| YouTube Channel

व्यथकः (vyathakaH)

 
शब्दकल्पद्रुमः
Sanskrit
व्यथकः, त्रि, (व्यथयति पीडयतीति व्यथ +णिच् + ण्वुल् ।) व्यथाकारी यथा, --“अव्युत्थानं व्यथकस्तु स्यान्मर्मस्पृगरुन्तुदः
”इति हेमचन्द्रः
(यथा, किराते ।“परिणामसुखे गरीयसिव्यथकेऽस्मिन् वचसि क्षतौजसाम् ।अतिवीर्य्यवतीव भेषजेबहुरल्पीयसि दृश्यते गुणः
”)