व्यतिमृजानः (vyatimRjAnaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“मृजू शुद्धौ”@} 2 3 ‘मृजूष्--’ इति क्षीरस्वामी षितममुं पठित्वा, उत्तरत्र, ‘भिदादौ 4 मृजा।’ इत्यप्याह।
अनूदितश्चायं पक्षः पुरुषकारे 5, खण्डितश्च।
‘षकारोऽङर्थः।’ इति च क्षीरस्वामिवाक्यं किञ्चिदनूदितमत्र पुरुषकारे।
परं तु क्षीरतरङ्गिण्यां नैतादृशं वाक्यमधुनोपलभ्यते।
यदि धातोः षित्त्वं प्रामाणिकं स्यात्--तर्हि षित्त्वेनैन निदानेनाङ्सिद्धेर्भिदादिपाठपरिकल्पनमन्या- य्यमिति तदाशयः।
वस्तुतस्तु क्षीरतरङ्गिण्यां धातोरस्य षित्करणं लेखकदो- षादापतितमिति भाति।]] ‘शौचालंकारयोर्वा णौ मृजेर्मार्जति मार्जयेत्।।
मार्ष्टि शुद्धौ तथा मार्जेः शब्दार्थान्मार्जयेण्णिचि।’ 6 इति देवः।
मार्जकः-र्जिका, मार्जकः-र्जिका, 7 मिमार्जिषकः-षिका-मिमृक्षकः-क्षिका, 8 9 मरीमृजकः-जिका
10 मार्जिता-मार्ष्टा-मार्ष्ट्री, मार्जयिता-त्री, मिमार्जिषिता-मिमृक्षिता-त्री, मरीमृजिता-त्री
11 मार्जन्-मृजन्-ती, मार्जयन्-न्ती, मिमार्जिषन्-मिमृक्षन्-न्ती
मार्जिष्यन्- 12 मार्क्ष्यन्-न्ती-ती, मार्जयिष्यन्-न्ती-ती, मिमार्जिषिष्यन्-मिमृक्षिष्यन्-न्ती-ती
-- 13 व्यतिमार्जानः, व्यतिमृजानः, मार्जयमानः, व्यतिमिमार्जिषमाणः-व्यतिमि- मृक्षमाणः, मरीमृज्यमानः- 14 मर्मृज्यमानासः व्यतिमार्जिष्यमाणः-व्यतिमार्क्ष्य- माणः, मार्जयिष्यमाणः, व्यतिमिमार्जिषिष्यमाणः-व्यतिमिमृक्षिष्यमाणः, मरीमृजिष्यमाणः
15 कंसपरिमृट्-कंसपरिमृड्-कंसपरिमृजौ-कंसपरिमृजः
-- 16 17 मृष्टम्-मृष्टः-मृष्टवान्, मार्जितः, मिमार्जिषितः-मिमृक्षितः, मरीमृजितः-तवान्
परिमार्जः, 18 तुन्दपरिमृजः 19 -तुन्दपरिमार्जः, 20 परिमार्क्ष्णुः, 21 मार्जनः, मार्जः, मिमार्जिषुः-मिमृक्षुः, मरी22मृजः
मार्जितव्यम्-मार्ष्टव्यम्, मार्जयितव्यम्, मिमार्जिषितव्यम्-मिमृक्षितव्यम्, मरीमृजितव्यम्
मार्जनीयम्, मार्जनीयम्, मिमार्जिषणीयम्-मिमृक्षणीयम्, मरीमृजनीयम्
23 मृज्यः- 24 मार्ग्यः, 25 अवश्यमार्ज्यः, मार्ज्यम्, मिमार्जिष्यम्-मिमृक्ष्यम्, मरीमृज्यम्
ईषन्मार्जः-दुर्मार्जः-सुमार्जः
-- -- -- मृज्यमानः, मार्ज्यमानः, मिमार्जिष्यमाणः-मिमृक्ष्यमाणः, मरीमृज्यमानः
26 मार्गः, 27 अपामार्गः, मार्जः, मिमार्जिषः-मिमृक्षः, मरीमर्जः
