप्यश्चरुः सारस्वतो द्बिजैः ॥
”गौतमः । नानृतवचने दोषो जीवनञ्चेत्तदवीनंन तु पापीयसो जीवनमिति ।“द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः ॥
”तेषामिति शेषः । यत्तु ।“साक्षिणां लिखितानाञ्च निर्द्दिष्टानाञ्च वादि-नाम् ।तेषामेकोऽन्यथावादी भेदात् सर्व्वेऽप्यसाक्षिणः ॥
”इति कात्यायनवचनम् ॥
तत्त्रयाणां तुल्यरूपाणां मध्ये एकस्याप्यन्यथा-वादे अपरस्य तत्तुल्यस्य तत्प्रतिपक्षतया तृती-यस्य किञ्चिद्वादित्वे तत्र भेदात् परस्पर-विरुद्धार्थाभिधाने भेदात् साक्षिभ्यो न निर्णयइति परम् । बृहस्पतिस्तु साक्षिद्वैधे कर्म्म-निष्ठानां ग्रहणमाह गुणिद्वैधे क्रियावता-मित्यनेन । तथा ।“साक्षिणोऽर्थिसमुद्दिष्टान् सत्सु दोषेषुदोषयेत् ।अदुष्टं दूषयन् वादी तत्समं दण्डमर्हति ॥
”इति ॥
तत्समं विवादसमम् । सभासदादिविदितसाक्षि-दूषणमेव ग्राह्यं न तु त्र्यवरादिसाक्षिभिः प्रति-पाद्यम् ॥
* ॥
अनवस्थापातादित्याह नारदः ।“सभासदां प्रसिद्धं यल्लोकसिद्धमथापि वा ।साक्षिणां दूषणं ग्राह्यमसाध्यं दोषवर्जनात् ॥
अन्यैश्च साक्षिभिः साध्ये दूषणे पूर्व्वसाक्षिणाम् ।अनवस्था भवेद्दोषस्तेषामप्यन्यसम्भवात् ॥
”असाध्यं साधनानर्हं सिद्धत्वाद्दोषवर्जनात् । अन-वस्थाविरहात्तस्मात् प्रसिद्धदूषणमेव ग्राह्यम् ॥
*दूषणमाह कात्यायनः ।“बालोऽज्ञानादसत्यात् स्त्री पापाभ्यासाच्चकूटकृत् ।विब्रूयात् बान्धवः स्नेहात् वैरनिर्यातनादरिः ॥
यः साक्षी नैव निर्द्दिष्टो नाभूतो नैव दर्शितः ।ब्रूयान्मिथ्येति तथ्यं वा दण्ड्यः सोऽपि नराधमः ॥
”यदुत्तरे येन क्रिया प्रदृश्यते तत्राह ।“मिथ्याक्रिया पूर्व्ववादे कारणे प्रतिवादिनः ।प्राङ्न्याये विधिसिद्धौ तु जयपत्रं विनिर्द्दिशेत् ॥
”मिथ्योत्तरे सति पूर्व्ववादे पूर्व्ववादिनि क्रियाप्रष्टव्या इति शेषः ॥
* ॥
तदानीं सन्धिमाहबृहस्पतिः ।“पूर्व्वोत्तरेऽभिलिखिते प्रक्रान्ते कार्य्यनिर्णये ।द्वयोरुत्तप्तयोः सन्धिः स्यादयःपिण्डयोरिव ॥
”उत्तापकारणमाह स एव ।“साक्षिसभ्यविकल्पस्तु भदेद्यत्रोभयोरपि ।दोलायमानौ यौ सन्धिं कुर्य्यातां तौ विच-क्षणौ ॥
”कात्यायनः ।“क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु ।लेख्ये च सति वादेषु न दिव्यं न च साक्षिणः ।समत्वं साक्षिणां यत्र दिव्यैस्तत्र विशोधयेत् ॥
”एतत् संशयानुच्छेदे बोध्यम् । याज्ञवल्क्यः ।“निह्नुते लिखितानेकमेकदेशे विभावितः ।दाप्यः सर्व्वान् नृपेणार्थान्न ग्राह्यस्त्वनिवेदितः ॥
”यो लिखितानेकं सुवर्णादिकं अपलपति स एक-द्रव्ये साक्ष्यादिभिर्व्विभावितः सन् सर्व्वान्दद्यात् । यद्येकदेशविभावनेन वादिनोऽवसाद-मवगम्य इदमपरं मया लेखयितुं विस्मृतमितिब्रूते स तस्मै भाषाकाले अनुपन्यस्तं न दद्यादे-तच्च न केवलं वाचनिकं किन्त्वेकदेशविभावना-द्विजानत एवास्य तदपलापे दुःशीलत्वावधार-णादपरांशेऽपि तथात्वमेव सम्भाव्यते सत्यविभा-वकस्यापि प्रक्रान्तविषये यथा वस्तुवादावधार-णादविभावितांशेऽपि सत्यवादित्वसम्भावनमि-त्येवं रूपतर्कपरम्परा सम्भावना प्रत्ययानुगृही-तास्मादेव योगीश्वरवचनात् सर्व्वं दापनीयमितिनिर्णयः । एवञ्च तर्कवाक्यानुसारेण निर्णयेक्रियमाणे वस्तुनोऽन्यथात्वेऽपि व्यवहारदर्शिनांन दोषः । तथा च गौतमेनापि न्यायाधिगमेतर्कोऽभ्युपायः तेनापि संगृह्य यथास्थानं गमये-दित्युक्त्वा तस्माद्राजाचार्य्यावनिन्द्यावित्युपसंहृ-तम् । एवञ्चास्य न्यायस्य वादिद्वयसाधारणत्वा-दुभयविषयत्वं वचनानाम् । अतएव कात्या-यनः ।“यद्येकदेशप्राप्तापि क्रिया विद्येत मानुषी ।सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥
”वदतां विवदतामित्यविशेषेण दर्शयति । पूर्णापिदैविकी समग्रविषयिकापि न ग्राह्या तेनैक-देशप्रतिपादिकया मानुष्या क्रियया समस्त-साध्यसिद्धिरिति । न च यद्येषां मध्ये एकमपिमया गृहीतं विभावयसि तदा सर्व्वमेव दातव्य-मिति । प्रतिज्ञाविषयकत्वमेकदेशविभावितत्वंवचनस्येति जोग्लोकमतानुसारिमैथिलमतंयुक्तमिति वाच्यं प्रतिज्ञाविषयत्वे ।“अनेकार्थाभियुक्तेन सर्व्वार्थव्यपलापिना ।विभावितैकदेशेन देयं यदभियुज्यते ॥
