| YouTube Channel

व्यथ (vyatha)

 
Wilson
English
व्यथ r. 1st cl. (व्यथते)
1 To fear.
2 To be disquieted or unhappy.
3 To suffer pain.
Monier Williams Cologne
English
व्यथ See जल-व्यथ.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
व्यथ्
मूलधातुः:
व्यथ
धात्वर्थः:
भय-सञ्चलनयोः
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
व्यथते
अनुबन्धादिविशेषः:
घटादिः, षित्
धातुप्रदीपः
Sanskrit
व्यथँ व्यथ भय, चलनयोः
- व्यथते विव्यथे व्यथयति अव्यथि अव्याथि व्याथं व्याथं, व्यथं ।व्यथम् व्यथा ।। 767 ।।
शब्दकल्पद्रुमः
Sanskrit
व्यथ, दुःखे चाले भये इति कवि-कल्पद्रुमः
(भ्वा०-आत्म०-अक०-सेट् ।) दुःखंदुःखानुभवः चालः कम्पनम् ष, व्यथा म, व्यथयति ङ, व्यथते लोकः दुःखमनुभवति ।कम्पते बिभेति वेत्यर्थः केत्तित्तु दुःखभयचलन-योरिति पठित्वा भये चलनं भयचलनमित्याहुः ।दुःखभयचलने इति पठित्वा दुःखभययोश्चलन-मुत्पादनमिति गोविन्दभट्टः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
व्यथ भये चलने दुःस्यानुभवे
भ्वा०
आत्म० अक० सेट् व्यथतेअव्यथिष्ट मित् घटा० व्यथयति पित् अङ् व्यथा
क्षीरतरङ्गिणी
Sanskrit
व्यथँ व्यथ भय, चलनयोः
- दुःखचलनयोरिति दुर्गः व्यथते व्यथयति अव्याथि अव्यथि, व्याथं व्याथम्, व्यथं व्यथम् व्यथा व्यथो लिटि (7468) इत्यभ्यासस्य सम्प्रसारण्-विव्यथे राजसूयसूर्य (31144) इत्यव्यथ्यः कर्तरि साधुः ग्रहादौ व्यथवदवसां प्रतिषिद्धानाम् (तु0 31134 गणसूत्र) अव्याथी अनञ्पूर्वाद् युच् व्यथनः व्यथेः प्रसारणं किच्च (उ0 140 उज्ज0) विथुरो राक्षसः 742
धातुवृत्तिः
Sanskrit
व्यथँ व्यथ (अर्थः) भये, सञ्चलनयोः
(व्याध्रात व्यथते ) ( सूत्रम्) भीत्रार्थानां भयहेतुः (इति सूत्रम्) इति बिभेत्यर्थानां त्रायत्यर्थानां प्रयोगे भयहेतुः कारकमपादानमिति व्याघ्रस्यापादानत्वात्पञ्चमी ( व्यथते विव्यथे ) "व्यथो लिटि'' इत्यभ्यासस्य सम्प्रसारणं, ( सूत्रम्) सम्प्रसारणे सम्प्रसारणम् (इति सूत्रम्) इति पूर्वस्य यणो यकारस्य सम्प्रसारणपरत्वात्सम्प्रसारणं भवति, सम्प्रसारणइति सम्प्रसारणभाविनीत्यर्थः अस्मादेव वचनसामर्थ्यात्पूर्वं परस्य सम्प्रसारणं क्रियते पश्चादन्यस्य, अत्र वेलायामस्ति सम्प्रसारणपरत्वम् अथ वा "व्यथो लिटि' इति सम्प्रसारणं हलादिशेषापवाद इति परस्यैव प्रसज्यते पूर्वस्येति चोद्यावकाशः ( व्यथितेत्यादि विव्यथिष्यते वाव्यथ्यये वाव्यथीति वाव्यति व्यथयति अविव्यथत् ) घटिवच्चिण्णमुलोरुदाहार्यम्_ व्यथत इति (अव्यथ्यः) "राजसूर्य'' इत्यादिना निपातितः (अव्यथी ) "जिदृक्षि'' इतृयादिना नञ्पूर्वात्ताच्छीलिक इनिः ( व्यथा ) पित्त्वादङ् ( विथुरः ) "विदिभिदि'' इत्यत्र व्यथेः सम्प्रसारणं चेति वचनात्कुरचि सम्प्रसारणम् ( विधुरः ) "व्यथेः सम्प्रसारणं धः किच्च'' इति वचनादुरचि सम्प्रसारणं थकारस्यधकारः व्यथ दुःखचलनयोरिति दुर्गः भयचलनयोरिति प्रकाशः तवर्गचतुर्थान्तोयं दिवादौ 752
कृदन्तरूपमाला
Sanskrit
1 {@“व्यथ भयसंचलनयोः”@} 2 घटादिः, षिच्च।
‘-- दुःखभयचलनयोः’ इति काशकृत्स्नः।