मार्जितुम्-मार्ष्टुम्, मार्जयितुम्, मिमार्जिषितुम्-मिमृक्षितुम्, मरीमृजितुम्
28 मृजा, 29 मृष्टिः, मार्जना, मिमार्जिषा-मिमृक्षा, मरीमृजा
परिमार्जनम्- 30 सम्मार्जनी, 31 सांमार्जनम्, मार्जनम्, मिमार्जिषणम्-मिमृक्षणम्, मरीमृजनम्
मार्जित्वा-मृष्ट्वा, मार्जयित्वा, मिमार्जिषित्वा-मिमृक्षित्वा, मरीमृजित्वा
विमृज्य-अपमृज्य, विमार्ज्य, विमिमार्जिष्य-विमिमृक्ष्य, विमरीमृज्य
मार्जम् २, मार्जित्वा २-मृष्ट्वा २, मार्जम् २, मार्जयित्वा २, मिमार्जिषम् २-मिमृक्षम् २, मिमार्जिषित्वा २-मिमृक्षित्वा २, मरीमृजम् २
मरीमृजित्वा २
32 मर्जूः, 33 मार्जारः, 34 मार्जालीयः।
35
01 (१३०२)
02 (२-अदादिः-१०६६। अक। वेट्। पर।)
03 [[[अ]
04 (३-३-१०४)
05 (श्लो। ६१)
06 (श्लो। ६०-६१)
07 [[७। धातोरस्य ऊदित्त्वेन, ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इतीड्विकल्पः। इट्पक्षे रूपमेवम्। इडभावपक्षे, झलादित्वेन सनः कित्त्वेन गुणनिषेधे, ‘व्रश्चभ्रस्जसृजमृज--’ (८-२-३६) इत्यादिना षत्वे, ‘षढोः कः सि’ (८-२-४१) इति ककारे षत्वे च रूपमेवम्। एवमेव सन्नन्ते सर्वत्र रूपद्वयस्योपपत्तिर्ज्ञेया।]]
08 [पृष्ठम्१०४८+ २४]
09 [[१। ‘न धातुलोप आर्धधातुके’ (१-१-४) इत्यत्रत्यभाष्यपरामर्शनात् यङन्ते सर्वत्र वृद्धिविकल्पः इति ज्ञायत इति बृहच्छब्देन्दुशेखरे (पु। १८७८) स्पष्टम्। ततश्चात्र सर्वत्र मरीमार्जकः-र्जिका, मरीमार्जिता-त्री
\n\n इत्यादीनि रूपाणि यथासम्भवं तत्तत्प्रत्ययेषु ज्ञेयानि। एवं ‘ममृंज्यते मर्मृज्यमानास इति चोपसंख्यानम्’ (वा। ७-४-९१) इत्युक्तत्वात् ण्वुलादिष्वप्यस्य रुकि रूपनिष्पत्तिर्भव- तीति न मन्तव्यम्
\n\n यतोऽत्र निपातनस्थलेष्विव स्वरूपग्रहणात्, निर्दिष्टरूपस्यैव साधुत्वज्ञापनात्, यङ्लुकि विहितस्य रुको यङन्तेऽपि निर्दिष्टयोरुभयोर्विषयेऽप्युप- संख्यानार्थमेव वार्तिकावताराच्च इति स्पष्टं कैयटादौ।]]
10 [[२। तृजादिष्वप्यूदित्त्वादिड्विकल्पः। इडभावपक्षे, इट्पक्षेऽपि लघूपधलक्षणं गुणं बाधित्वा, ‘मृजेर्वृद्धिः’ (७-२-११४) इति वृद्धिः। एवमेव तव्यदादिष्वपि ज्ञेयम्।]]
11 [[३। शतरि, ‘अदिप्रभृतिभ्यः--’ (२-४-७२) इति शब्लुकि, ‘इहान्ये वैयाकरणाः मृजेरजादौ सङ्क्रमे विभाषा वृद्धिमारभन्ते’ (भाष्यवाक्यम् १-१-३) इति वृद्धिविकल्पः। वृद्ध्यभावपक्षे, शतुरपित्सार्वधातुकत्वेन ङिद्वद्भावादङ्गस्य गुणो न।]]