”इत्यनर्थकं प्रौढिवादेनाभियुज्य मानादधिक-स्यापि प्रतिज्ञातस्य दानावकश्य कत्वात् नग्राह्यस्त्वनिवेदित इत्यपि व्यर्थं अनिवेदितस्यापिप्रागज्ञातत्वेनाप्रतिज्ञातस्य सर्व्वथैव देयत्वात् ।न च विभावितैकदेशवचनं व्याप्यभूतैकदेश-विषयं तस्मिंस्तु प्रतिपादिते व्यापकैकदेशप्रतीति-रनुमानात् सम्भवतीति वाच्यं विभावितैक-देशानुमितव्यापकस्यापि न्यायतोऽग्राह्यत्वे सिद्धेन ग्राह्यस्त्वनिवेदित इत्यभिधानानुपपत्तेः ।एवञ्च ।“साध्यार्थांशे निगदिते साक्षिभिः सकलं भवेत्स्त्रीसङ्गे साहसे चौर्य्ये यत्साध्यं परिकल्पितम् ॥
”इति कात्यायनवचनम् ॥
तद्विषयप्रदर्शकं ऋणनिक्षेपाद्यपह्रवेऽपि योज्य-मिति । यत्तु ।“अनेकार्थाभियोगे तु यावत् संशोधयेद्धनी ।साक्षिभिस्तावदेवासौ लभते साधितं धनम् ॥
”तदृणाद्यनभिज्ञपुत्त्रादिविषयकम् । तथा हिनानाविधपित्रर्णाद्यभियुक्तेनाजानता नाहंजानामीति उत्तरवादिना साक्ष्यादिभिर्यावद्धनंप्रतिपादयति तावदेव पुत्त्रेण दातव्यम् एवमेवविश्वरूपजीमूतवाहनप्रभृतयः ॥
कात्यायनः ।“अनुमानाद्वरः साक्षी साक्षिभ्यो लिखितंगुरु ।अनिरुद्धा त्रिपुरुषी भुक्तिस्तेभ्यो गरीयसी ॥
”अनुमानं प्रत्यासङ्कलितं तदाह मनुः ।“वाह्यैर्व्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम् ।स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥
”स्वरो गद्गदादिः वर्णोऽस्वाभाविकः । इङ्गितंस्वेदवेपथुरोमाञ्चादि । आकारो विकृतः ।चक्षुषा कातरेण । चेष्टितेन स्थानत्यागादिना ।एषाञ्चान्यथासिद्धेर्दुर्निरूप्यत्वादेभ्यः साक्षीबलवान् इत्यर्थः ॥
* ॥
मुखनिरूप्यत्वे तु याज्ञ-वल्क्यः ।“देशाद्देशान्तरं याति सृक्कणी परिलेढि च ।ललाटं स्विद्यते चास्यं मुखं वैवर्ण्यमेति च ॥
परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते ।वाक् चक्षुः पूजयति नो तथौष्ठौ निर्भु जत्यपि ॥
स्वभावात् विकृतिं गच्छेन्मनोवाक्कायकर्म्मभिः ।अभियोगे च साक्ष्ये च स दुष्टः परिकीर्त्तितः ॥
”न परोक्तां वाचं प्रतिवचनेन पूजयति तथौष्ठ-चक्षुश्च परकीयवीक्षणेन निर्भुजति कुटिली-करोति यदा मनोवाक्कायकर्म्मभिः स्वभावात्पूर्व्वोक्तां यथायोग्यां विकृतिं गच्छेत्तदा स दुष्टइत्यर्थः । अतएव श्रीरामायणे ।“आकारश्छाद्यमानोऽपि न शक्योऽसौ निगू-हितुम् ।बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥
”आकारो देहधर्म्मः मुखाप्रसादवैवर्ण्यरूपः ।नारदः ।“सुदीर्घेणापि कालेन लिखितं सिद्धिमाप्नुयात् ।संजानन्नात्मनो लेख्यमजानंस्तत्तु लेखयेत् ॥
”सुदीर्घेणेति संस्कारोद्बोधकलिखनसत्त्वादयंचिरेणापि साक्ष्यं दातुं शक्नोतीत्यर्थः ॥
* ॥
लिपिज्ञं स्वहस्तेन लेखयेत् तदज्ञं परहस्तेनेत्याहव्यासः ।“अलिपिज्ञो ऋणी यः स्यात् लेखयेत् स्वमतन्तुसः ।साक्षी वा साक्षिणान्येन सर्व्वसाक्षिसमीपगः ॥
”बृहस्पतिः ।“मुषितं घातितं यच्च सीमायाश्च समन्ततः ।अकृतोऽपि भवेत् साक्षी ग्रामस्तत्र ने संशयः ॥
”अकृता अपि साक्षिणो भवन्तीत्याहतुर्मनु-कात्यायनौ ।“अन्ये पुनरनिर्द्दिष्टाः साक्षिणः समुदाहृताः ।ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् ॥
कार्य्येष्वभ्यन्तरो यः स्यादर्थिना प्रहितश्च यः ।कुल्याः कुलविवादेषु भवेयुस्तेऽपि साक्षिणः ॥
”स्मृतिः“दत्तादत्तेऽथ भृत्यानां स्वामिनां निर्गमे सति ।विक्रयादानसम्बन्धे क्रीत्वा धनमनिच्छति ॥
द्यूते समाह्वये चैव विवादे समुपस्थिते ।साक्षिणः साधनं प्रोक्तं न दिव्यं नच लेख्यकम् ॥
प्रक्रान्ते साहसे वापि पारुष्ये दण्डवाचिके ।बलोद्भवेषु कार्येषु साक्षिणो दिव्यमेव च ॥
”बृहस्पतिः ।“लेख्यं वा साक्षिणो वापि विवादे यस्य दूषिताः ।तस्य कार्य्यं न सिध्येत यावत्तन्न विशोधयेत् ॥
”तल्लख्यसाक्षिरूपप्रमाणम् ॥
* ॥
लेख्यशोधनमाहकात्यायनः ।“स्वहस्तलेख्यसन्देहे जीवतो वा मृतस्य च ।तत्स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः ॥
”तथा ।“समवेतैश्च यद्दष्टं वक्तव्यं तत्तथैव च ।विभिन्नेनैव कार्य्ये तु तद्वक्तव्यं पृथक् पृथक् ॥
नापृष्टैरनियुक्तैर्व्वा समं सत्यं प्रयत्नतः ।वक्तव्यं साक्षिभिः साक्ष्यं विवादस्थानमागतैः ॥