‘--दुःख- चलनयोः’ इति दुर्गः।
‘दुःखे चाले भये’ इति वोपदेवः इति पा।
धा।
समीक्षा।
व्याथकः-थिका, 3 व्यथकः-थिका, विव्यथिषकः-षिका, वाव्यथकः-थिका
व्यथिता-त्री, व्यथयिता-त्री, विव्यथिषिता-त्री, वाव्यथिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकक्लथतिवत् 4 ऊह्यानि।
5 अव्यथ्यः 6, 7 अव्याथी, 8 अव्यथी 9, 10 व्यथनः, 11 व्यथा, 12 व्याथं-व्याथम्-व्यथं-व्यथम्, 13 विथुरः, 14 विधुरः इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्ति।
शानचि- 15 व्यथ्यमानः।
प्रासङ्गिक्यः
01
=>
(१६५३)
02
=>
(१-भ्वादिः-७६४। सक। सेट्। आत्म।)
03
=>
[[३। धातोरस्य घटादित्वात् ण्यन्ते, ‘घटादयो मितः’ (ग। सू। भ्वादिः) इति मित्त्वात् ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वे रूपमेवम्। ण्यन्ते सर्वत्र एवमेव प्रक्रिया ऊह्या।]]
04
=>
(२८०)
05
=>
[[४। ‘राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः’ (३-१-११४) इति कर्तरि क्य- प्प्रत्यये निपात्यते। व्यथते--अव्यथ्यः।]]
06
=>
[[आ। ‘समुत्तरन्तावव्यथ्यौ नदान् भिद्योद्ध्यसन्निभान्।’ भ। का। ६-६०।]]
07
=>
[[५। ‘… व्यथवदवसां प्रतिषिद्धानाम्’ (ग। सू। ३-१-१३४) इति ग्रह्यादिपाठात् णिनिप्रत्यये अव्याथी इति रूपं सिद्ध्यति इति क्षीरस्वामी। प्रकृतगणसूत्रे ‘व्यथ’ इत्यत्र ‘व्रज’ इत्येव दृश्यते।]]
08
=>
[[६। ‘जिदृक्षिविश्रीण्वमाव्यथ--’ (३-२-१५७) इति तच्छीलादिषु कर्तृषु इनिप्रत्यये रूपमेवम्।]]
09
=>
[[B। ‘न्याय्यं परिभवी ब्रूहि पापमव्यथिनं कपिम्।।’ भा। का। ७-२०।]]
10
=>
[[७। तच्छीलादिषु कर्तृषु युच्प्रत्यये रूपमेवम्।]]
11
=>
[[८। अस्य धातोः षित्त्वाद् ‘षिद्भिदादिभ्योऽङ् (३-३-१०४) इति स्त्रियामङ्प्रत्ययः।]]
12
=>
[[९। णमुलि, ‘चिण्णमुलोः--’ (६-४-९३) इति णौ परत उपधायाः दीर्घः विकल्पेन भवति। तेन रूपद्वयं बोध्यम्।]]
13
=>
[पृष्ठम्१२७०+ ३३]
14
=>
[[१। ‘व्यथेः संप्रसारणं धः किच्च’ (द। उ। ८-२२) इति उरच्प्रत्यये, संप्रसारणे, धातु- थकारस्य धकारादेशे रूपमेवम्। विधुरः = चोरः, अनग्निकः, राक्षसश्च। धातुवृत्तावपि एवमेव स्थितम्। “… व्यथधातौ त्वेतद् युक्तम्। ‘त्वमेषां विथुरा शावांसि’ (ऋ। ६-२५-३) ‘अतिविद्धा विथुरेणा चिदस्रा’ (ऋ। ८-९६-२) इत्यादिनन्त्रेषु थकारपाठस्य निर्विवादत्वात्। यदपि माधवेनोक्तम्-- ‘विदि- भिदि--’ (३-२-१६२) इत्यत्र ‘व्यथेः संप्रसारणं च’ इति वचनात् कुरचि थान्तं रूपमिति तदतिस्थवीयः। कुरज्विधायके सूत्रे व्यथेरुपसंख्यानस्याप्रसिद्धत्वात्। तस्मादिह ‘धः किच्च’ इति दशपादीपाठं पुरस्कुर्वन्तः प्रसादकारादयोऽप्यु- पेक्ष्याः। कथं तर्हि विधुर इति प्रयोगस्य निर्वाह इति चेत्--धुरो विगत इति प्रादिसमासेनेत्यवधेहि। ‘समासान्ताः’ (५-४-६९) इति सूत्रे वृत्तिपदमञ्जर्यो- स्तथैवोक्तत्वात्” इति प्रौढमनोरमाकारः। एवं तत्त्वबोधिनीकारोऽपि। (द। उ। ८-२२) टिप्पन्यपीहानुसन्धेया। काशिकायां तु (३-२-१६२) ‘व्यधेः सम्प्रसारणं कुरच्च वक्तव्यः’ इति दृश्यते।]]
15
=>
[[आ। ‘मन्मथायुथसंपातव्यथ्यमानमतिः पुनः।।’ भ। का। ४-३०।]]