12 [[४। स्यप्रत्यये इडभावपक्षे षत्वकत्वषत्वेषु रूपमेवम्।]]
13 [[५। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्। वृद्धिविकल्पः।]]
14 [[६। यङन्ताच्छानचि, ‘मर्मृज्यते मर्मृज्यमानास उपसंख्यानम्’ (वा। ७-४-९१) इति वचनात् रीगपवादतया पाक्षिके रुकि, बहुवचने जसः, ‘आज्जसेरसुक्’ (७-१-५०) इत्यसुकि रूपमेवम्। “छन्दोऽधिकारः ‘आज्जसेरसुक्’ (७-१-५०) इति यावत्।” इति काशिकायाम् (७-१-३८) उक्तत्वात् वैदिकेष्वेवास्य प्रयोग इति ज्ञेयम्।]]
15 [[७। कंसं परिमार्ष्टि इत्यर्थे, ‘क्विप् च’ (३-२-७६) इति कर्मण्युपपदे क्विप्। पदान्तनि- मित्तके षत्वे जश्त्वे चर्त्वविकल्पे च रूपमेवम्।]]
16 [पृष्ठम्१०४९+ २७]
17 [[१। ऊदित्त्वेनेड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः। षत्वे ष्टुत्वे च रूपमेवम्।]]
18 [[२। तुन्दं परिमार्ष्टीत्यर्थे, ‘तुन्दशोकयोः परिमृजापनुदोः’ (३-२-५) इति कर्मण्युप- पदे अणोऽपवादतया कप्रत्ययः। कित्त्वेन गुणनिषेधः। ‘आलस्यसुखाहरणयोः--’ (वा। ३-२-५) इति वचनात् आलस्यविशिष्टे कर्तर्येवायं प्रत्यय इति ज्ञेयम्। तदभावपक्षे तुन्दपरिमार्जः इत्यत्र, ‘कर्मण्यण्’ (३-२-१) इति अण्प्रत्यये वृद्धौ च रूपम्। अत्र कप्रत्ययस्य कित्त्वात्, ‘मृजेरजादौ सङ्क्रमे विभाषा वृद्धिम्--’ (भाष्यवाक्यम् १-१-३) इति वचनात् आलस्यरूपार्थे एव वृद्धिविकल्पमाशङ्क्य, ‘सा भवत्येव सत्यभिधाने’ इति उद्द्योते (३-१-५) समाहितम्। उत्तरत्र च यद्यनभिधानमभिमतम्, तदानीम्, ‘इको गुणवृद्धी’ (१-१-३) इति सूत्रे भाष्य- स्वारस्यात् निरुक्तभाष्यवाक्ये ‘अजादौ’ इत्यस्य आतिदेशिकक्ङिदजादिप्रत्यये इत्यर्थपरकत्वमाश्रित्य, अत्र कप्रत्ययस्यौपदेशिककित्त्वेन वृद्धिनिषेध एवेति च समाहितम्।]]
19 [[आ। ‘इह युवतिवदनकान्तिभिराप्यायिततुन्दपरिमृजः शेते।’ अनर्घराघवे ७-११०।]]
20 [[३। ताच्छीलिके, “-- ‘परिक्षिपच्परिमृजः ग्स्नुः’ इति ग्स्नुप्रत्ययः। परिमार्क्ष्णुः।” इति प्रक्रियाकौमुदी। भाष्यादिषु तु नैतादृशं वचनमुपलभ्यते।]]
21 [[४। बाहुलकात्, नन्द्यादेः (३-१-१३४) आकृतिगणत्वाद्वा ण्यन्तात् कर्तरि ल्युप्रत्यये रूपमेवम्।]]
22 [मार्जः]