अनुद्विग्नेन चित्तेत दुष्टं सम्यग्विदा तु यत् ।प्रत्यक्षं तत् स्मृतं कार्य्यं साक्ष्यं साक्षीतुतद्वदेत् ॥
”नारदः ।“यः परार्थेऽपहरति स्वां वाचं पुरुषाधमः ।आत्मार्थे किं न कुर्य्यात् स पापी नरकनिर्भयः ॥
अर्था वै वाचि नियता वाङ्मूला वाग्विनिः-स्मृताः ।यस्तु तांस्तेनयेद्वाचं स सर्व्वस्तेयकृन्नरः ॥
”बौधायनः ।“पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।सर्व्वं भूम्यनृते हन्ति साक्ष्ये साक्षी मृषा वदन् ॥
”बृहस्पतिः ।“यस्य शेषं प्रतिज्ञातं साक्षिभिः प्रतिपादितम् ।स जयी स्यादन्यथा तु साध्यार्थं न समाप्नुयात् ॥
”याज्ञवल्क्यः ।“उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तराः ।द्बिगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्व्वसाक्षिणः ॥
”अन्यथा पूर्व्वविपरीतार्थप्रकारेण । कूटा अना-देयवचनाः । तथा ।“यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तमसावृतः ।स दाप्योऽष्टगुणं दण्डं ब्राह्मणञ्च विवासयेत् ॥
”त्वमन्येभ्यः साक्ष्यं श्रावयेतिवादिना प्रयुक्तो यःश्रावितः कारितद्वयात् पदसिद्धिः एवम्भूतोऽपिसभायां निगदकाले साक्ष्यं निह्नुते यस्तस्याष्ट-गुणो दण्डः ॥
* ॥
अथ लिखितम् ।तत्र बृहस्पतिः ।“षाण्माषिकेऽपि समये भ्रान्तिः संजायते यतः ।धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥
”नारदः ।“लेख्यं तु द्विविधं प्रोक्तं स्वहस्तान्यकृतं तथा ।असाक्षिकं साक्षिकच्च सिद्धिर्देशस्थितेस्तयोः ॥
मृतास्तु साक्षिणो यत्र धनिकर्णिकलेखकाः ।तदप्यपार्थकरणमृते त्वाधेः स्थिराश्रयात् ॥
दर्शितं प्रतिकालञ्च पाठितं स्मारितञ्च यत् ।लेख्यं सिध्यति सर्व्वत्र मृतेष्वपि च साक्षिषु ॥
लेख्ये देशान्तरस्थे च दग्धे दुर्लिखिते हृते ।सतस्तत्कालहरणमसतो द्रष्टृदर्शनम् ॥
छिन्नभिन्नकृतोन्मृष्टनष्टदुर्लिखितेषु च ।कर्त्तव्यमन्यलिखितं ह्येष लेख्यविधिः स्मृतः ॥
लेख्यं यच्चान्यनामाङ्कं हेत्वन्तरकृतम्भवेत् ।विप्रतिपत्तौ परीक्ष्यं तत् सम्बन्धागमहेतुभिः ॥
”स्वलेख्यमसाक्षिकमपि प्रमाणं अन्यद्बारा लेख्यंसाक्षिमदिति यथासंख्येनान्वयः । देशस्थिते-र्यस्मिन् देशे यादृशलेख्यस्थितिः प्रवर्त्तते तत्रतादृश्याः । तयोः स्वहस्तान्यहस्तकृतलेख्ययोः ।मृता इति साक्ष्यादौ मृते पुत्त्रादिसंस्थं लेख्य-पत्रं न सिध्यति । यद्याधिभोगोऽस्ति तदा तदपिप्रमाणमित्यर्थः ॥
* ॥
व्यक्तमाह कात्यायनः ।“यत्र पञ्चत्वमापन्नो लेखकः सह साक्षिभिः ।ऋणिको धनिकश्चैव नैनं पत्रं प्रमापयेत् ॥
”दर्शितमिति तथाविधमपि पूर्व्वमृणिकादि-सन्निधौ स्वयमन्येन वा दर्शितं स्मारितं वातदपि सिध्यतीत्यर्थः । सतो देशान्तरस्थपत्रस्यतत्कालहरणं पत्रानयनकालप्रतीक्षणम् । असतोदग्धादेः तदवलोककोपन्यासः । लेख्यमिति यत्पत्रं केनापि हेतुना अन्यनामचिह्रितं तत्रविप्रतिपत्तौ यन्नाम्ना पत्रं तेन सहास्य विश्वास-हेतुभूतसम्बन्धावगमरूपकारणैर्निर्णेतव्यमिति ।बृहस्पतिः ।“सुमृष्टशिशुभीतार्त्तैः स्त्रीमत्तव्यसनातुरैः ।निशापत्सु बलात्कारैः कृतं लेख्यं न सिध्यति ॥
”व्यासः ।“दासास्वतन्त्रबालैश्च स्त्रीकृतञ्चैव यद्भवेत् ।प्रमाणं नैव तल्लेख्यमिति शास्त्रविदो विदुः ॥
”मिताक्षरायां स्मृतिः ।“पूगश्रेणीगणादीनां या स्थितिः परकीर्त्तिता ।तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥
”पूगस्तु ।“समूहो बणिगादीनां पूगः स परिकीर्त्तितः ।”इति कात्यायनवचनोक्तः ।आदिशब्दात् विजातीयलाभः । तेन ग्रामनग-रादिः । श्रेणी तु सजातीयसमूहः ताम्बूलिक-कुबिन्दकर्म्मकारकादिः । गण एकक्रियार्थो-द्यतः । लेख्यस्य चाप्रामाण्यशङ्कायां लेख्य-ग्राहिणां प्रागुक्तशोधनप्रकारेण तन्निरसनीयंतत्पुत्त्रेण तु लेख्याधीनो भोग एव उपन्यास्योन तु लेख्यमुद्धरणीयम् । तदाह कात्यायनः ।“आहर्त्ता भुक्तियुक्तोऽपि लेख्यदोषान् विशो-धयेत् ।तत्सुतो भुक्तिदोषांस्तु लेख्यदोषांस्तु नाप्नुयात् ॥
”बृहस्पतिः ।उद्धरेल्लेख्यमाहर्त्ता तत्सुतो भुक्तिमेव हि ।अभियुक्तः प्रमीतश्चेत् तत्सुतोऽपि तदुद्धरेत् ॥
