| YouTube Channel

व्यवसायी (vyavasAyI)

 
शब्दकल्पद्रुमः
Sanskrit
व्यवसायी, [न्] त्रि, (व्यवसायोऽस्यास्तीति ।इनिः ।) व्यवसायविशिष्टः बाणिज्यकारकः ।यथा, --“कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।को विदेशः सविद्यानां कःपरः प्रियवादिनाम्
”इति चाणक्यशतकम्
अनुष्ठाता यथा, --“अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणोवराः ।धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यव-सायिनः
”इति मानवे १२ अध्यायः
अज्ञेभ्य इति उभयोः प्रशस्यत्वे सति अन्य-तरस्यातिशयवि क्षया श्रेष्ठतेतीष्टिनोबिधाना-दीषदध्ययना अज्ञाः तेभ्यः समग्रग्रन्थाध्येतारःश्रेष्ठाः तेभ्योऽधीतग्रन्थधारणसमर्थाः श्रेष्ठाः ।तेन ग्रन्थिनः पथितविस्मृतग्रन्था बोद्धव्याः ।धारिभ्योऽधीतग्रन्थार्थज्ञाः प्रकृष्टाः तेभ्यो-ऽनुष्ठातारः इति तट्टीकायां कुल्लूकभट्टः