| YouTube Channel

व्यलीकं (vyalIkaM)

 
शब्दकल्पद्रुमः
Sanskrit
व्यलीकं,
क्ली,
(विशेषेण अलतीति वि + अल +“अलीकादयश्च ।” उणा० २५ इतिकीकन्प्रत्ययेन निपातनात् साधुः ।) पीडार्थः ।इत्यमरः
गतिविपर्य्ययः कामजापराधः ।इति तट्टीकायां भरतः
यथा, --“कृत्यं नैव विजानाति परेणापकृतं क्वचित् ।कृत्यञ्च संस्मरेदेतदसत्यञ्च जल्पति
व्यलीकेषु निवृत्तो यः पर्य्येति कृतनिश्चयः ।नित्यञ्च धृतिमान् किञ्चित् परोक्षेऽपि चक्षिपेत्
ऋतुकालेऽभिगच्छेत अपत्यार्थं स्वकां स्त्रियम् ।ईदृशास्तु नरा भद्रे मम कर्म्मपरायणाः
”इति वाराहे योनिगर्भमोक्षणनामाध्यायः
अप्रियम् (यथा, महाभारते ।“न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन ।व्यलीकं कृतपूर्व्वं वै प्राज्ञेनामितबुद्धिना
”)अकार्य्यम् वैलक्ष्यम् इति मेदिनी
(यथा, किराते १९ ।“यस्मिन्ननैश्वर्य्यकृतव्यलीकःपराभवं प्राप्त इवान्तकोऽपि ।धुन्वन्धनुः कस्य रणे कुर्य्यात्मनो भयैकप्रवणं भीष्मः
”)अपराधः इति हेमचन्द्रः
(यथा, शिशु-पालवधे ८५ ।“सुदृशः सरसव्यलीकतप्त-स्तरसा श्लिष्टवतः सयौवनोष्मा
”)प्रतारणा इति हलायुधः
(दुःखम् इतिवैजयन्ती
यथा, कुमारे २५ ।“दिग् दक्षिणा गन्धवर्ह मुखेनव्यलीकनिश्वासमिवोत्ससर्ज्ज
”)तद्बति, त्रि
(यथा, भागवते २२ ।“यद्युत्तमःश्लोक भवान् ममेरितंवचो व्यलीकं सुरवर्य्य मन्यते ।करोन्वृतं तन्न भवेत् प्रलम्भनंपदं तृतीयं कुरु शीर्ष्णि मे निजम्
”)