”अभियुक्त इति लेख्यस्य साधुत्वज्ञापनार्थं अभि-युक्ते लेख्यग्रहीतरि तदविज्ञाप्यैव मृते तत्पुत्त्रेणसाधुत्वं साध्यमित्यर्थः तत्साधनञ्च स्वहस्तलिख-नादिनेति प्रागुक्तम् ॥
* ॥
अथ भुक्तिः ।तत्र याज्ञवल्क्यः ।“पश्यतोऽब्रुवतो हानिर्भूमेर्व्विंशतिवार्षिकी ।परेण भुज्यमानाया धनस्य दशवार्षिकी ॥
”विवादमकुर्व्वतः समक्षं भूस्वामिनः परेणासपि-ण्डादिना भुज्यमानाया भूमेर्व्विंशतिवर्षनिर्वृत्तास्वत्वहानिः । अत्र लोकव्यवहारकर्म्मत्वाद्वर्ष-गणना सावनेन । तथा च विष्णुधर्म्मोत्तरम् ।“सत्राण्युपास्यान्यथ सावनेनलौक्यञ्च यत् स्यात् व्यवहारकर्म्म ॥
”तत्रैव ।“सावने च तथा मासि त्रिंशत् सूर्य्योदयाःस्मृताः ॥
”विशेषयति व्यासः ।“वर्षाणि विंशतिर्यस्य भूर्भुक्ता तु परैरिह ।सति राज्ञि समर्थस्य तस्य सेह न सिध्यति ॥
”समर्थस्य बालत्वादिदोषरहितस्य । धनस्य दश-वर्षनिर्वृत्ता स्वत्वहानिः । तथा च मनुनारदौ ।“यत्किञ्चिद्दशवर्षाणि सन्निधौ प्रेक्षते धनी ।भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति ॥
”यत्किञ्चित् धनजातं समक्षमेव प्रीत्यादिव्यति-रेकण परैर्दश वर्षाणि भुज्यमानं स्वामी तूष्णींप्रेक्षते मा भुज्यतामिति न प्रतिसिध्यति नासौतल्लब्धुं योग्यो भवति तत्र तस्य स्वाम्यं नश्यती-त्यर्थः । गोतमः । अजडापौगण्डधनं दशवर्ष-भुक्तं परैः सन्निधौ भोक्तुः इति । जडो विकले-न्द्रियः पौगण्डः पूतोऽनुत्पन्नश्मश्रुर्गण्डः कपोलोयस्य सः । तदाह नारदः ।“बाल आषोडशाद्वर्षात् पौगण्डश्चापिशब्द्यते ॥
”अत्रापौगण्डः प्रकीर्त्तित इति कुल्लूकभट्टेनलिखितम् । तत्पाठेऽपि अपौगण्डस्तु पौगण्डःइति द्विरूपकोषादविरुद्धः । तस्माद्याज्ञ-वल्क्यादिवचनाद्विंशतिवर्षदशवर्षादिकालैर्भोगएव स्वत्वं जनयति । यथा । कालप्राप्तिबलेनबीजमङ्कुरं जनयति तरवश्च कुसुममितिस्वामिना चापरित्यक्तेऽपि शास्त्रोक्तकालीन-भोगात् स्वाम्यमन्यस्य भवति । यथा जयेनराज्ञः परराष्ट्रधने इति । एवमेव श्रीकरबाल-कजोग्लोकभवदेवभट्टशूलपाणिकुल्लूकभट्टचण्डे-श्वरमन्त्रिनव्यवर्द्धमानोपाध्यायप्रभृतयः व्यव-हारोऽपि तादृगेव । एतद्विरुद्धवचनान्यथाव्याख्येयानि ॥
* ॥
तत्रोपेक्षया स्वत्वहानिं भुक्त्याच स्वत्वमाह नारदः ।“भुज्यमानान् परैरर्थान् यस्तान्मोहादुपेक्षते ।स्रमक्षं तिष्ठतोऽप्यस्य तान् भुक्तिः कुरुते वशे ॥
”व्यक्तमाह बृहस्पतिः ।“स्थावरं सिद्धिमाप्नोति भुक्त्या हानिमुपेक्षया ।”उपेक्षया क्षमया तत्कारणञ्च स्वामिनः सुशी-लत्वमहेच्छत्वदयालुत्वादि । एवञ्च विंशतिवर्षात्पूर्व्वं स्वकृतिसाध्यकर्षणपालनाद्यैरुत्पन्नद्रव्य एवस्वत्वम् । एवं दशवर्षात् पूर्व्वं स्वकृतिसाध्यदोहन-पालनाद्यैरुत्पन्नदुग्धादावेव स्वत्वं तत्तत्कालपर-तस्तु भूमौ गवादिधनेऽपि स्वत्वमिति । पूर्व्वंतत्तन्नाशकभोगे तु चौर्य्यदोषो भवत्येव । भोगेतु स्वत्वहानिमाध्यादीनां व्यावर्त्तयति ॥
* ॥
पश्यतोऽब्रुवत इत्यभिधाय याज्ञवल्क्यः ।“आधिसीमोपनिक्षेपजडबालधनैर्विना ।तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरिह ॥
”आधिर्व्वन्धकद्रव्यम् । उपनिक्षेपस्तु वासनस्थ-मनाख्याय समुद्रं यन्निधीयते इति नारदोक्तः ।वासनं निक्षेपाधारभूतं सम्पुटादिकम् । समुद्रंग्रन्थ्यादियुतम् । जडो बुद्धिविकलः । बालःअप्राप्तषोडशवर्षः । उपनिधिः प्रीत्या भोगार्थ-मर्पितः । ततश्च आध्यादिभिर्ज्जडादिधनैश्चविनान्यानि धनानि उक्तभोगकाले स्वामिनोनश्यन्ति एतानि तु स्वामिनो न नश्यन्ति न वाभोक्तुर्भवन्ति । मिताक्षरायां स्मृतिः ।“द्बारमार्गक्रियाभोगजलवाहादिषु क्रिया ।भुक्तिरेवं तु गुर्व्वी स्यान्न दिव्यं न च साक्षिणः ॥
”याज्ञवल्क्यः ।“आगमो ह्यधिको भोगाद्बिना पूर्व्वक्रमागतात् ।नागमः कारणं तत्र भुक्तिः स्तोकापि यत्र न ॥
आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् ।न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥
योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तमुद्धरेत् ।न तत्र कारणं भुक्तिरागमेन विना कृता ॥
”भूम्यादावागमः पूर्व्वपुरुषक्रमानागतभोगाद्-बलवान् अतः क्रमागतभोग आगमाद्बलवान् ।तथा च बृहस्पतिः ।“अनुमानात् गुरुः साक्षी साक्षिभ्यो लिखितंगुरु ।अव्याहता त्रिपुरुषी भुक्तिस्तेभ्यो गरीयसी ॥