23 [[५। ‘मृजेर्विभाषा’ (३-१-११३) इति विभाषा क्यप्। पक्षे ण्यति निष्ठायामनिट्त्वात् ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वे वृद्धौ च मार्ग्यः इति रूपम्।]]
24 [[B। ‘मन्युस्तस्य त्वया मार्ग्यो मृज्यः शोकश्च तेन ते।।’ भ। का। ६-५७।]]
25 [[६। आवश्यकार्थे ण्यति, ‘ण्य आवश्यके’ (७-३-६५) इति कुत्वनिषेधः।]]
26 [पृष्ठम्१०५०+ २८]
27 [[१। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञि, कुत्वे, ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (६-३-१२२) इति ‘अप’ इत्युपसर्गान्त्याकारस्य दीर्घे रूपमेवम्। अपमृज्यतेऽनेन व्याध्यादिरिति अपामार्गः = ओषधिविशेषः।]]
28 [[२। स्त्रियां भावादौ भिदादिपाठात् (३-३-१०४) अङि, औपदेशिकङित्त्वादस्य प्रत्ययस्य ‘मृजेरजादौ--’ (भाष्यवाक्यम् १-३-५) इत्यत्र नास्य ग्रहणमिति निर्णयात्, ‘क्ङिति च’ (१-१-५) इति वृद्धिनिषेधे च रूपमेवम्। बाहुलकात् क्तिनि वृद्धौ च माष्टिः इत्यपि रूपमिति ज्ञेयम्। मा। धा। वृत्तौ तु ‘मार्ष्टिरिति चुरादौ वक्ष्यते’ इत्युक्तम्। चुरादिषु तु कुत्रापि मार्ष्टिशब्दनिष्पत्तिः तेन न क्रियते। मृष्टिरिति तु बाहुलकात् क्तिनि, क्तिचि वा निष्पद्यत इति ज्ञेयम्।]]
29 [[आ। ‘पयोधरांश्चन्दनपङ्कदिग्धान् वासांसि चामृष्टमृजानि दृष्ट्वा।’ भ। का। ११। २७।]]
30 [[३। सम्मार्जनी इति करणल्युडन्तात् स्त्रियां टित्त्वेन ङीपि रूपम्। सम्मार्जनी = शोधनसाधनी।]]
31 [[४। सम्पूर्वकादस्माद् भावे ‘अभिविधौ भाव इनुण्’ (३-३-४४) इतीनुणि, तदन्तात् ‘अण् इनुणः’ (५-४-१५) इति स्वार्थिके अण्प्रत्यये, ‘इनण्यनपत्ये’ (६-४-१६४) इति नान्तस्य प्रकृतिभावे च रूपमेवम्। क्लीबत्वं लोकादत्रेति ज्ञेयम्। काशिकायाम् (६-४-१६४) उदाहृतमिदं पदम्।]]
32 [[५। ‘मृजेर्गुणश्च’ (द। उ। १-१६५) इत्यूप्रत्यये, वचनादेव वृद्ध्यपवादे गुणे च रूपम्। मर्जूः = शुद्धिः।]]
33 [[६। ‘कञ्जिमृजिभ्यां चित्’ (द। उ। ८-६७) इत्यारन्प्रत्यये रूपसिद्धिः। मार्ष्टि भवन- मिति मार्जारः = बिडालः।]]
34 [[७। ‘स्थाचतिमृजेः आलवालजालीयरः’ (द। उ। १०-१) इत्यनेन यथासंख्यमालीयर् प्रत्यये रूपमेवम्। मार्ष्टि अशुभं रक्षांसि चेति मार्जालीयः = अग्निः।]]
35 [पृष्ठम्१०५१+ २९]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