”त्रिपुरुषमोगमाह व्यासः ।“प्रपितामहेन यद्भुक्तं तत्पुत्त्रेण विना च तम् ।तौ विना यस्य पित्रा च तस्य भोगस्त्रिपूरुषः ॥
पिता पितामहो यस्य जीवेच्च प्रपितामहः ।त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपूरुषः ॥
”आगमोऽपि बलवान्न भवति यत्र स्तोकापिभुक्तिर्नास्ति । तथा च नारदः ।“विद्यमानेऽपि लिखिते जीवत्स्वपि च साक्षिषु ।विशेषतः स्थावराणां यन्न भुक्तं न तत् स्थिरम् ॥
”इति दीपकलिका ॥
यत्र वादिनौ स्वस्वागमबलप्रवृत्तौ आगमयोश्चपूर्व्वापरभावो नास्ति तत्र यस्य भुक्तिस्तस्यागमोबलीयान् न त्वन्यस्येत्यर्थः इति मिताक्षरा ॥
अर्थाद्यत्रागमपौर्व्वापर्य्यनिश्चयस्तत्र ।“सर्व्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया ।आधौ प्रतिग्रहे क्रीते पूर्व्वा तु बलवत्तरा ॥
”इति याज्ञवल्क्यवचनान्निर्णयः ।आगमस्त्विति आ सम्यक् गम्यते प्राप्यते स्वीक्रि-यते येन स आगमः क्रयादिरिति व्यवहार-मातृका ॥
आगमः साक्षिपत्रादिकमिति दीप-कलिका ॥
आगमो धनोपार्ज्जनोपायः क्रयादि-रिति मैथिलाः ॥
तत्रान्येनाभियुक्तस्तत्कूटता-मुद्धरेत् तत्पुत्त्रपौत्त्रौ नागममुद्धरेतां किन्तु भुक्ति-रेव । तत्र प्रमाणं विशेषयति बृहस्पतिः ।“आहर्त्ता शोधयेत् भुक्तिमागमञ्चापि संसदि ।तत्सुतो भुक्तिमेवैकां पौत्त्रादिषु न किञ्चन ॥
”इदं शूलपाणिधृतं तत्पुत्त्रादिर्न किञ्चनेतिमैथिलधृतम् । आहर्त्ता अर्जनकर्त्ता अत्र पुत्त्रस्यमुक्तिशोधनमात्रम् ॥
* ॥
भुक्तिशोधनमाहतु-र्व्यासकात्यायनौ ।“सागमो दीर्घकालश्च निश्छिद्रोऽन्यरवोज्झितः ।प्रत्यर्थिसन्निधानञ्च भोगः पञ्चाङ्ग इष्यते ॥
”इष्यते प्रमाणत्वेन । सागमः क्रयादियुक्तः ।एष च भूमिविषयकविंशतिवर्षधनविषयकदश-वर्षान्यूनकालभोगपरः । योऽभियुक्त इत्यादियो भोगे क्रियमाणे परेणाभियुक्तः सन् परेतोमृतः स्यान्नागममुद्धृतवान् तदा तत्पुत्त्रादि-रागममुद्धरेत् । तथा च नारदः ।“अथारूढविवादस्य प्रेतस्याव्यवहारिणः ।पुत्रेण सोऽर्थः संशोध्यो न तु भोगो निवर्त्तयेत् ॥
”विवादे सति शेषः । भोगः केवलभोगः । तथाच स एव । आदौ तु कारणं दानं मध्येभुक्तिस्तु सागमा इति एष सविवादभोगःषष्ट्यब्देतरपरः । तथाविधभोगस्यागमं विनापिप्रामाण्यात् । तथा व्यासः ।“वर्षाणि विंशतिं भुक्त्वा स्वामिना व्याहता सती ।भुक्तिः सा पौरुषी भूमेर्द्विगुणा तु द्विपौरुषी ।त्रिपौरुषी तु त्रिगुणा न तत्रान्वेस्य आगमः ॥
”एतद्वचनमसमक्षभोगविषयकमिति समक्ष-विंशतिवर्षाभोगविषयकवचनेनाविरोधः । एता-दृक् स्मृत्युक्तकाल एव । कात्यायनः ।“स्मार्त्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते ।अस्मार्त्ते त्वागमाभावात् क्रमात्त्रिपुरुषागता ॥
”षष्ठिवर्षैकपुरुषभुक्तौ त्रिपुरुषभुक्तिव्यपदेशस्यफलमाह न तत्रेत्यादि । अतएव नारदः ।“अन्यायेन तु यद्भुक्तं पित्रा पूर्व्वतनैस्त्रिभिः ।न तत् शक्यमपाकर्त्तुं क्रमात्त्रिपुरुषागतम् ॥
”अन्यायेनेत्यत्रानागममिति शूलपाणिधृतपाठः ।तुरप्यर्थः । पित्रा सह पितरमादाय त्रिभिरि-त्यर्थः । यत्तु ।“अनागमन्तु यो भुङ्क्ते बहून्यब्दशतानि च ।चौरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥
”इति तस्य वचनं दण्डविधायकं न तन्मुख्यार्थपरंधर्म्मशास्त्रविरोधात् । तदाह स एव ।“यत्र विप्रतिपत्तिः स्यात् धर्म्मशास्त्रार्थ-शास्त्रयोः ।अर्थशास्त्रार्थमुत्सृज्य धर्म्मशास्त्रार्थमाचरेत् ॥
”एवमेव शूलपाण्युपाध्यायाः । वस्तुतस्तु अना-गममिति दण्डविधायकवचनं स्त्रीधननृपधन-परम् ।“स्त्रीधनञ्च नृपेन्द्राणां न कदाचन जीर्य्यति ।अनागमं भुज्यमानमपि वर्षशतैरपि ॥
”इति स्वत्वनिषेधकवचनान्तरैकवाक्यत्वात् । तत्रविप्रतिपत्तिः स्यादिति वचनस्याप्येतदुदाहर-णम् । यत्रैकस्य जयेऽवधार्य्यमाणे मित्रलब्धि-रपरस्य जयेऽवधार्य्यमाणे धर्म्मलब्धिस्तत्र ।“हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्व्वरायतः ।अतो यतेत तत्प्राप्ताविति वेदविदां मतम् ॥
”इति याज्ञवल्क्योक्तार्थशास्त्रार्थमुत्सृज्य क्रोध-लोभविवर्ज्जित इति धर्म्मशास्त्रार्थमवलम्ब्यव्यवहारं पश्येत् । अतएव सभ्येनावश्यवक्तव्यंधर्म्मार्थसहितं वचः । इति कात्यायनोक्तम् ।भवदेवभट्टास्तु व्यासवचनं प्रतिवादिनोऽसन्नि-धाने पुरुषैकद्वयभोगाभिप्रायम् । त्रैपुरुषभोगस्यतत्रैव प्रमाणत्वादित्याहुः ॥
अथ भुक्तिस्वत्वापवादः ।बृहस्पतिः ।“भुक्तिस्त्रैपुरुषी सिध्येदपरेषां न संशयः ।अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति ॥
अस्वामिना च तद्भुक्तं गृहक्षेत्रापणादिकम् ।सुहृद्बन्धुसकुल्यस्य न तद्भोगेन हीयते ॥
विवाह्यश्रोत्रियैर्भुक्तं राज्ञामात्यैस्तथैव च ।सुदीर्घेणापि कालेन तेषां तत्तु न सिध्यति ॥
”आपणो विक्रयस्थानं विवाह्यो जामाता ॥
* ॥
अथ युक्तिः ।नारदः ।“उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिश्चघातकः ।केशकेशि गृहीतश्च युगपत् पारदारिकः ॥
कुद्दालपाणिर्विज्ञेयः सेतुभेत्ता समीपगः ।तथा कुठारहस्तश्च वनच्छेत्ता प्रकीर्त्तितः ॥
प्रत्यक्षचिह्रैर्विज्ञेयो दण्डपारुष्यकृन्नरः ।असाक्षिप्रत्यया ह्येते पारुष्ये तु परीक्षणम् ॥
”प्रत्यक्षचिह्रैः रुधिराक्तखड्गादिभिः । पारुष्येवाक्पारुष्ये । शङ्खः । लोप्तहस्तश्च चौर इति ।नारदः ।“अभीक्ष्णं देश्यमानोऽपि प्रतिहन्यान्न तद्बचः ।त्रिचतुःपञ्चकृत्वो वा परतोऽर्थं तमावहेत् ॥
”यदा धनिकेनाधमर्णिकस्त्रिचतुःपञ्चकृत्वो वा त्वंमे ऋणं धारयसीति पुनः पुनर्देश्यमानोऽपि नतद्बाक्यं प्रतिहन्ति तदोत्तरकालमनेनाभ्युपगतो-ऽयमर्थ इत्यवधर्य्य तमर्थमृणिकाय दापये-दित्यर्थः ॥
* ॥
अथ शपथः ।नारदः ।“युक्तिष्वप्यवसन्नासु शपथैरेनमर्द्दयेत् ।अर्थकालवलापेक्षमग्न्यम्बुसुकृतादिभिः ॥
”एनं विचार्य्यमाणमर्थं अर्द्दयेत् पीडयेन्निर्णये-दित्यर्थः । अर्थस्य विवादास्पदस्य बलं बह्वल्प-भावः कालस्य च बलं पुण्यापुण्यत्वं तदपेक्षंयथा स्यादित्यर्थः । भूदूर्व्वाकरत्वस्य पुत्त्रादि-शिरःस्पर्शस्य चाग्रे दर्शनीयत्वात् । अत्र मयै-तत् कृतं न वेति प्रतिज्ञामुच्चार्य्याग्नौ जले वाहस्तं प्रक्षिपेत् । एतन्मिथ्यात्वे मम सुकृतंनश्येदिति वा ब्रूयात् । न त्वग्निपरीक्षां जल-परीक्षां वा कुर्य्यात् इत्यभिप्रायवर्णनं युक्तं तस्यामहाभियोगविषयकत्वेन शपथसमभिव्याहारा-नर्हत्वात् । सुकृतादिभिरित्यादिना दूर्व्वासत्या-द्युपग्रहः । तथा च विष्णुः ।“सर्व्वष्ववार्थजातेषु मूल्यं स्वर्णं प्रकल्पयेत् ॥
”तत्र कृष्णलोने शूद्रं दूर्व्वाकरं शापयेत् ।द्विकृष्णलोने तिलकरं त्रिकृष्णलोने जलकरंचतुःकृष्णलोने स्वर्णकरं पञ्चकृष्णलोने सीतो-द्धृतमहीकरं सुवर्णार्द्धोने कोशो देयः शूद्रस्ययथासमये विहिता क्रिया तथा द्विगुणेऽर्थेराजन्यस्य त्रिगुणेऽर्थे वैश्यस्य चतुर्गुणेऽर्थेब्राह्मणस्येति । कृष्णलः काञ्चनरत्तिका तन्-मूल्यादूने कृष्णलोने । एवमन्यत्र । मनुः ।“सत्येन शापयेद्विप्रं क्षत्त्रियं वाहनायुधैः ।गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्व्वैस्तु पातकैः ।पुत्त्रदारस्य वाप्येवं शिरांसि स्पर्शयेत् पृथक् ॥
”ब्राह्मणेन मयैतत् कृतं न कृतं वेति प्रतिज्ञा-मुच्चार्य्य सत्यमिति वक्तव्यम् । तथैव क्षत्त्रियेणवाहनायुधं स्प्रष्टव्यम् । तथैव वैश्येन गोबीज-काञ्चनानामन्यतमं स्प्रष्टव्यम् । शूद्रेण तु पूर्व्वोक्तंसर्व्वमेव स्प्रष्टव्यं तेषां वृथाकृतस्पर्शानां पातक-हेतुत्वात् पातकशब्देन निर्द्वेशः । हलायुधो-ऽप्येवम् ॥
* ॥
दैवक्रियाविषयमाह नारदः ।“अरण्ये निर्ज्जने रात्रावन्तर्व्वेश्मनि साहसे ।न्यासापहरणे चैव दिव्या सम्भवति क्रिया ॥
”बृहस्पतिः ।“देवब्राह्मणपादांश्च पुत्त्रदारशिरांसि च ।एते तु शपथाः प्रोक्ता मनुना स्वल्पकारणे ।साहसेष्वभिशापे च दिव्यानि तु विशोधनम् ॥
”अत्र शपथदिव्ययोः पृथक्त्वप्रतीतेः । शपथे नदिव्यधर्म्माः किन्तु वैधे कर्म्मणि तत्र शौचार्थंस्नानाचमनादिमात्रं कार्य्यम् । दिव्यानि तुदिव्यतत्त्वे कथितानि नात्र लिखितानि । अत्रा-भियुक्तेन शपथः कर्त्तव्य इत्युत्सर्गः ॥
* ॥
उभ-येच्छयाभियोक्तापीत्याह नारदः ।“अभियोक्ता शिरोवर्त्ती सर्व्वत्रैव प्रकीर्त्तितः ।इच्छयान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः ॥
”इतरः शपथकर्त्तृभिन्नः । तथा कात्यायनः ।“आचतुर्दशकादह्नो यस्य नो राजदैविकम् ।व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः ॥
”व्यसनमापत् । घोरमतिपीडाकरम् । तथा चकोषाधिकारे यस्य पश्येदित्यनुवृत्तौ विष्णुः ।“रोगोऽग्निर्ज्ञातिमरणं राजातङ्कामथापिवा ।तमशुद्धं विजानीयात् तथा शुद्धं विपर्य्ययात् ॥
”कात्यायनः ।“तस्यैकस्य न सर्व्वस्य जनस्य यदि सम्भवेत् ।रोगोऽग्निर्ज्ञातिमरणमृणं दद्यात् दमञ्च सः ॥
ज्वरातिसारविस्फोटगूढास्थिपरिपीडनम् ।नेत्ररुग्गलरोगश्च तथोन्मादः प्रजायते ।शिरोरुग्गुदभङ्गश्च दैविका व्याधयो नृणाम् ॥
”तस्यैकस्येति न तु देशव्यापकमरणादिः । मनुः ।“न वृथा शपथं कुर्य्यात् स्वल्पेऽप्यर्थे नरो बुधः ।वृथा हि शपथं कुर्व्वन् प्रेत्य चेह च नश्यति ॥
कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने ।ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥
”कामिनीष्विति रहसि कामिनीसन्तोषार्थं वृथा-शपथे एवं विवाहसिद्ध्यर्थं गोग्रासार्थं आवश्यक-होमेन्धनार्थं ब्राह्मणरक्षार्थमङ्कीकृतधनादौ ।यमः ।“वृथा तु शपथं कृत्वा कीटस्य वधसंयुतम् ।अनृतेन च युज्येत वधेन च तथा नरः ।तस्मान्न शपथं कुर्य्यान्नरो मिथ्यावधेप्सितम् ॥
”कीटस्येति प्राणिमात्रोपलक्षणं तद्बधपापेनवृथाशपथकर्त्ता युज्यत इत्यर्थः ॥
अथ निर्णयः ।तत्र नारदः ।“यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयीभवेत् ।अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः ॥
स्वयमभ्युपपन्नोऽपि स्वचर्य्यावसितोऽपि सन् ।क्रियावसन्नोऽप्यर्हेत परं सभ्यावधारणम् ।सभ्यैरवधृतः पश्चात् स शास्यः शास्त्रमार्गतः ॥
”यस्य वादिनः प्रतिवादिनो वा साक्षिण इत्युप-लक्षणम् । साक्षिलिखितभुक्तिशपथानां मध्ये-ऽन्यतमप्रमाणं यस्य प्रतिज्ञायाः सत्यत्वप्रति-पादकं स एव जयी अन्यथा पराजित इतिप्रत्येतव्यम् । स्वयमभ्युपपन्नः आत्मनैवाङ्गीकृत-स्वपराजयः स्वचर्य्यावसितः कम्पस्वेदवैवर्ण्या-दिना पराजितत्वेनावधृतः । क्रियावसन्नःसाक्ष्यादिना प्राप्तपराजयः । परमनन्तरं सभ्या-वधारणमर्हेत सभासदां मिलितानामयं परा-जित इति निर्णयमर्हेत । आकाङ्क्षेत स शास्त्र-विधिना शास्यः ॥
* ॥
निर्णयस्य फलमाहबृहस्पतिः ।“प्रतिज्ञाभावनाद्वादी प्राड्विवाकादिपूजनात् ।जयपत्रस्य चादानात् जयी लोके निगद्यते ॥
”जयपत्रस्य लिखनप्रकारमाह स एव ।“यद्वृत्तं व्यवहारेषु पूर्व्वपक्षोत्तरादिकम् ।क्रियावधारणोपेतं जयपत्रेऽखिलं लिखेत् ॥
पूर्व्वेणोक्तक्रियायुक्तं निर्णयान्तं यदा नृपः ।पदद्याज्जयिने पत्रं जयपत्रं तदुच्यते ॥
”कात्यायनः ।“अर्थिप्रत्यर्थि वाक्यानि प्रतिसाक्षिवचस्तथा ।निर्णयश्च तथा तस्य यथा चावधृतं स्वयम् ॥
एतद्यथाक्षरं लेख्यं यथापूर्व्वं निवेशयेत् ।सभासदश्च ये तत्र धर्म्मशास्त्रविदस्तथा ॥
”ततश्च भाषोत्तरे क्रिया च पत्रसाक्ष्यादिकंनिर्णयो जयपराजयावधारणं निर्णयकालाव-स्थितमध्यस्थाश्चेत्यादिकं सर्व्वं लेखनीयं निरू-पणस्य सम्यक्त्वप्रदर्शनार्थम् । तथाहि भाषो-त्तरलिखनं हेत्वन्तरेण पुनर्न्यायप्रत्यवस्थान-निषेधार्थं नहि न गृहीतमिति मिथ्योत्तरेणपराजितस्य पुनः परिशोधितं मयेति प्रत्यव-स्थानं सम्भवति । प्रमाणलिखनन्तु पुनः प्रमा-णान्तरेण न्यायनिषेधार्थम् । तदाह कात्या-यनः ।“क्रियां बलवतीं त्यक्त्वा दुर्ब्बलां योऽवलम्बते ।स जयेऽवधृते सभ्यैः पुनस्तां नाप्नुयात् क्रियाम् ॥
बिर्णीते व्यवहारे तु प्रमाणमफलं भवेत् ।लिखितं साक्षिणो वापि पूर्व्वमावेदितं न चेत् ॥
यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः ।निर्णीतव्यवहाराणां प्रमाणमफलन्तथा ॥
”निर्णयोत्तरकृत्यमाह मनुः ।“अर्थेऽपव्ययमानन्तु कारणेन विभावितम् ।दापयेद्धनिकस्यार्थं दण्डलेशञ्च शक्तितः ॥
”अपव्ययमान अपलपन्तं कारणेन साक्ष्यादि-प्रमाणेन । याज्ञवल्क्यः ।“ज्ञात्वापराधं देशञ्च कालं बलमथापि वा ।वयः कर्म्म च वित्तञ्च दण्डं दण्डेषु दापयेत् ॥
”मनुः ।“तीरितं चानुशिष्टञ्च यत्र क्वचन सम्भवेत् ।कृतं तद्धर्म्मतो विद्यात् न तत् भूयो निव-र्त्तयेत् ॥
”अनुशिष्टं साक्ष्यादिनिर्णीतं अतएव तीरितंप्राड्विवाकादिभिः समापितम् । तद्बिवादपदंपुनर्न निवर्त्तयेदित्यर्थः । यत्र तीरितानुशिष्ट-योरप्यधर्म्मकृतत्वं प्रत्यवतिष्ठते । तत्र पुनर्न्याय-दर्शनमाह नारदः ।“तीरितं चानुशिष्टञ्च यो मन्येत विधर्म्मतः ।द्विगुणं दण्डमादाय तत् कार्य्यं पुनरुद्धरेत् ॥
”असद्बिचारे तु विचारान्तरमाह स एव ।“असाक्षिकन्तु यद्दृष्टं विमार्गेण च तीरितम् ।असम्मतमतैर्दृष्टं पुनर्द्दर्शनमर्हति ॥
”असाक्षिकमित्यप्रमाणकोपलक्षणम् । याज्ञ-वल्क्यः ।“दुर्दृष्टांस्तु पुनर्दृष्टा व्यवहारान्नृपेण तु ।सभ्याः सजयिनो दण्ड्या विवादाद्द्विगुणं दमम् ॥
साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः ।सुचर्य्यावसितानान्तु नास्ति पौनर्भवो विधिः ॥
”साक्षिवचनेन सभ्यावधारणेन च प्राप्ताव-सादानां पुनर्न्यायदर्शनम् । स्वव्यापारेण विरुद्ध-भाषदिना प्राप्तावसादानान्तु नास्ति पुनर्न्यायः ।बृहस्पतिरपि ।“पलायनानुत्तरत्वादन्यपक्षाश्रयेण च ।हीनस्य गृह्यते वादो न स्ववाक्यजितस्य च ॥
”मनुः ।“बलाद्दत्तं बलाद्भुक्तं बलाद्वा लिखितञ्च यत् ।सर्व्वान् बलकृतानर्थानकृतान् मनुरब्रवीत् ॥
”याज्ञवल्क्यः ।“बलोपाधिविनिर्वृत्तान् जवहारान्निवर्त्तयेत् ।स्त्रीनक्तमन्तरागारबहिर्ग्रामकृतांस्तथा ॥
मत्तोन्मत्तार्त्तव्यसनिबालभीतादियोजितः ।असम्बन्धकृतश्चैव व्यवहारो न सिध्यति ॥
”उपाधिश्छलमिति शूलपाणिः । उपाधिर्भयादि-रिति विज्ञानेश्वरः । तन्मते भीतादियोजितइत्युक्तवचनेन पौनरुक्तम् । वहिर्ग्रामः वहि-र्देशः । मत्तो मद्यादिना । उन्मत्तो वाता-दिना । व्यसनी द्यूताद्यासक्तः । असम्बन्धोवादिनियुक्तव्यतिरिक्त उदासीनः । आदिपदाद-स्वतन्त्रदासपुत्त्रादेर्ग्रहणम् । तथा च नारदः ।“स्वतन्त्रोऽपि हि यत् कार्य्यं कुर्य्याच्चाप्रकृतिंगतः ।तदप्यकृतमेवाहुरस्वातन्त्रस्य हेतुतः ॥
कामक्रोधाभिभूता वा भयव्यसनपीडिताः ।रागद्वेषपरीताश्च ज्ञेयास्त्वप्रकृतिं गताः ॥
तथा दासकृतं कार्य्यमकृतं परिचक्षतेअन्यत्र स्वामिसन्देशान्न दासः प्रभुरात्मनः ॥
पुत्त्रेण च कृतं कार्य्यं यत् स्यादच्छन्दतः पितुः ।तदप्यक्र्तमेवाहुर्द्दासपुत्त्रौ च तौ समौ ॥
”एतच्च कुटुम्बभरणातिरिक्तविषयम् ।“कुटुम्बार्थेऽभ्यधीनोऽपि व्यवहारं यमाचरेत् ।स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥
”इति मनुवचनात् कुटुम्बमवश्यभरणीयम् ।अभ्यधीनः परतन्त्रः पुत्त्रदासादिः । व्यवहार-मृणादिकं ज्यायान् स्वतन्त्रः न विचालयेत् अनु-मन्येत । तथा च नारदः ।“स्वातन्त्य्रन्तु स्मृतं ज्येष्ठे ज्यैष्ठं गुणवयःकृतम् ।अस्वतन्त्राः प्रजाः सर्व्वाः स्वतन्त्रः पृथिवीपतिः ॥
अस्वतन्त्रः स्मृतः शिष्य आचार्य्यस्य स्वतन्त्रता ।अस्वतन्त्राः स्त्रियः सर्व्वाः पुत्त्रा दासाः परि-ग्रहाः ॥
स्वतन्त्रस्तत्र तु गृही यस्य तत् स्यात् क्रमा-गतम् ।गर्भस्थैः सदृशो ज्ञेयः अष्टमाद्वत्सरात् शिशुः ॥
बाल आषोडशाद्वर्षात् पौगण्डोऽपि निगद्यते ।परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते ॥
जीवतोर्न स्वतन्त्रः स्याज्जरयापि समन्वितः ।तयोरपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ।अभावे बीजिनो माता तदभावे च पूर्व्वजः ॥
”परिग्रहा अनुजीविप्रभृतयः । तथा च बृह-स्पतिः ।“पितृव्यभ्रातृपुत्त्रस्त्रीदासशिष्यानुजीविभिः ।यद्गृहीतं कुटुम्बार्थे तद्गृही दातुमर्हति ॥
”कात्यायनः ।“कुटुम्बार्थमशक्तेन गृहीतं व्याधितेन वा ।उपप्लवनिमित्तञ्च विद्यादापत्कृतन्तु तत् ॥
कन्यावैवाहिकञ्चैव प्रेतकार्य्ये च यत् कृतम् ।एतत् सर्व्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ॥
”प्रभोरिति कर्त्तरि षष्ठी तेन प्रभुणा दातव्य-मिति रत्नाकरः ॥
बृहस्पतिः ।“यः स्वामिना नियुक्तोऽपि धनाय व्ययपालने ।कुसीदकृषिबाणिज्ये निसृष्टार्थस्तु स स्मृतः ॥
प्रमाणं तत् कृतं सर्व्वं लाभालाभव्ययोदयम् ।स्वदेशे वा विदेशे वा स्वामी तन्न विसंवदेत् ॥
”इति श्रीरघुनन्दनभट्टाचार्य्यविरचितं व्यवहार-तत्त्वं समाप्तम् ॥
* ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
